श्रवणम्

1.92.8
उष॒स्तम᳚श्यां य॒शसं᳚ सु॒वीरं᳚ दा॒सप्र᳚वर्गं र॒यिमश्व᳚बुध्यम् ।
सु॒दंस᳚सा॒ श्रव᳚सा॒ या वि॒भासि॒ वाज᳚प्रसूता सुभगे बृ॒हन्त᳚म् ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । तम् । अ॒श्या॒म् । य॒शस᳚म् । सु॒॑वीर᳚म् । दा॒स॑प्र᳚वर्गम् । र॒यिम् । अश्व᳚॑बुध्यम् ।
सु॒॑दंस᳚सा । श्रव᳚सा । या । वि॒॑भासि᳚ । वाज᳚॑प्रसूता । सु॒॑भ॒गे॒ । बृ॒हन्त᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उष उषोदेवते तं रयिं धनमश्याम् । प्राप्नुयाम् । कीदृशम् । यशसं यशसा कीर्त्या युक्तम् । सर्वैः प्रशस्यमित्यर्थः । सुवीरं शोभनैर्वीरैः पुत्रादिभिर्युक्तं दासप्रवर्गम् । प्रकृष्टो वर्गः संघः प्रवर्गः । दासानां कर्मकराणां प्रवर्गो यस्मिन् तम् । अनेकैर्भृत्यैरुपेतमित्यर्थः । अश्वबुध्यम् । अश्वा बुध्या बोद्धव्या येन धनेन तादृशम् । हे सुभगे शोभनधन उषः सुदंससा शोभनेन कर्मणा युक्तेन श्रवसा श्रवणीयेन स्तोत्रेण प्रीता त्वं वाजप्रसूतास्मभ्यं दत्तान्ना सती बृहंतं प्रौढं या यं रयिं विभासि विशेषेण प्रकाशयसि । तमश्यामिति पूर्वेण संबंधः ॥ अश्याम् । अशू व्याप्तौ । व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति विकरणस्य लुक् । यशसम् । अर्शआदित्वान्मत्वर्थीयोऽच् । व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम् । दासप्रवर्गम् । दासयुत्युपक्षपयति शत्रूनिति दासो भृत्यः । दसु उपक्षये । अस्माण्ण्यंतात्पचाग्यच् । चित्त्वादंतोदात्तत्वम् । तदेव बहुव्रीहिस्वरेण शिष्यते । सुदंससा । सोर्मनसी अलोमोषसी इति बहुव्रीहावुत्तरपदाद्युदात्तत्वम् । या । सुपां सुलुगित्यमो डादेशः ॥ ८ ॥