न॒हि नु याद᳚धी॒मसीन्द्रं॒ को वी॒र्या᳚ प॒रः ।
तस्मि᳚न्नृ॒म्णमु॒त क्रतुं᳚ दे॒वा ओजां᳚सि॒ सं द᳚धु॒रर्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
तस्मि᳚न्नृ॒म्णमु॒त क्रतुं᳚ दे॒वा ओजां᳚सि॒ सं द᳚धु॒रर्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
पदपाठः (Word-by-word)
न॒हि । नु । यात् । अ॒धि॒॑इ॒मसि᳚ । इन्द्र᳚म् । कः । वी॒र्या᳚ । प॒रः ।
तस्मि᳚न् । नृ॒म्णम् । उ॒त । क्रतु᳚म् । दे॒वाः । ओजां᳚सि । सम् । द॒धुः॒ । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
तस्मि᳚न् । नृ॒म्णम् । उ॒त । क्रतु᳚म् । दे॒वाः । ओजां᳚सि । सम् । द॒धुः॒ । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
यात् यांतं सर्वत्र व्याप्य वर्तमानमिंद्रं नहि न्वधीमसि । वयं न ह्यवगच्छामः । यतो वयमल्पाः । पर इत्येतत्सकारांतमव्ययं वैदूर्यमाचष्टे । परो दिवा पर एना । ऋग्वे १०-८२-५ । इति यथा । परः परस्तादतिदूरे मनुष्यैरनवगाह्ये स्थाने वीर्या वीर्येण सामर्थ्येन वर्तमानमिंद्रं को मनुष्यो जानीयात् । न कोऽपीत्यर्थः । कस्मादिति चेत् अत्राह । तस्मिन्निति । यस्मात्तस्मिन्निंद्रे देवा नृम्णं धनं उतापि च क्रतुं वीर्यकर्मौजांसि बलानि च सं दधुः स्थापयां चक्रुः । तस्मादित्यर्थः ॥ यात् । या प्रापणे । अस्माल्लटः शतृ । सुपां सुलुगिति द्वितीयाया लुक् । अधीमसि । इण् गतौ । इदंतो मसिः । वीर्या । सुपां सुलुगिति तृतीयाया आकारः ॥ १५ ॥