श्रवणम्

1.92.15
यु॒क्ष्वा हि वा᳚जिनीव॒त्यश्वा{4}᳚ अ॒द्यारु॒णा{4} उ᳚षः ।
अथा᳚ नो॒ विश्वा॒ सौभ᳚गा॒न्या व᳚ह ॥
▶ पदपाठः (Word-by-word)
यु॒क्ष्व । हि । वा॒जि॒नी॒॑व॒ति॒ । अश्वा᳚न् । अ॒द्य । अ॒रु॒णान् । उ॒षः॒ ।
अथ᳚ । नः॒ । विश्वा᳚ । सौभ᳚गानि । आ । व॒ह॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजिनीवति हविर्लक्षणान्न वत्युष उषोदेवते अरुणानरुणवर्णानश्वानश्वस्थानीयान् गोविशेषानद्यास्मिन्काले युक्ष्वा हि । योजयैव । हिरवधारणे । अथानंतरं रथमारुह्य विश्वा सौभगानि सर्वाणि सौभाग्यानि नोऽस्मभ्यमा वह । आनय ॥ अश्वान् । दीर्घादट समानपाद इति संहितायां नकारस्य रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः । सौभगानि । सुभगान्मंत्र इत्युद्गात्रादिषु पाठाद्भावकर्मणोरर्थयोः प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञित्यञ्प्रत्ययः । हृद्भगसिंध्वंते पूर्वपदस्य चेत्युभयपदवृद्धौ प्राप्तायां सर्वविधीनां छंदसि विकल्पितत्वादत्रोत्तरपदर्वृद्धिर्न भवतीत्युक्तम् । का ७-३-१९ ॥ १५ ॥