निरि᳚न्द्र॒ भूम्या॒ अधि᳚ वृ॒त्रं ज᳚घन्थ॒ निर्दि॒वः ।
सृ॒जा म॒रुत्व᳚ती॒रव᳚ जी॒वध᳚न्या इ॒मा अ॒पो॑र्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
सृ॒जा म॒रुत्व᳚ती॒रव᳚ जी॒वध᳚न्या इ॒मा अ॒पो॑र्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
पदपाठः (Word-by-word)
निः । इ॒न्द्र॒ । भूम्याः᳚ । अधि᳚ । वृ॒त्रम् । ज॒घ॒न्थ॒ । निः । दि॒वः ।
सृ॒ज । म॒रुत्व᳚तीः । अव᳚ । जी॒व॑ध᳚न्याः । इ॒माः । अ॒पः । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
सृ॒ज । म॒रुत्व᳚तीः । अव᳚ । जी॒व॑ध᳚न्याः । इ॒माः । अ॒पः । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र भूम्या अधि भूलोकस्योपरि वृत्रं निर्जघंथ । निःशेषेण हतवानसि । तथा दिवो द्युलोकान्निर्जघंथ । हत्वा चेमा अपो वृष्ट्युदकान्यव सृज । अधः पातय । कीदृशीरपः । मरुत्वतीर्मरुद्भिः संयुक्ता जीवधन्या जीवाः प्राणिनो धन्यास्तृप्ता याभिस्ताः । अन्यत्समानं ॥ ४ ॥ट