श्रवणम्

1.92.3 समानपद
अर्च᳚न्ति॒ नारी᳚र॒पसो॒ न वि॒ष्टिभि᳚ः समा॒नेन॒ योज᳚ने॒ना प᳚रा॒वतः᳚ ।
इषं॒ वह᳚न्तीः सु॒कृते᳚ सु॒दान᳚वे॒ विश्वेदह॒ यज᳚मानाय सुन्व॒ते ॥
▶ पदपाठः (Word-by-word)
अर्च᳚न्ति । नारीः᳚ । अ॒पसः᳚ । न । वि॒ष्टि॑भिः᳚ । स॒मा॒नेन᳚ । योज᳚नेन । आ । प॒रा॒॑वतः᳚ ।
इष᳚म् । वह᳚न्तीः । सु॒॑कृते᳚ । सु॒॑दान᳚वे । विश्वा᳚ । इत् । अह᳚ । यज᳚मानाय । सु॒न्व॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

नारीर्नेत्र्य उषसो विष्टिभिर्निवेशकैः स्वकीयैस्तेजोभिः समानेन योजनेनैकेनैव योजनेनोद्योगेन परावत आ दूरदेशादा पश्चिमदिग्भागादर्चंति । नभःप्रदेशं पूजयंति । कृत्स्नं जगद्युगपदेव व्याप्नुवंतीत्यर्थः । तत्र दृष्टांतः । अपसो न । युद्धकर्मणोपेताः पुरुषा यथा स्वकीयैरायुधैर्धाटीमुखेन सर्वं देशं व्याप्नुवंति तद्वत् । किं कुर्वत्यः । सुकृते शोभनस्य कर्मणः कर्ते सुन्वते सोमाभिषवं कुर्वते सुदानवे कल्याणीर्दक्षिणा ऋत्विग्भ्यो ददते यजमानाय विश्वेदह सर्वमेवेषमन्नं वहंतीरावहंत्यः । प्रयच्छंत्य इत्यर्थः ॥ नारीः नृ नये । ॠदोरप् । नृनरयोर्वृद्धिश्च (पा ४-१-७३) इति शार्ङ्गरवादिषु पाठात् ङीन् । जसि वा छंदसीति पूर्वसवर्णदीर्घत्वम् । अपसः । अपश्शब्दादर्शआदिभ्योऽजित्यच् । सुपां सुलगिति जसः सुः । व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम् । विष्टिभिः । विश प्रवेशने । विशंति प्रविशंतीति विष्टयः किरणाः । क्तिच् क्तौ च संज्ञायामिति क्तिच् । विश्वा । सुपां सुलुगित्यमो डादेशः ॥ ३ ॥