श्रवणम्

1.80.14
अ॒भि॒ष्ट॒ने ते᳚ अद्रिवो॒ यत्स्था जग᳚च्च रेजते ।
त्वष्टा᳚ चि॒त्तव᳚ म॒न्यव॒ इन्द्र᳚ वेवि॒ज्यते᳚ भि॒यार्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒भि॒॑स्त॒ने । ते॒ । अ॒द्रि॒॑वः॒ । यत् । स्थाः । जग᳚त् । च॒ । रे॒ज॒ते॒ ।
त्वष्टा᳚ । चि॒त् । तव᳚ । म॒न्यवे᳚ । इन्द्र᳚ । वे॒वि॒ज्यते᳚ । भि॒या । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवो वज्रवन्निंद्र ते तवाभिष्टने सिंहनादे सति स्थाः स्थावरं जगज्जंदगमं च यदस्ति तदुभयं रेजते । कंपते । त्वष्टा चित् वज्रनिर्माता त्वष्टा च तव मन्यवे त्वदीयाय कोपाय भिया भीत्या वेविज्यते । भृशं कंपते । अन्यत्समानं ॥ स्थाः । तिष्ठतेः क्विप्चेति क्विप् । वेविज्यते । ओविजी भयचलनयोः । अस्मात्क्रियासमभिहारे यङ् । सन्यङोरिति द्विर्भावः । अदुपदेशाल्लसार्वधातुकानुदात्वत्वे यङ एव स्वरः शिष्यते । इंद्रेत्यस्य पादादौ वर्तमानस्यामंत्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वे सत्यस्य पादादित्वादपादादाविति पर्युदासान्निघाताभावः ॥ १४ ॥