इ॒मे चि॒त्तव᳚ म॒न्यवे॒ वेपे᳚ते भि॒यसा᳚ म॒ही ।
यदि᳚न्द्र वज्रि॒न्नोज᳚सा वृ॒त्रं म॒रुत्वा{4}॒ अव᳚धी॒रर्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
यदि᳚न्द्र वज्रि॒न्नोज᳚सा वृ॒त्रं म॒रुत्वा{4}॒ अव᳚धी॒रर्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
पदपाठः (Word-by-word)
इ॒मे । चि॒त् । तव᳚ । म॒न्यवे᳚ । वेपे᳚ते॒ इति᳚ । भि॒यसा᳚ । म॒ही इति᳚ ।
यत् । इ॒न्द्र॒ । व॒ज्रि॒न् । ओज᳚सा । वृ॒त्रम् । म॒रुत्वा᳚न् । अव᳚धीः । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
यत् । इ॒न्द्र॒ । व॒ज्रि॒न् । ओज᳚सा । वृ॒त्रम् । म॒रुत्वा᳚न् । अव᳚धीः । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
मही महत्याविमे द्यावापृथिव्यावपि हे इंद्र तव मन्यवे त्वदीयकोपाद्भियसा भीत्या वेपेते । कंपेते । हे वज्रिन्वज्रवन्निंद्र मरुत्वान्मरुद्भिर्युक्तस्त्वमोजसा बलेन यद्यदा वृत्रमवधीः । तदानीं द्यावापृथिव्यावपि भयेनाकंपिषातामित्यर्थः ॥ वेपेते । टुवेपृ कंपने । भियसा । ञिभी भये । औणादिकः कसिप्रत्ययः ॥ ११ ॥