श्रवणम्

1.80.2
स त्वा᳚मद॒द्वृषा॒ मद॒ः सोमः᳚ श्ये॒नाभृ᳚तः सु॒तः ।
येना᳚ वृ॒त्रं निर॒द्भ्यो ज॒घन्थ᳚ वज्रि॒न्नोज॒सार्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । त्वा॒ । अ॒म॒द॒त् । वृषा᳚ । मदः᳚ । सोमः᳚ । श्ये॒न॑आ᳚भृतः । सु॒तः ।
येन᳚ । वृ॒त्रम् । निः । अ॒त्॑भ्यः । ज॒घन्थ᳚ । व॒ज्रि॒न् । ओज᳚सा । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वा ! त्वां स सोमोऽमदत् । आमदयत् । हर्षं प्रापयश् । कीदृशः सोमः । वृषा सेचनस्वभावो मदो मदकरो हर्षकारी श्येनाभृतः श्येनरूपमापन्नया पक्ष्याकारया गायत्र्या दिवः सकाशादाहृतः सुतोऽभिषुतः । हे वज्रिन् वज्रवन्निंद्र येन पीतेन सोमेनौजसा बलकरेणाद्भ्योऽंतरिक्षसकाशाद्वृत्रं निर्जघंथ हतवानसि । अन्यत्पूर्ववत् ॥ अमदत् । मदी हर्षे । अस्माण्णिचि मदी हर्षग्लपनयोरिति घटादिषुपाठात् मित्वे सति मितां ह्रस्व इति ह्रस्वत्वम् । लङि छंदस्यु भयथेति शप आर्धधातुकत्वाण्णेरनिटीति णिलोपः । अद्भ्यः । आप इत्यंतरिक्षनाम । अपो भि (पा ७-४-४८) इति पकारस्य तत्वम् । जघंथ । क्रादिनियमप्राप्तस्येट उपदेशेऽत्वत इति प्रतिषेधः । अभ्यासाच्चेति हकारस्य घत्वम् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ २ ॥