श्रवणम्

1.92.6 समानपद
अता᳚रिष्म॒ तम᳚सस्पा॒रम॒स्योषा उ॒च्छन्ती᳚ व॒युना᳚ कृणोति ।
श्रि॒ये छन्दो॒ न स्म᳚यते विभा॒ती सु॒प्रती᳚का सौमन॒साया᳚जीगः ॥
▶ पदपाठः (Word-by-word)
अता᳚रिष्म । तम᳚सः । पा॒रम् । अ॒स्य । उ॒षाः । उ॒च्छन्ती᳚ । व॒युना᳚ । कृ॒णो॒ति॒ ।
श्रि॒ये । छन्दः᳚ । न । स्म॒य॒ते॒ । वि॒॑भा॒ती । सु॒॑प्रती᳚का । सौ॒म॒न॒साय᳚ । अ॒जी॒ग॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य नैशस्य तमसोऽंधकारस्य पारं समाप्तिप्रदेशमतारिष्म । उत्तीर्णा अभूम । अनंतरमुच्छंती नैशं तमो वर्जयंत्युषा वयुना वयुनानि सर्वेषां प्राणिनां ज्ञानानि कृणोति । निर्मिमीते । श्रिये संपदर्थं छंदो न स्मयते । यथोपच्छंदयिता वशीकरणे समर्थः पुरुष आढ्यसमीपं प्राप्य तत्प्रीत्यर्थं स्मयते हसति एवं विभाती विशिष्टप्रकाशं कुर्वत्युषाः स्वकीयया निर्मलदीप्त्या हसंतीव दृश्यते । एवं सुप्रतीका विशिष्टप्रकाशरूपत्वेन शोभनांगी सती सौमनसाय सर्वेषां सौमनस्यायाजीगः । अंधकारं भक्षितवती ॥ अतारिष्म । तृप्लवनतरणयोः । लुङि सिचि वृद्धिः । तमसः । षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य संहितायां सत्वम् । स्मयते । स्मिङ् ईषद्धसने । भौवादिकः । अजीगः । गृ निगरणे । लङि बहुलं छंदसीति शपः श्लुः । बहुलं छंदसीत्यभ्यासस्येत्वम् । तुजादित्वाद्दीर्घः ॥ ६ ॥‍