श्रवणम्

1.80.9
स॒हस्रं᳚ सा॒कम᳚र्चत॒ परि᳚ ष्टोभत विंश॒तिः ।
श॒तैन॒मन्व᳚नोनवु॒रिन्द्रा᳚य॒ ब्रह्मोद्य᳚त॒मर्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
▶ पदपाठः (Word-by-word)
स॒हस्र᳚म् । सा॒कम् । अ॒र्च॒त॒ । परि᳚ । स्तो॒भ॒त॒ । विं॒श॒तिः ।
श॒ता । ए॒न॒म् । अनु᳚ । अ॒नो॒न॒वुः॒ । इन्द्रा᳚य । ब्रह्म᳚ । उत्॑य᳚तम् । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्रं सहस्रसंख्याका मनुष्याः साकमर्चत । एनमिंद्र युगपदेवापूजयन् । तथा विंशतिः । षोडशर्त्विजो यजमानः पत्नी च सदस्यः शमिता चेति विंशतिसंख्याकाः । तेषां या विंशतिसंख्या सा परि ष्वोभत । परितः सर्वतोऽस्तौत् । तथा च शता शतसंख्याका ऋषय एनमिंद्रमन्वनोनवुः । पुनःपुनरस्तुवन् । अस्मा एवेंद्राय ब्रह्म हविर्लक्षणमन्नमुद्यतम् । दातुमूर्ध्वं धृतम् । अत एवंविध इंद्रो वृत्रमहन्नित्यर्थः । अन्यत्पूर्ववत् ॥ परि ष्टोभत । स्तोभतिः स्तुतिकर्मा । उपसर्गात्सुनोतीति षत्वम् । अनोनुवुः । णु स्तुतौ । अस्माद्यङ् लुगंताल्लुङि सिजभ्यस्तविदिभ्यश्चेति झेरुसादेशः । उद्यतम् । यम उपरमे । उत्पूर्वादस्मत्कर्मणि निष्ठा । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं ॥ ९ ॥