प्रथमं मण्डलम् - सूक्तम् 92

18 ऋचः

ऋषिः: गोतमो राहूगणः देवता: उषाः छन्दः: जगती

सूक्तम् 1.92 - सम्पूर्णम्

1 / 18
ऋक्: 1.92.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (18)
1.92.1
ए॒ता उ॒ त्या उ॒षसः᳚ के॒तुम᳚क्रत॒ पूर्वे॒ अर्धे॒ रज᳚सो भा॒नुम᳚ञ्जते ।
नि॒ष्कृ॒ण्वा॒ना आयु᳚धानीव धृ॒ष्णव॒ः प्रति॒ गावो॑रु᳚षीर्यन्ति मा॒तरः᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒ताः । ऊं॒ इति᳚ । त्याः । उ॒षसः᳚ । के॒तुम् । अ॒क्र॒त॒ । पूर्वे᳚ । अर्धे᳚ । रज᳚सः । भा॒नुम् । अ॒ञ्ज॒ते॒ ।
निः॒॑कृ॒ण्वा॒नाः । आयु᳚धानि॑इव । धृ॒ष्णवः᳚ । प्रति᳚ । गावः᳚ । अरु᳚षीः । य॒न्ति॒ । मा॒तरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एता उ त्या इत्यष्टादशर्चमष्टमं सूक्तं गोतमस्यार्षम् । आदितश्चतस्रो जगत्यः । त्रयोदश्याद्याः षडृच उष्णिहः शिष्टा अष्टौ त्रिष्टुभः । उषा देवता । अश्विना वर्तिरित्यंत्यस्तृ चोऽश्विदेवताकः । तथा चानुक्रांतम् । एता उ त्या द्व्यूनोषस्यं चतुर्जगत्यादि षळुष्णिगंतं तृचोऽंत्य आश्विन इति ॥ सूक्तविनियोगो लैंगिकः ॥ प्रातरनुवाक उषस्ये क्रतौ जागते छंदस्याश्विनशस्त्रे चैता उ त्या इति चतस्रो विनियुक्ताः । सूत्रितं च । एता उ त्या इति चतस्रो जागतम् । अ ४-१४ । इति ॥

उ इत्येतत्पादपूरणम् । त्यास्ता एता उषसः । प्रभातकालाभिमानिन्यो देवताः केतुमंधकारावृतस्य सर्वस्य जगतः प्रज्ञापकं प्रकाशमक्रत । अकृषत । कृतवत्यः । यस्मादेवं तस्मादुषसो रजसोऽंतरिक्षलोकस्य पूर्वेऽर्धे प्राचीनदिग्भागे भानुं प्रकाशमजंते । व्यक्तीकुर्वंति । धृष्णवो धर्षणशीला योद्धार आयुधानीव यथासिप्रभृतीन्यायुधानि संस्कुर्वंति एवं निष्कृण्वानाः स्वभासा जगत्संस्कुर्वाणा गावो गमनस्वभावा अरुषीरारोचमाना मातरः सूर्यप्रकाशस्य निर्मात्र्यो जगज्जनन्यो वोषसः प्रति यंति । प्रतिदिवसं गच्छंति । एवंविधा उषसोऽस्मान्रक्षंत्वित्यर्थः । अत्र निरुक्तम् । एतास्ता उषसः केतुमकृषत प्रज्ञानमे । कस्या एव पूजनार्थे बहुवचनं स्यात् पूर्वेर्धेऽंतरिक्षलोकस्य समंजते भानु ना निष्कृण्वाना आयुधानीव धृष्णवः । निरत्येष समित्येतस्य स्थाने । एमीदेषां निष्कृतं जारिणीवेत्यपि निगमो भवति । प्रति यंति गावो गमनादरुषीरारोचनान्मातरो भासो निर्मात्र्यः । नि १२-७ । इति ॥ अक्रतः । करोतेर्लुङु मंत्रे घसेति च्लेर्लुक् । निष्कृण्वानाः । कृवि । हिंसाकरणयोश्च । अस्मात्ताच्छीलिकश्चानश् । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । इदुदुपधस्य चाप्रत्ययस्येति विसर्जनीयस्य षत्वं कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १ ॥

1.92.2
उद᳚पप्तन्नरु॒णा भा॒नवो॒ वृथा᳚ स्वा॒युजो॒ अरु᳚षी॒र्गा अ᳚युक्षत ।
अक्र᳚न्नु॒षासो᳚ व॒युना᳚नि पू॒र्वथा॒ रुश᳚न्तं भा॒नुमरु᳚षीरशिश्रयुः ॥
▶ पदपाठः (Word-by-word)
उत् । अ॒प॒प्त॒न् । अ॒रु॒णाः । भा॒नवः᳚ । वृथा᳚ । सु॒॑आ॒युजः᳚ । अरु᳚षीः । गाः । अ॒यु॒क्ष॒त॒ ।
अक्र᳚न् । उ॒षसः᳚ । व॒युना᳚नि । पू॒र्व॑था᳚ । रुश᳚न्तम् । भा॒नुम् । अरु᳚षीः । अ॒शि॒श्र॒युः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरुणा आरोचमाना भानव औषस्यो दीप्तयो वृथानायासेन स्वयमेवोदपप्तन् । उदगमन् । तदनंतरमुषसश्च स्वायुजः सुखेन रथ आयोक्तुं शक्या आरुषीः शुभ्रवर्णा गाः पूर्वमुत्थितान् रश्मीन् ईदृशीः स्ववाहनभूताश्चतु ष्पदीर्गा एव वायुक्षत । स्वरथेऽयोजयन् । उक्तंच । अरुण्यो गाव उषसामिति । एवं गोभिर्युक्तं रथमारुह्योषसः पूर्वथा पूर्वेष्वतीतेष्वहःस्विव वयुनानि सर्वेषां प्राणिनां ज्ञानान्यक्रन् । अकार्षुः । उषःकाले जाते हि सर्वे प्राणिनो ज्ञानयुक्ता भवंति । तदनंतरमरुषीरारोचमानास्ता उषसोरुशंतम् । रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः । नि । २-२० । इति यास्कः । शुभ्रवर्णं भानुम् । सूर्यमशिश्रयः । असेवंत । तेन सहैकीभवंतीत्यर्थः ॥ अपप्तन् । पत्लृगतौ । लुङि लृदित्वात् च्लेरङादेशः । पतः पुम् । ७-४-१९ । इति धातो पुमागमः । अक्रन् । मंत्रे घसेत्यादीना च्लेर्लुक् । पूर्वथा । प्रत्नपूर्वविश्वेमात्थाल् छंदसि (पा ५-३-१११) इतिवार्थे थाल्प्रत्ययः । अशित्रयुः । श्रिञ् सेवायाम् । बहुलं छंदसीति शपः श्लुः । सिजभ्यस्तविदिभ्यश्चेति झेर्जुस् । जुसि च पा ७-३-८३ । इति गुणः ॥ २ ॥

1.92.3 समानपद
अर्च᳚न्ति॒ नारी᳚र॒पसो॒ न वि॒ष्टिभि᳚ः समा॒नेन॒ योज᳚ने॒ना प᳚रा॒वतः᳚ ।
इषं॒ वह᳚न्तीः सु॒कृते᳚ सु॒दान᳚वे॒ विश्वेदह॒ यज᳚मानाय सुन्व॒ते ॥
▶ पदपाठः (Word-by-word)
अर्च᳚न्ति । नारीः᳚ । अ॒पसः᳚ । न । वि॒ष्टि॑भिः᳚ । स॒मा॒नेन᳚ । योज᳚नेन । आ । प॒रा॒॑वतः᳚ ।
इष᳚म् । वह᳚न्तीः । सु॒॑कृते᳚ । सु॒॑दान᳚वे । विश्वा᳚ । इत् । अह᳚ । यज᳚मानाय । सु॒न्व॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

नारीर्नेत्र्य उषसो विष्टिभिर्निवेशकैः स्वकीयैस्तेजोभिः समानेन योजनेनैकेनैव योजनेनोद्योगेन परावत आ दूरदेशादा पश्चिमदिग्भागादर्चंति । नभःप्रदेशं पूजयंति । कृत्स्नं जगद्युगपदेव व्याप्नुवंतीत्यर्थः । तत्र दृष्टांतः । अपसो न । युद्धकर्मणोपेताः पुरुषा यथा स्वकीयैरायुधैर्धाटीमुखेन सर्वं देशं व्याप्नुवंति तद्वत् । किं कुर्वत्यः । सुकृते शोभनस्य कर्मणः कर्ते सुन्वते सोमाभिषवं कुर्वते सुदानवे कल्याणीर्दक्षिणा ऋत्विग्भ्यो ददते यजमानाय विश्वेदह सर्वमेवेषमन्नं वहंतीरावहंत्यः । प्रयच्छंत्य इत्यर्थः ॥ नारीः नृ नये । ॠदोरप् । नृनरयोर्वृद्धिश्च (पा ४-१-७३) इति शार्ङ्गरवादिषु पाठात् ङीन् । जसि वा छंदसीति पूर्वसवर्णदीर्घत्वम् । अपसः । अपश्शब्दादर्शआदिभ्योऽजित्यच् । सुपां सुलगिति जसः सुः । व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम् । विष्टिभिः । विश प्रवेशने । विशंति प्रविशंतीति विष्टयः किरणाः । क्तिच् क्तौ च संज्ञायामिति क्तिच् । विश्वा । सुपां सुलुगित्यमो डादेशः ॥ ३ ॥

1.92.4
अधि॒ पेशां᳚सि वपते नृ॒तूरि॒वापो᳚र्णुते॒ वक्ष᳚ उ॒स्रेव॒ बर्ज᳚हम् ।
ज्योति॒र्विश्व᳚स्मै॒ भुव᳚नाय कृण्व॒ती गावो॒ न व्र॒जं व्यु१॒᳚षा आ᳚व॒र्तमः᳚ ॥
▶ पदपाठः (Word-by-word)
अधि᳚ । पेशां᳚सि । व॒प॒ते॒ । नृ॒तूः॑इ᳚व । अप᳚ । ऊ॒र्णु॒ते॒ । वक्षः᳚ । उ॒स्रा॑इ᳚व । बर्ज᳚हम् ।
ज्योतिः᳚ । विश्व᳚स्मै । भुव᳚नाय । कृ॒ण्व॒ती । गावः᳚ । न । व्र॒जम् । वि । उ॒षाः । आ॒व॒रित्या᳚वः । तमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उषाः पेशांसि जगत्स्वाश्लिष्टानि कृष्णवर्णानि तमांस्यध्याधिक्येन वपते छिनत्ति । तत्र दृष्टांतः । नृतूरिव । नृंस्तूर्वति केशेन रिक्तीकरोतीति नृतूर्नापितः । स यथा केशान्निःशेषेण च्छिनत्ति एवमुषा अप्यंधकारं समूलं हिनस्तीत्यर्थः । यद्वा । नृतूरिव नृत्यंती योषिदिव । पेशांसि । रूपनामैतत् । सर्वैर्दर्शनी यानि रूपाण्युषा अधि वपते । स्मात्मन्यधिकं धारयति । एवं प्रथमतोऽंधकारं स्वकिरणैर्निरस्य वक्षः स्वकीयमुरःप्रदेशमपोर्णुते । तमसानाच्छादितं करोति । स्वयमाविर्भवतीत्यर्थः । बर्जहं पयस उत्पत्तिस्थानं दोहनसमय उस्रा गौर्यथाविष्करोति तद्वत् । किं कुर्वती । गावो न व्रजं यथा गावः स्वकीयं गोष्ठं स्वयमेव शीघ्रं व्याप्नुवंति एवं स्वयमेव प्राचीं दिशं प्राप्य विश्वस्मै भुवनाय सर्वस्मै लोकाय ज्योतिष्कृण्वती । प्रकाशं कुर्वती । एवमुक्तेन प्रकारेणोषास्तमोऽंधकारं व्यावः । विवृतमपश्लिष्टमकरोत् ॥ नृतूरिव । तुर्वीहिंसार्थम् । क्विप्चेति क्विप् । राल्लोप इति वलोपः । र्वोरुपधाया इति दीर्घत्वम् । यद्वा । नृती गात्रविनामे । नृतिशृध्योः कूः (उ १-९३) इति कूप्रत्ययः । बर्जहम् । वृङ् संभक्तौ । वृणीते संभजते गामिति बः पयः । विच् । तज्जहातीति बर्जहः । ओहाङ् त्यागे । खश्प्रकरणे वातशुनीतिलगर्धेष्वजधेट् तुदजहातिभ्य उपसंख्यानम् । पा ३-२-२८-१ । इत्यगर्धशब्दोपपदादपि कृत्यल्युटो बहुलमिति बहुलवचनात् खश् । तस्य सार्वधातुकत्वेन कर्तरि शपि जुहोत्यादित्वात् श्लुः । द्विर्वचनादि । बव योरभेव इति बत्वम् । दिवोदासादित्वात्पूर्वपदाद्युदात्तत्वम् । आवः । वृञ् वरणे । लुङि मंत्रे घसेति च्लेर्लुक् । गुणे हल्ङ्याब्भ्य इति लोपः । छंदस्यपि दृश्यते (पा ६-४-७३) इत्याडागमः ॥ ४ ॥

1.92.5 समानपद
प्रत्य॒र्ची रुश᳚दस्या अदर्शि॒ वि ति᳚ष्ठते॒ बाध᳚ते कृ॒ष्णमभ्व᳚म् ।
स्वरुं॒ न पेशो᳚ वि॒दथे᳚ष्व॒ञ्जञ्चि॒त्रं दि॒वो दु᳚हि॒ता भा॒नुम᳚श्रेत् ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । अ॒र्चिः । रुश᳚त् । अ॒स्याः॒ । अ॒द॒र्शि॒ । वि । ति॒ष्ठ॒ते॒ । बाध᳚ते । कृ॒ष्णम् । अभ्व᳚म् ।
स्वरु᳚म् । न । पेशः᳚ । वि॒दथे᳚षु । अ॒ञ्जन् । चि॒त्रम् । दि॒वः । दु॒हि॒ता । भा॒नुम् । अ॒श्रे॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातरनुवाकस्योषस्ये क्रतौ प्रत्यर्चिरित्यष्टावनुवक्तव्याः । आश्विनशस्त्रे च । तथा च सूत्रितम् । प्रत्यर्चिरित्यष्टौ व्युषा आ वो दिविजा इति षळिति त्रैष्टुभम् (आ ४-१४) इति ॥

अस्या उषसो रुशद्दीप्यमानमर्चिस्तेजः प्रत्यदर्शि । सर्वैः पूर्वस्यां दिशि प्रथमतो दृश्यते । वि तिष्ठते । सर्वासु दिक्षु विविधमवतिष्ठते । व्याप्नोतीत्यर्थः । सर्वा दिशो व्याप्य चाभ्वम् । महन्नामृतत् । अतिशयेन विपुलं कृष्णं कृष्णवर्णमंधकारं बाधते । अपसारयति । विदथेषु यज्ञेषु स्वरुं न स्वरुनाम्ना शकलेन युक्तं यूपं यथाज्येनाध्वर्यवो अंजन् अंजंति तद्वन्नभिसि स्वकीयं पेशो रूपमुषा अनक्ति । संश्लिष्टं करोति । तदनंतरं चित्रं चायनीयं भानुं सूर्यं दिवो दुहिता द्युलोकादुत्पन्नोषा अश्रेत् । असेवत ॥ वि तिष्ठते । समवप्रविभ्य इत्यात्मनेपदम् । अश्रेत् । श्रीञ् सेवायाम् । लङि बहुलं छंदसीति शपो लुक् ॥ ५ ॥

1.92.6 समानपद
अता᳚रिष्म॒ तम᳚सस्पा॒रम॒स्योषा उ॒च्छन्ती᳚ व॒युना᳚ कृणोति ।
श्रि॒ये छन्दो॒ न स्म᳚यते विभा॒ती सु॒प्रती᳚का सौमन॒साया᳚जीगः ॥
▶ पदपाठः (Word-by-word)
अता᳚रिष्म । तम᳚सः । पा॒रम् । अ॒स्य । उ॒षाः । उ॒च्छन्ती᳚ । व॒युना᳚ । कृ॒णो॒ति॒ ।
श्रि॒ये । छन्दः᳚ । न । स्म॒य॒ते॒ । वि॒॑भा॒ती । सु॒॑प्रती᳚का । सौ॒म॒न॒साय᳚ । अ॒जी॒ग॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य नैशस्य तमसोऽंधकारस्य पारं समाप्तिप्रदेशमतारिष्म । उत्तीर्णा अभूम । अनंतरमुच्छंती नैशं तमो वर्जयंत्युषा वयुना वयुनानि सर्वेषां प्राणिनां ज्ञानानि कृणोति । निर्मिमीते । श्रिये संपदर्थं छंदो न स्मयते । यथोपच्छंदयिता वशीकरणे समर्थः पुरुष आढ्यसमीपं प्राप्य तत्प्रीत्यर्थं स्मयते हसति एवं विभाती विशिष्टप्रकाशं कुर्वत्युषाः स्वकीयया निर्मलदीप्त्या हसंतीव दृश्यते । एवं सुप्रतीका विशिष्टप्रकाशरूपत्वेन शोभनांगी सती सौमनसाय सर्वेषां सौमनस्यायाजीगः । अंधकारं भक्षितवती ॥ अतारिष्म । तृप्लवनतरणयोः । लुङि सिचि वृद्धिः । तमसः । षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य संहितायां सत्वम् । स्मयते । स्मिङ् ईषद्धसने । भौवादिकः । अजीगः । गृ निगरणे । लङि बहुलं छंदसीति शपः श्लुः । बहुलं छंदसीत्यभ्यासस्येत्वम् । तुजादित्वाद्दीर्घः ॥ ६ ॥‍

1.92.7
भास्व᳚ती ने॒त्री सू॒नृता᳚नां दि॒वः स्त᳚वे दुहि॒ता गोत᳚मेभिः ।
प्र॒जाव᳚तो नृ॒वतो॒ अश्व᳚बुध्या॒नुषो॒ गोअ᳚ग्रा{4}॒ उप᳚ मासि॒ वाजा᳚न् ॥
▶ पदपाठः (Word-by-word)
भास्व᳚ती । ने॒त्री । सू॒नृता᳚नाम् । दि॒वः । स्त॒वे॒ । दु॒हि॒ता । गोत᳚मेभिः ।
प्र॒जा॑व᳚तः । नृ॒॑वतः᳚ । अश्व᳚॑बुध्यान् । उषः᳚ । गो॑अ᳚ग्रान् । उप᳚ । मा॒सि॒ । वाजा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

भास्वती तेजस्विनी । सूनृतेति वाङ्नाम । सूनृतानां प्रियसत्यात्मिकानां नेत्री प्रणेत्री कारयित्री । उषसि हि जातायां मनुष्यप्रमुखाः प्राणिनः स्वस्वव्यापारायेतस्ततः शब्द कुर्वंति । एवंभूता दिवो दुहिता द्युलोकसकाशादुत्पन्नोषा गोतमेभिर्ऋषिभिरस्माभिः स्ववे । स्तूयते । हे उष अस्माभिः स्तुता त्वं वाजानन्नान्युप मासि । प्रयच्छ । कीदृशान्वाजान् । प्रजावतः प्रजाभिः पुत्रपौत्रादिभिर्युक्तान् नृवतो दासलक्षणैर्नृभिरुपेतान् अश्वबुध्यान् । अश्वा बुध्या विद्यमानत्वेन बोद्धव्या येषु वाजेषु तान् । यद्वा । अश्वबुध्नान् । वर्णव्यापत्त्या यकारः । अश्वमूलान् । अश्वैर्हि राजानो धनान्यन्नानि च लभंते । अतोऽन्नानां तन्मूलत्वम् । गोअग्रान् । गावोऽग्रे प्रमुखे येषां तादृशान् ॥ भास्वती । भा दीप्तौ । असुन् । ततो मतुप् । मादुपधाया इति मतुपो वत्वम् । उगितश्चेति ङीप् । नेत्री । ऋन्नेभ्यो ङीप् । उदात्तयणो हल्पूर्वादिति ङिप उदात्तत्वम् । स्तवे । ष्टुञ् स्तुतौ । कर्मणि लटि बहुलं छंदसीति बहुलग्रहणाद्यकोऽपि लुक् । लोपस्त आत्मनेपदेष्विति तलोपः । छंदस्युभयथेत्येकारस्यार्धधातुकत्वेन ङित्वाभावाद्गुणावादेशौ । नृवतः । व्यत्ययेन मतोर्वत्वम् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । मासि । मा माने । आदादिकः ॥ ७ ॥

1.92.8
उष॒स्तम᳚श्यां य॒शसं᳚ सु॒वीरं᳚ दा॒सप्र᳚वर्गं र॒यिमश्व᳚बुध्यम् ।
सु॒दंस᳚सा॒ श्रव᳚सा॒ या वि॒भासि॒ वाज᳚प्रसूता सुभगे बृ॒हन्त᳚म् ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । तम् । अ॒श्या॒म् । य॒शस᳚म् । सु॒॑वीर᳚म् । दा॒स॑प्र᳚वर्गम् । र॒यिम् । अश्व᳚॑बुध्यम् ।
सु॒॑दंस᳚सा । श्रव᳚सा । या । वि॒॑भासि᳚ । वाज᳚॑प्रसूता । सु॒॑भ॒गे॒ । बृ॒हन्त᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उष उषोदेवते तं रयिं धनमश्याम् । प्राप्नुयाम् । कीदृशम् । यशसं यशसा कीर्त्या युक्तम् । सर्वैः प्रशस्यमित्यर्थः । सुवीरं शोभनैर्वीरैः पुत्रादिभिर्युक्तं दासप्रवर्गम् । प्रकृष्टो वर्गः संघः प्रवर्गः । दासानां कर्मकराणां प्रवर्गो यस्मिन् तम् । अनेकैर्भृत्यैरुपेतमित्यर्थः । अश्वबुध्यम् । अश्वा बुध्या बोद्धव्या येन धनेन तादृशम् । हे सुभगे शोभनधन उषः सुदंससा शोभनेन कर्मणा युक्तेन श्रवसा श्रवणीयेन स्तोत्रेण प्रीता त्वं वाजप्रसूतास्मभ्यं दत्तान्ना सती बृहंतं प्रौढं या यं रयिं विभासि विशेषेण प्रकाशयसि । तमश्यामिति पूर्वेण संबंधः ॥ अश्याम् । अशू व्याप्तौ । व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति विकरणस्य लुक् । यशसम् । अर्शआदित्वान्मत्वर्थीयोऽच् । व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम् । दासप्रवर्गम् । दासयुत्युपक्षपयति शत्रूनिति दासो भृत्यः । दसु उपक्षये । अस्माण्ण्यंतात्पचाग्यच् । चित्त्वादंतोदात्तत्वम् । तदेव बहुव्रीहिस्वरेण शिष्यते । सुदंससा । सोर्मनसी अलोमोषसी इति बहुव्रीहावुत्तरपदाद्युदात्तत्वम् । या । सुपां सुलुगित्यमो डादेशः ॥ ८ ॥

1.92.9
विश्वा᳚नि दे॒वी भुव᳚नाभि॒चक्ष्या᳚ प्रती॒ची चक्षु᳚रुर्वि॒या वि भा᳚ति ।
विश्वं᳚ जी॒वं च॒रसे᳚ बो॒धय᳚न्ती॒ विश्व᳚स्य॒ वाच᳚मविदन्मना॒योः ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚नि । दे॒वी । भुव᳚ना । अ॒भि॒॑चक्ष्य᳚ । प्र॒ती॒ची । चक्षुः᳚ । उ॒र्वि॒या । वि । भा॒ति॒ ।
विश्व᳚म् । जी॒वम् । च॒रसे᳚ । बो॒धय᳚न्ती । विश्व᳚स्य । वाच᳚म् । अ॒वि॒द॒त् । म॒ना॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवी द्योतमानोषा विश्वानि सर्वाणि भुवना भुवनानि भूतजातान्यभिचक्ष्याभिप्रकाश्य प्रकाशवंति कृत्वानंतरं प्रतीची प्रत्युङ्मुखी सती चक्षुः प्रकाशकेन तेजसोर्वियोर्वी विस्तीर्णा सती वि भाति । प्रकाशते । अपि च विश्वं जीवं सर्वं प्राणिजातं चरसे चरणाय स्वस्वव्यापारेषु प्रवर्तनाय बोधयंती निद्रातः सकाशादुद्बोधयंत्युषा विश्वस्य सर्वस्य मनायोर्मनसा युक्तस्य वाग्व्यवहार समर्थस्य प्राणिजातस्य या वागस्तितां वाचमविदत् । अलभत । अत एवोषसः सूनृतावतीति संज्ञोपपन्ना भवति ॥ अभिचक्ष्य । चक्षिङ् वृक्तायां वाचि । अयं प्रकाशनार्थोऽपि । समासेऽनञ्पूर्वे (पा ७-१-३७) इति क्त्वाप्रत्ययस्य ल्यबादेशः । प्रतीची । प्रतिपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । अंचतश्चोपसंख्यानमिति ङीप् य अच इत्यकारलोपे चाविति दीर्घत्वम् । उदात्त निवृत्तिस्वरेण ङीप उदात्तत्वम् । उर्विया । उर्वीशब्दादुत्तरस्य सोरियाडियाजीकाराणां चोपसंख्यानम् । पा ७-१-३९-१ । इति डियाजादेशः । आदेशसामर्थ्यात्तस्य लोपो न भवति । मनायोः । मन आत्मन इच्छति मनस्यति । सुप आत्मनः क्यच् । क्याच्छंदसीत्युः । वर्णप्यापत्त्या सकार आकारः । यद्वा । कर्तुः क्यङ् सलोपश्चेति क्यङ् सकारलोपश्च । अकृत्सार्वधातुकयोरिति दीर्घः ॥ ९ ॥

1.92.10
पुनः᳚पुन॒र्जाय᳚माना पुरा॒णी स᳚मा॒नं वर्ण᳚म॒भि शुम्भ᳚माना ।
श्व॒घ्नीव᳚ कृ॒त्नुर्विज᳚ आमिना॒ना मर्त᳚स्य दे॒वी ज॒रय॒न्त्यायु᳚ः ॥
▶ पदपाठः (Word-by-word)
पुनः᳚॑पुनः । जाय᳚माना । पु॒रा॒णी । स॒मा॒नम् । वर्ण᳚म् । अ॒भि । शुम्भ᳚माना ।
श्व॒घ्नी॑इ᳚व । कृ॒त्नुः । विजः᳚ । आ॒॑मि॒ना॒ना । मर्त᳚स्य । दे॒वी । ज॒रय᳚न्ती । आयुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनःपुनर्जायमाना प्रतिदिवसं सूर्योदयात्पूर्वं प्रादुर्भवंती पुराणी चिरंतनी । नित्येत्यर्थः । यस्मात्समानं वर्णमेकमेव रूपमभि प्राप्य शुंभमाना शोभमाना । विभिन्नेष्वपि दिविसेष्वस्या ऐकरूप्येणावस्थासान्नित्यत्वमित्यर्थः । एवंगुणविशिष्टा देवी देवनशीलोषा मर्तस्य मरणधर्मणः सर्वस्य प्राणिजातस्यायुर्जीवनं जरयंत्यूनयंती वर्तते । बह्वीषूषःस्वतीतासु हि सर्वेषामायुर्हीयते । उषाश्च पुनःपुनर्जायमानेत्युक्तं अतः सैवायुर्जरयति । तत्र दृष्टांतः । कृत्नुः कर्तनशीला श्वघ्नीव व्याधस्त्रीव । सा यथा विजश्चलतः पक्षिण आमिनाना पक्षादिच्छेदनेन हिंसंती तेषामायुर्जरयति तद्वत् ॥ पुराणे । पुरेत्यस्मादव्ययात् सायंचिरंप्राह्ण इत्यादिना (पा ४-३-२३) भवार्थे ट्युप्रत्ययः । पुराणप्रोक्तेषु ब्राह्मणकल्पेषु (पा ४-३-१०५) इति निपातनात्तुडभावः । योरनादेशः । टित्वाङ्ङीप् । व्यत्ययेनांतोदात्तत्वम् । शुंभमाना । शुन्भ दीप्तौ । शपः पित्त्वादनुदात्तत्वम् । शानचोलसार्वधातुकस्वरेण धातुस्वरः शिष्यते । श्वघ्नी । शुना मृगान् हतवान् श्वहा । बहुलं छंदसि (पा ३-२-८८) इति वचनाद्ब्रह्मादिव्यतिरिक्तेऽप्युपपदे हंतेः क्विप् । ऋन्नेभ्यो ङीभिति ङीप् । अल्लोपोऽन इत्यकारलोपः । हो हंतेरिति घत्वम् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । कृत्नुः । कृती छेदने । औणादिकः क्नुप्तत्ययः । विजः । ओविजी भय चलनयोः । विजंति चलंतीति विजः पक्षिणः । आमिनाना । मीञ् हिंसायां क्रैयादिकः । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । शानचश्चित्त्वादंतोदात्तत्वं ॥ १० ॥

1.92.11 समानपद
व्यू॒र्ण्व॒ती दि॒वो अन्ता{4}᳚ अबो॒ध्यप॒ स्वसा᳚रं सनु॒तर्यु᳚योति ।
प्र॒मि॒न॒ती म᳚नु॒ष्या᳚ यु॒गानि॒ योषा᳚ जा॒रस्य॒ चक्ष᳚सा॒ वि भा᳚ति ॥
▶ पदपाठः (Word-by-word)
वि॒॑ऊ॒र्ण्व॒ती । दि॒वः । अन्ता᳚न् । अ॒बो॒धि॒ । अप᳚ । स्वसा᳚रम् । स॒नु॒तः । यु॒यो॒ति॒ ।
प्र॒॑मि॒न॒ती । म॒नु॒ष्या᳚ । यु॒गानि᳚ । योषा᳚ । जा॒रस्य᳚ । चक्ष᳚सा । वि । भा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवो नभसोऽंतान् प्रांतान्व्यूर्ण्वती विवृतांस्तमसा वियुक्तान् कुर्वत्युषा अबोधि । सर्वैः प्राणिभिरज्ञायि । ज्ञाताऽभूत् । तदनंतरं स्वसारमुषसः प्रादुर्भावे सति स्वयमेव सरंतीं निशां सनुतः । अंतर्हितनामैतत् । अंतर्हितप्रदेशेऽप युयोति । अपगमय्य पृथक्करोति । मनुष्या मनुष्याणां संबंधीनि युगानि कृतत्रेतादीनि प्रमिनती स्वगमनागमनाभ्यां प्रकर्षेण हिंसंती जारस्य रात्रेर्जरयितुः सूर्यस्य योषा जायोषाश्चक्षसात्मीयेन प्रकाशेन विभाति । विशेषेण प्रकाशते ॥ व्यूर्ण्वती । ऊर्णुञ् आच्छादने । विपूर्वादस्माल्लटः शतृ । उगितश्चेति ङीप् । शतुरनुम इति नद्या उदात्तत्वम् । सनुतः । एतदंतोदात्तं स्वरादिषु निपातितम् । अतोऽव्ययसंज्ञायामव्ययादाप्सुप इति सप्तम्या लुक् । युयोति । यु मिश्रणामिश्रणयोः । बहुलं छंदसीति शपः श्लुः । मनुष्या । सुपां सुलुगिति षष्ठ्या डादेशः । युगानि । युजेः करणे कर्मणि वा घञ् । चजोः कु घिण्यतोरिति कुत्वम् । उंछादिषु कालविशेषे रथाद्युपकरणे च युगशब्दपाठात् लघूपधगुणाभावः । का ६-१-१६० । उंछादीना चेत्यंतोदात्तत्वम् । जारस्य । दारजारौ कर्तरि णिलुक्च । पा ३-३-२०-४ । घञंतो निपात्यते ॥ ११ ॥

1.92.12
प॒शून्न चि॒त्रा सु॒भगा᳚ प्रथा॒ना सिन्धु॒र्न क्षोद᳚ उर्वि॒या व्य᳚श्वैत् ।
अमि᳚नती॒ दैव्या᳚नि व्र॒तानि॒ सूर्य᳚स्य चेति र॒श्मिभि᳚र्दृशा॒ना ॥
▶ पदपाठः (Word-by-word)
प॒शून् । न । चि॒त्रा । सु॒॑भगा᳚ । प्र॒था॒ना । सिन्धुः᳚ । न । क्षोदः᳚ । उ॒र्वि॒या । वि । अ॒श्वै॒त् ।
अमि᳚नती । दैव्या᳚नि । व्र॒तानि᳚ । सूर्य᳚स्य । चे॒ति॒ । र॒श्मि॑भिः᳚ । दृ॒शा॒ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुभगा शोभनधना चित्रा चायनीया पूजनीयोषाः पशून्न यथा पशून् गोपालकोऽरण्ये विस्तारयति तथा प्रथाना तेजांसि विस्तारयंत्युर्वियोर्वीमहती एवंभूता सा व्यश्वैत् । सर्वं जगद्व्याप्नोत् । तत्र दृष्टांतः । सिंधुर्न क्षोदः । यथा स्यंदनशीलमुदकं निम्नदेशेऽचिरादेव व्याप्नोति तद्वत् । सैवोषाः सूर्यस्य रश्मिभिः किरणैः सह दृशाना दृश्यमाना सती चेति । प्रज्ञातासीत् । किं कुर्वती । दैव्यानि देवसंबंधीनि व्रतानि दर्शपूर्णमासादीनि कर्माण्यमिनती अहिंसती । अनुष्ठाने यजमानान्प्रवर्तयंतीत्यर्थः । उषसः प्रादुर्भावनंतरं ह्यग्निहोत्रादीनि सर्वाणि कर्माण्यनुष्ठीयंते न रात्रौ । न सायमस्ति देवता अजुष्टम् । ऋग्वे ५-७७-२ । इति श्रुतेः ॥ प्रथाना । प्रथ प्रख्याने । अस्मादंतर्भावितण्यर्थात्ताच्छीलिकश्चानत् । बहुलं छंदसीति शपो लुक् । सिंधुः । स्यंदू प्रस्रवणे । स्यंदेः संप्रसारणं धश्च (उ १-१२) इत्युप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । अश्वैत् । टुओश्चि गतिवृद्ध्योः । लुङ्यङ् चङोर्विकल्पितत्वात् । पा ३-१-४९-५८ । च्लेः सिच् । आगमानुशासनस्यानित्यत्वादिडभावः । सिचि वृद्धिः (पा ७-२-१) अनिडादित्वात् ह्म्यंतक्षणेति वृद्धिप्रतिषेधाभावः । बहुलं छंदसि (पा ७-३-९७) इतीडागमा भावः । स्कोः । संयोगाद्योरिति सलोपः । चेति । चिती संज्ञाने । कर्मणि लुङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । दृशाना । दृशेः कर्मणि लटः शानच् । बहुलं छंदसीति विकरणस्य लुक् ॥ १२ ॥

1.92.13
उष॒स्तच्चि॒त्रमा भ᳚रा॒स्मभ्यं᳚ वाजिनीवति ।
येन᳚ तो॒कं च॒ तन᳚यं च॒ धाम᳚हे ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । तत् । चि॒त्रम् । आ । भ॒र॒ । अ॒स्मभ्य᳚म् । वा॒जि॒नी॒॑व॒ति॒ ।
येन᳚ । तो॒कम् । च॒ । तन᳚यम् । च॒ । धाम᳚हे ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातरनुवाकस्योषस्ये क्रतावौष्णिहे छंदस्युषस्तच्चित्रमिति तृचो विनियुक्तः । आश्विनशस्त्रे च । अथोषस्य इति खंडे सूत्रितम् । उषस्तच्चित्रमा भरेति । तिस्र औष्णिहम् (आ ४-१४) इति ॥

हे वाजिनीवति । वाजो हविर्लक्षणमन्नम् । तद्युक्ता क्रिया वाजिनी । तया क्रियया युक्त उष उषोदेवतेऽस्मभ्यं चित्रं चायनीयं तद्धनमा भर । आहर । प्रयच्छ । येन धनेन तोकं पुत्रं तनयं तत्पुत्रं च धामहे दध्महे धारयामः । अत्र निरुक्तम् । उषस्तच्चित्रं चायनीयं धनमाहरास्मभ्यमन्नवति येन पुत्रांश्च पौत्रांश्च दधीमहि । नि १२-६ । इति ॥ धामहे । दधातेर्लट बहुलं छंदसीति शपो लुक् । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । लोट्याडुत्तमस्य पिच्चेत्याडागमः प्रत्ययस्य पिद्वद्भावश्च । अतः प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । अस्मिन्पक्ष एत ऐ (पा ३-४-९३) इत्यैत्वाभावो व्यत्ययेन द्रष्टव्यः । यद्वृत्तयोगादनिघातः ॥ १३ ॥

1.92.14
उषो᳚ अ॒द्येह गो᳚म॒त्यश्वा᳚वति विभावरि ।
रे॒वद॒स्मे व्यु᳚च्छ सूनृतावति ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । अ॒द्य । इ॒ह । गो॒॑म॒ति॒ । अश्व᳚॑वति । वि॒भा॒॑व॒रि॒ ।
रे॒वत् । अ॒स्मे इति᳚ । वि । उ॒च्छ॒ । सू॒नृ॒ता॒॑व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गोमत्यस्मभ्यं दातव्यैर्गोभिर्युक्ते तथाश्वावत्यश्वैर्युक्ते विभावरि विशिष्टप्रकाशोपेते सूनृतावति । प्रियसत्यात्मिका वाक् सूनृता । तादृश्या वाचा युक्ते एवंभूते हे उष उषोदेवतेऽद्येदानीं प्रभातसमय इहास्मिन्देशेऽस्मे अस्माकं रेवत् धनयुक्तं कर्म यथा भवति तथा व्युच्छ । नैशं तमो निवारय ॥ अश्वावति । मंत्रे सोमाश्चेंद्रियेति मतौ दीर्घत्वम् । पादादित्वादामंत्रितस्याष्टमिकनिघाताभावः । रेवत् । रयेर्मतौ बहुलम् । पा ६-१-३७-६ । इति संप्रसारणम् । छंद सीर इति मतुपो वत्वम् । रेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम् । का ६-१-१७६-१ । इति मतुप उदात्तत्वम् । उच्छ । उच्छी विवासे । विवासो वर्जनं ॥ १४ ॥

1.92.15
यु॒क्ष्वा हि वा᳚जिनीव॒त्यश्वा{4}᳚ अ॒द्यारु॒णा{4} उ᳚षः ।
अथा᳚ नो॒ विश्वा॒ सौभ᳚गा॒न्या व᳚ह ॥
▶ पदपाठः (Word-by-word)
यु॒क्ष्व । हि । वा॒जि॒नी॒॑व॒ति॒ । अश्वा᳚न् । अ॒द्य । अ॒रु॒णान् । उ॒षः॒ ।
अथ᳚ । नः॒ । विश्वा᳚ । सौभ᳚गानि । आ । व॒ह॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजिनीवति हविर्लक्षणान्न वत्युष उषोदेवते अरुणानरुणवर्णानश्वानश्वस्थानीयान् गोविशेषानद्यास्मिन्काले युक्ष्वा हि । योजयैव । हिरवधारणे । अथानंतरं रथमारुह्य विश्वा सौभगानि सर्वाणि सौभाग्यानि नोऽस्मभ्यमा वह । आनय ॥ अश्वान् । दीर्घादट समानपाद इति संहितायां नकारस्य रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः । सौभगानि । सुभगान्मंत्र इत्युद्गात्रादिषु पाठाद्भावकर्मणोरर्थयोः प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञित्यञ्प्रत्ययः । हृद्भगसिंध्वंते पूर्वपदस्य चेत्युभयपदवृद्धौ प्राप्तायां सर्वविधीनां छंदसि विकल्पितत्वादत्रोत्तरपदर्वृद्धिर्न भवतीत्युक्तम् । का ७-३-१९ ॥ १५ ॥

1.92.16
अश्वि᳚ना व॒र्तिर॒स्मदा गोम᳚द्दस्रा॒ हिर᳚ण्यवत् ।
अ॒र्वाग्रथं॒ सम᳚नसा॒ नि य᳚च्छतम् ॥
▶ पदपाठः (Word-by-word)
अश्वि᳚ना । व॒र्तिः । अ॒स्मत् । आ । गो॑म᳚त् । द॒स्रा॒ । हिर᳚ण्य॑वत् ।
अ॒र्वाक् । रथ᳚म् । स॑म᳚नसा । नि । य॒च्छ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातरनुवाकस्याश्विने क्रतावौष्णिहे छंदस्यश्विना वर्तिरित्ययं तृचः । आश्विनशस्प्रे च । तथा च सूत्रितम् । अश्विना वर्तिरस्मदाश्विनावेह गच्छतमिति तृचौ (आ ४-१५) इति ॥

उषःसाहचर्याद्बुद्थिस्थावश्विनाविदमादिकेन तृचेन स्तूयेते । हे अश्विनाश्ववंतौ व्यापनशीलौ वा देवौ दस्रा शत्रूणामुपक्षपयितारौ अस्मदस्माकं वर्तिर्वर्तनहेतुभूतं गृहमा समंताद्गोमद्बहुभिर्गोभिर्युक्तम् । हिरण्यवद्धितरमणीयधनयुक्तं च यथा भवति तथा समनसा समानमनस्कौ संतौ युवां युष्मदीयं रथमर्वागर्वाचीनमस्मदीयगृहमभिमुखं नि यच्छतम् । आवर्तयतं ॥ अश्विना । सुपां सुलुगित्याकारः । वर्तिः । वर्ततेऽस्मिन्निति वर्तिर्गृहम् । औणादिक इसिप्रत्ययः । आस्मत् । सुपां सुलुगिति षष्ठ्या लुक् । समनसा । समानं मनो ययोस्तौ । समानस्य छंदसीति सभावः ॥ १६ ॥

1.92.17
यावि॒त्था श्लोक॒मा दि॒वो ज्योति॒र्जना᳚य च॒क्रथु᳚ः ।
आ न॒ ऊर्जं᳚ वहतमश्विना यु॒वम् ॥
▶ पदपाठः (Word-by-word)
यौ । इ॒त्था । श्लोक᳚म् । आ । दि॒वः । ज्योतिः᳚ । जना᳚य । च॒क्रथुः᳚ ।
आ । नः॒ । ऊर्ज᳚म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ यौ युवां दिवो द्युलोकात् श्लोकमुपश्लोकनीयं प्रशंसनीयं ज्योतिस्तेज इत्थेत्थमस्माभिरनुभूयमानेन प्रकारेण चक्रथुः कृतवंतौ । केषांचिन्मतेन सूर्याचंद्रमसावश्विनावुच्येते । तदुक्तं यास्केन । तत्कावश्विनौ द्यावापृथिव्यावित्येकेऽहोरात्रावित्येके सूर्याचंद्रमसावित्येके । नि १२-१ । इति । तथा च प्रकाशकत्वं तयोरुपपन्नम् । तौ युवं युवां नोऽस्मभ्यमूर्जं बलप्रदमन्नमा वहतम् । आनयतम् । प्रयच्छतं ॥ श्लोकम् । श्लोकृ संघाते । अयं स्तुत्यर्थोऽपि । कर्मणि घञ् । इित्त्वादाद्युदात्तत्वं ॥ १७ ॥

1.92.18
एह दे॒वा म᳚यो॒भुवा᳚ द॒स्रा हिर᳚ण्यवर्तनी ।
उ॒ष॒र्बुधो᳚ वहन्तु॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
आ । इ॒ह । दे॒वा । म॒यः॒॑भुवा᳚ । द॒स्रा । हिर᳚ण्यवर्तनी॒ इति॒ हिर᳚ण्य॑वर्तनी ।
उ॒षः॒॑बुधः᳚ । व॒ह॒न्तु॒ । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

उषर्बुध उषसि प्रबुद्धा अश्वा इहास्मिन्यागे सोमपीतये सोमपानाय दस्रा शत्रूणामुपक्षपयितारावश्विनावा वहंतु । आनयंतु । कीदृशौ । देवा देवनशीलौ दानादिगुणयुक्तौ वा मयोभुवा मयस आरोग्यप्रदस्य सुखस्य भावयितारौ । अश्विनौ वै देवानां भिषजौ । ऐ । ब्रा । १-१८ । इति श्रुतेः । हिरण्यवर्तनी । वर्ततेऽनेनेति व्युत्पत्त्या वर्तनिशब्देन रथ उच्यते । सुवर्णमयो वर्तनिर्ययोस्तौ यय देवेत्यादिषु त्रिषु सुपां सुलुगित्याकारः । सोमपीतये । पा पाने । भावे क्तिनि घुमास्थेतीत्वम् । सोमस्य पीतिः सोमपीतिः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वं ॥ १८ ॥