वि ते॒ वज्रा᳚सो अस्थिरन्नव॒तिं ना॒व्या॒३॒᳚ अनु᳚ ।
म॒हत्त᳚ इन्द्र वी॒र्यं᳚ बा॒ह्वोस्ते॒ बलं᳚ हि॒तमर्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
म॒हत्त᳚ इन्द्र वी॒र्यं᳚ बा॒ह्वोस्ते॒ बलं᳚ हि॒तमर्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
पदपाठः (Word-by-word)
वि । ते॒ । वज्रा᳚सः । अ॒स्थि॒र॒न् । न॒व॒तिम् । ना॒व्याः᳚ । अनु᳚ ।
म॒हत् । ते॒ । इ॒न्द्र॒ । वी॒र्य᳚म् । बा॒ह्वोः । ते॒ । बल᳚म् । हि॒तम् । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
म॒हत् । ते॒ । इ॒न्द्र॒ । वी॒र्य᳚म् । बा॒ह्वोः । ते॒ । बल᳚म् । हि॒तम् । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र ते तव वज्रासो वज्रास्त्वत्सकाशान्निर्गतान्यायुधानि नाव्या नावातार्या नवतिं नवतिसंख्याका वृत्रेण निरुद्धा नदीरनूपलक्ष्य व्यस्थिरन् । विविधमस्थिषत । सर्वत्र व्याप्य वर्तमानं वृत्रं हंतुं तव वज्र एकोऽप्यनेक इवासीदित्यर्थः । किंच इंद्र ते तव वीर्यं महत् प्रभूतम् । अन्यैरजेयमित्यर्धः । तथा ते बाह्वोस्त्वदीययोर्हस्तयोर्बलं हितं निहितम् । त्वदीयौ बाहू अप्यतिशयेन बलिनावित्यर्थः । अन्यत्पूर्वत् ॥ अस्थिरन् । तिष्ठतेर्बुङि समवप्रविभ्यः स्थ इत्यात्मनेपदम् । मंत्रे घसेति च्लेर्लुक् । स्थाघ्टोरिच्च (पा १-२-१७) इतीत्वम् । व्यत्ययेन झस्य रनादेशः । नाव्याः । नौवयोधर्मेत्यादिना (पा ४-४-९१) यत् । यतोऽनाव इति पर्युदासात्तित्स्वरित इति स्वरितत्वम् । बाह्वोः । उदात्तयण इति विभक्त्युदात्तत्वं ॥ ८ ॥