इन्द्रो᳚ वृ॒त्रस्य॒ तवि᳚षीं॒ निर᳚ह॒न्त्सह᳚सा॒ सहः᳚ ।
म॒हत्तद᳚स्य॒ पौंस्यं᳚ वृ॒त्रं ज᳚घ॒न्वा{4} अ᳚सृज॒दर्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
म॒हत्तद᳚स्य॒ पौंस्यं᳚ वृ॒त्रं ज᳚घ॒न्वा{4} अ᳚सृज॒दर्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
पदपाठः (Word-by-word)
इन्द्रः᳚ । वृ॒त्रस्य᳚ । तवि᳚षीम् । निः । अ॒ह॒न् । सह᳚सा । सहः᳚ ।
म॒हत् । तत् । अ॒स्य॒ । पौंस्य᳚म् । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
म॒हत् । तत् । अ॒स्य॒ । पौंस्य᳚म् । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
इंद्रो वृत्रस्यासुरस्य तविषीं बलं स्वकीयेन बलेन निरहन् । हतवान् । सहसा सहनेनाभिभवसाधनेनायुधेन सहोऽभिभवसाधनं वृत्रायुधं निरहन् । अस्येंद्रस्य तत्पौंस्यं बलं महत् अतिप्रौढम् । यस्मादयं वृत्रं जघन्वान्हतवान् हत्वा च तन्निरुद्धा अपोऽसृजत् तस्माद्वृत्रान्निरगमयत् । अन्यत्पूर्ववत् ॥ पौंस्यम् । पुंस अभिवर्धने । चुरादिः । अचो यदिति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । जघन्वान् । हंतेर्लिटः क्वसुः । विभाषा गमहनविदेतीटो विकल्पादभावः । अभ्यासाच्चेत्यभ्यासादुत्तरस्य हंतेर्हकारस्य घत्वं ॥ १० ॥