प्रथमं मण्डलम् - सूक्तम् 14

12 ऋचः

ऋषिः: मेधातिथिः काण्वः देवता: विश्वे देवाः (विश्वैर्देवैः सहितोग्निः) छन्दः: गायत्री

सूक्तम् 1.14 - सम्पूर्णम्

1 / 12
ऋक्: 1.14.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
1.14.1
ऐभि᳚रग्ने॒ दुवो॒ गिरो॒ विश्वे᳚भि॒ः सोम᳚पीतये ।
दे॒वेभि᳚र्याहि॒ यक्षि᳚ च ॥
▶ पदपाठः (Word-by-word)
आ । ए॒भिः॒ । अ॒ग्ने॒ । दुवः᳚ । गिरः᳚ । विश्वे᳚भिः । सोम᳚॑पीतये ।
दे॒वेभिः᳚ । या॒हि॒ । यक्षि᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने एभिरस्मिन्यज्ञे संभावितैर्विश्वेभिर्देवेभिः सर्वैर्देवैः सह सोम पीतये सोमपानोपेतयागार्थं दुवोऽस्मदीयां परिचर्यां गिरोऽस्मदीयाः स्तुतीश्च प्रत्या याहि । आगच्छ । यक्षि च आगत्य यज च ॥ एभिः । पूर्वनिर्दिष्टानां देवानामिदमा परामर्शादिदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ (पा २-४-३२) इत्यशनुदात्तः । शित्त्वात्सर्वादेशः । नेदमदसोरकोः (पा ७-१-११) इति भिस ऐसादेशाभावः । विभक्तिरनुदात्तैव । न चोडिदमित्यादिना विभक्तेरुदात्तत्वं तत्रांतोदात्तादित्यधिकारात् । दुवः । नब्विषयस्यानिसंतस्येत्याद्युदात्तत्वम् । विश्वेभिः । विश्वशब्दो विशेः क्वनंतो नित्त्वादाद्युदात्तः । बहुलं छंदसीति भिस ऐस् न भवति । बहुवचने झल्येत् (पा ७-३-१०३) इत्येत्वम् । सोमपीतये । सोमशब्दोऽर्तिस्तुस्वित्यादिना मनंतो नित्त्वादाद्युदात्तः । सोमस्य पीतिर्यस्मिन्यागे स सोमपीतिः । तस्मै । तादर्थ्ये चतुर्थी । देवेभिः । बहुलं छंदसीति भिस ऐसादेशाभावः । बहुवचने झल्येदित्येत्वम् । यक्षि । यजेर्लोटः सिप् । बहुलं छंदसीति शपो लुक् । व्रश्चादिना षत्वम् । षढोः कः सीति कत्वम् । सेर्हिरादेशश्छांदसत्वान्न भवति । सिपः पित्त्वेनानुदात्तत्वाद्धातुस्वर एव ॥ १ ॥

1.14.2
आ त्वा॒ कण्वा᳚ अहूषत गृ॒णन्ति᳚ विप्र ते॒ धियः᳚ ।
दे॒वेभि᳚रग्न॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । कण्वाः᳚ । अ॒हू॒ष॒त॒ । गृ॒णन्ति᳚ । वि॒प्र॒ । ते॒ । धियः᳚ ।
दे॒वेभिः᳚ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विप्र मेधाविन्नग्ने कण्वा मेधाविन ऋत्विजस्त्वा यज्ञनिष्पादकं त्वामाहूषत । आह्वयंति । तथा ते धियस्त्वदीयानि कर्माणि गृणंति । कथयंति । ततो हे अग्ने देवेभिर्देवैः सहा गहि । आगच्छ । विप्र इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु कण्व ऋभुरिति पठितं ॥ त्वा । त्वामौ द्वितीयाया इति त्वादेशः । सर्वानुदात्तः । कण्वाः । कण शब्दार्थः । अशिप्रुषिलटकणिखटीत्यादिना क्वन् । नित्त्वादाद्यु दात्तः । अहूषत । ह्वेञ् स्पर्धायां शब्दे च । छंदसि लुङ् लङ् लिट इति वर्तमाने लुङ् । ञत्त्वादात्मनेपदम् । झ आत्मनेपदेष्वनत इत्यदादेशः । च्लेः सिच् । एकाच इतीट् प्रतिषेधः (पा ७-२-१०) बहुलं छंदसीति संप्रसारणं परपूर्वत्वम् । हलः (पा ६-४-२) इति दीर्घत्वम् । आदेशप्रत्यययोरिति षत्वम् । छांदसत्वादूकार स्य न गुणः । अडागमः । गृणंति । गृ शब्दे । लट् । झि । झोंऽतः । क्रादिभ्यः श्ना । प्वादीनां ह्रस्व इति धातोर्ह्रस्वत्वम् । श्नाभ्यस्तयोरातः (पा ६-४-११२) इत्याकारलोपः । ऋवर्णाच्छेति वक्तव्यम् । का ८-४-१-१ । इति णत्वम् । तिङः स्वर एव शिष्यते । विप्र । आमंत्रितनिघातः । ते । अनुदात्तमित्यनुवृत्तौ तेमयावेकवचनस्य (पा ८-१-२२) इति षष्ठ्यास्ते इत्यादेशः । देवेभिः । छांदस ऐसभावः । गहि । गम्लृ सृप्लृगतौ । लोटः सिप् । सेर्ह्यपिच्च । कर्तरि शप् । तस्य बहुलं छंदसीति लुक् । अनुदात्तोपदेशेत्यादिना मकारलोपः । तस्यासिद्धवदत्रा भादित्य सिद्धत्वादतो हेरिति हेर्लुग्न भवति ॥ २ ॥

1.14.3
इ॒न्द्र॒वा॒यू बृह॒स्पतिं᳚ मि॒त्राग्निं पू॒षणं॒ भग᳚म् ।
आ॒दि॒त्यान्मारु᳚तं ग॒णम् ॥
▶ पदपाठः (Word-by-word)
इ॒न्द्र॒वा॒यू इति᳚ । बृह॒स्पति᳚म् । मि॒त्रा । अ॒ग्निम् । पू॒षण᳚म् । भग᳚म् ।
आ॒दि॒त्यान् । मारु᳚तम् । ग॒णम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रादिदेवान्मारुतं मरुतां वायूनां संबंधिनं गणं च हे अग्ने यक्षीति पदद्वयमनुवर्तते ॥ इंद्रश्च वायुश्चेंद्रवायू । देवताद्वंद्वे च (पा ६-३-२६) इति प्राप्तस्यानङ उभयत्र वायोः प्रतिषेधो वक्तव्यः । पा ६-३-२६ १ इति प्रतिषेधः । देवताद्वंदे च (पा ६-२-१४१) इति प्राप्तस्योभयपदप्रकृतिस्वरस्य नोत्तरपदेऽनुदात्तादौ (पा ६-२-१४२) इति निषेधः । समासांतोदात्तत्वमेव । बृहस्पतिम् । तद्बृहतोः करपत्योश्चोरदेवतयोरभिधेययोः सुट् तलोपो वक्तव्यः (म ६-१-१५७) इति तलोपः सुडागमश्च । बृहच्छब्दमाद्युदात्तं केचिद्वर्ण यंतीति वामनः । पा रक्षणे । पातीति पतिः । पातेर्डतिः (उ ४-५७) प्रत्ययस्वरेणाद्युदात्तः । समास उभे वनस्पत्यादिषु युगपत् (पा ६-२-१४०) इत्युभयपदप्रकृतिस्वरत्वम् । मित्रा । द्वितीयायाः सुपां सुलगित्यादिना विभक्तेराजादेशः । आदित्यान् । अदित्येरपत्यान्यादित्याः । दित्यदित्यादित्यपत्युत्तरपदाण्यः (पा ४-१-८५) प्रत्ययस्वरः । मारुतम् । मरुतां विकारः । अनुदात्तादेश्च (पा ४-३-१४०) इत्यञ् । ञित्त्वा दाद्युदात्तः ॥ ३ ॥

1.14.4
प्र वो᳚ भ्रियन्त॒ इन्द᳚वो मत्स॒रा मा᳚दयि॒ष्णवः᳚ ।
द्र॒प्सा मध्व᳚श्चमू॒षदः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । भ्रि॒य॒न्ते॒ । इन्द᳚वः । म॒त्स॒राः । मा॒द॒यि॒ष्णवः᳚ ।
द्र॒प्साः । मध्वः᳚ । च॒मू॒॑सदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्रादिदेवा वो युष्मदर्थमिंदवः सोमाः प्रभ्रियंते । प्रकर्षेण संपाद्यंते । कीदृशाः । मत्सरास्तृप्तिकराः । मत्सरः सोमो मदंते स्तृप्तिकर्मणः (नि २-५) इति यास्कः । मादयिष्णवो हर्षहेतवो द्रप्सा बिंदुरूपा मध्वो मधुराः चमूषदश्चमू८षु चमसादिपात्रेष्ववस्थिताः ॥ प्र । व्यवहिताश्च (पा १-४-८२) इति व्यवहितप्रयोगः । भ्रियंते । भृञो यकि रिङ् शयग्लिङ् क्षु (पा ७-४-२८) इति रिङादेशः । हृञो वा । हृग्रहोर्भश्छंदसीति हकारस्य भकारः । इंदवः । उंदी क्लेदने । उंदंति पात्राणीति । निदित्यनुवृत्तावुंदेरिच्चादेः (उ १-१३) इत्युप्रत्यय आदेरिकारश्च । नित्वादाद्युदात्तः । मत्सराः । मद तृप्तियोगे । चिदित्यनुवृत्तौ कृधूमदिभ्यः कित् (उ ३-७३) इति सरप्रत्ययः तितुत्रतथसिसुसरकसेसु चेतीट् प्रतिषेधः । चित्त्वादंतोदात्तः । मादयिष्णवः । मदीहर्षग्ल पनयोः । मदेर्ण्यंताणेश्छंदसि (पा ३-२-१३७) इतीष्णुच् । णेरनिटीनि णिलोपे प्राप्तेऽयामंताल्वाय्येत्न्विष्णुषु (पा ६-४-५५) इत्ययादेशः । चित्त्वादंतोदात्तः । मध्वः । मधु शब्द आद्युदात्त उक्तः । मधुशब्दस्य व्यत्ययेन पुल्पिंगत्वम् । संज्ञापूर्वको विधिरनि त्य इति जसि च (पा ७-३-१०९) इति गुणो न भवति । चमूषदः । चमु छमु जमु झसु अदने । चम्यते भक्ष्यते येषु चमसेषु ते चम्वः । कृषिचमीत्यादिना (उ १-८२) ऊः । तत्र सीदंतीति चमूषदः । सत्सूद्विषेत्यादिना (पा ३-२-६१) क्विप् । सुषामादेराकृतिगणत्वात् षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ४ ॥

1.14.5
ईळ᳚ते॒ त्वाम᳚व॒स्यव॒ः कण्वा᳚सो वृ॒क्तब᳚र्हिषः ।
ह॒विष्म᳚न्तो अरं॒कृतः᳚ ॥
▶ पदपाठः (Word-by-word)
ईळ᳚ते । त्वाम् । अ॒व॒स्यवः᳚ । कण्वा᳚सः । वृ॒क्त॑ब᳚र्हिषः ।
ह॒विष्म᳚न्तः । अ॒र॒म्॑कृतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वामीळते । ऋत्विजः स्तुवंति । कीदृशाः । अवस्यवः । अवनं रक्षणम् । तद्देतून्देवानिच्छंतः । कण्वासो मेधाविनो वृक्तबर्हिष आस्तरणार्थं छिन्नदर्भा हविष्मंतो हविर्युक्ता अरंकृतोऽलंकर्तारः ॥ ईळते । ईड स्तुतौ । अनुदात्तेत्त्वाल्लटो झः । अदिप्रभृतिभ्यः शप इति शपो लुक् । झस्यादेशः । टेरेत्वम् । तास्यनुदात्तेदित्यादिना लसार्वधातुकस्यानुदात्तत्वाद्धातुस्वर एव शिष्यते । अवस्यवः । अवंतीत्यवा देवाः । तानतिशयेनेच्छंति । सुप आत्मनः क्यच् । क्यचि च (पा ७-४-३३) इतीत्वं न भवति । न छंदस्यपुत्रस्य (पा ७-४-३५) इति निषेधात् । सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः । म ७-१-५१-२ । इति सुक् । क्याच्छंदसीत्युप्रत्ययः । अतो लोपः । प्रत्ययस्वरेणांतोदात्तत्वम् । कण्वासः । कण शब्दार्थः । कणंति ध्वनंति स्तोत्रादिपाठेनेति कण्वा ऋत्विजः । अशिप्रुषीत्यादिना क्वन् । नित्त्वादाद्युदात्तः । आज्जसेरसुक् (पा ७-१-५०) इत्यसुक् । वृक्तबर्हिषः । वृक्तमुक्तम् । बहुव्रीहौ पूर्वपद प्रकृतिस्वरत्वम् । हविष्मंतः । हविरेषामस्तीति हविष्मंतः । तसौ मत्वर्थः इति भृत्वेनापदत्वान्न रुत्वम् । अरंकृतः । अलंकुर्वंतीत्यरंकृतः । क्विप्चेति क्विप् । ह्रस्वस्य तुक् । कपिलकादीनाम् । संज्ञाच्छंदसोर्वा लो रत्वमापद्यते । पा ८-२-१८-३ । इति लकारस्य रेफादेशः ॥ ५ ॥

1.14.6
घृ॒तपृ᳚ष्ठा मनो॒युजो॒ ये त्वा॒ वह᳚न्ति॒ वह्न᳚यः ।
आ दे॒वान्त्सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
घृ॒त॑पृ᳚ष्ठाः । म॒नः॒॑युजः᳚ । ये । त्वा॒ । वह᳚न्ति । वह्न᳚यः ।
आ । दे॒वान् । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वा त्वां येऽश्वा रथेन वहंति । कीदृशाः । घृतपृष्ठाः । पुष्वांगत्वेन दीप्तपृष्ठा मनोयुजो मनःसंकल्पमात्रेण रथे युज्यमाना वह्नयो वोढारः । शैरश्वैः सोमपीतये सोमपानयागार्थं देवाना वहेति शेषः ॥ घृतपृष्ठाः । घृ क्षरणदीप्त्योः । घृतं दीप्तं पृष्ठं येषां ते घृतपृष्ठाः । घृतशब्दः प्रत्ययस्वरेणांतोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । मनसा युंजत इति मनोयुजः । ऋत्विग्दधृगित्यादिना क्विन् । कृदुत्तरपदप्रकृतिस्वरत्वम् । त्वा । त्वामौ द्वितीयाया इत्यनुदात्तस्त्वादेशः । वहंति । शप्तिङोरनुदात्तत्वाद्धातुस्वरः । यद्वृत्तयोगान्निघाताभावः । वह्नयः । निरित्यनुवृत्तौ वहिश्रिश्रुयुद्रुग्लाहात्वारिभ्यो नित् (उ ४-५१) इति नि प्रत्ययः । तस्य नित्त्वादाद्युदात्तत्वम् । सोमपीतये । उक्तम् । सकारे परतो नकारस्य संहितायां नश्च (पा ८-३-३०) इति धुडागमः । खरि च (पा ८-४-५५) इति चर्त्वम् । चयो द्वितीयाः शरि पौष्करसादेः । पा ८-४-४८-३३ । इति द्वितीयस्थकारः ॥ २६ ॥ ६ ॥

1.14.7
तान्यज᳚त्रा{4} ऋता॒वृधो॑ग्ने॒ पत्नी᳚वतस्कृधि ।
मध्व᳚ः सुजिह्व पायय ॥
▶ पदपाठः (Word-by-word)
तान् । यज᳚त्रान् । ऋ॒त॒॑वृधः᳚ । अग्ने᳚ । पत्नी᳚॑वतः । कृ॒धि॒ ।
मध्वः᳚ । सु॒॑जि॒ह्व॒ । पा॒य॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तानिंद्रादीन्देवान्यजत्रान्यजनीयान् ऋतावृधः सत्यस्य यज्ञस्य वा वर्धकान् पत्नीवतः पत्नीयुक्तान्कृधि । कुरु । हे सुजिह्व । शोभनजिह्वोपेत मध्वो मधुरस्य सोमस्य भागं देवान्पायय ॥ यजत्रान् । आमिनक्षियजिबंधिपतिभ्योऽत्रन् (उ ३-१०५) इति यजेरत्रन्प्रत्ययः । ऋतावृधः । वृधुवृद्धौ । अंतर्भावितण्यर्थात् क्विप्चेति क्विप् । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वम् । वृद्धेर्धातुस्वरः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । अग्ने । पादादित्वान्नामंत्रितनिघातः । पाष्ठिकमाद्युदात्तत्वम् । पत्नीवतः । पत्युर्नो यज्ञसंयोगे (पा ४-१-३३) इति ङीप् । इकारस्य च नकारः ता एषां संतीति मतुप् । छंदसीर इति वत्वम् । पतिशब्दो दतिप्रत्ययांतत्वादाद्युदात्तः । ङीम्मतुपोरनुदात्तत्वात्स एव शिष्यते । कृधि । कृञो लोटः सिः । सेर्ह्यपिच्चेति हिः । बहुलं छंदसीति विकरणलुक् । श्रुशृणुपृकृवृभ्यश्छंदसि (पा ६-४-१०२) इति हेर्धिरादेशः । ङित्वाद्गुणाभावः । मध्वः । उक्तम् । सुजिह्व । आमंत्रित निघातः । पायय । पापाने । पिबंतं प्रयुंक्त इति हेतुमति चेति णिच् । शाछासाह्वाव्यावेपां युक् (पा ७-३-३७) इति युक् । पूर्वस्यामंत्रितस्याविद्यमानवत्त्वम् । अत एवाव्यवधायकत्वान्मध्व इत्यपेक्ष्य तिङ्ङतिङ इति निघातः ॥ ७ ॥

1.14.8
ये यज᳚त्रा॒ य ईड्या॒स्ते ते᳚ पिबन्तु जि॒ह्वया᳚ ।
मधो᳚रग्ने॒ वष᳚ट्कृति ॥
▶ पदपाठः (Word-by-word)
ये । यज᳚त्राः । ये । ईड्याः᳚ । ते । ते॒ । पि॒ब॒न्तु॒ । जि॒ह्वया᳚ ।
मधोः᳚ । अ॒ग्ने॒ । वष᳚ट्॑कृति ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये देवा यजत्रा यष्टव्याः । तथा ये देवा ईड्याः स्तुत्याः । ते सर्वेऽपि वषट्कृति वषट्कारकाले वषट्कारयुक्ते यागे वा हे अग्ने ते त्वदीयया जिह्वया मधोर्मधुरस्य सोमस्य भागं पिबंतु ॥ यजत्राः । गतम् । ईड्याः । ईडस्तुतौ । ऋहलोर्ण्यत् । तित्स्वरिते प्राप्त ईडवंदवृशंसदुहां ण्यत इत्याद्युदात्तत्वम् । द्वितीयस्य तेशब्दस्य युष्मदादेशस्य सर्वानुदात्तत्वम् । मधोः । उप्रत्ययस्य नित्त्वादाद्युदात्तत्वमुक्तम् । अग्ने । आमंत्रितनिघातः । वषट्कृति । करोतेः संपदादिभ्यो भावे क्विप् । वषडित्यस्य करणं यस्मिन्याग इति बहुव्रीहिः । वषडित्यस्य निपातत्वादाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ८ ॥

1.14.9
आकीं॒ सूर्य᳚स्य रोच॒नाद्विश्वा᳚न्दे॒वा{4} उ᳚ष॒र्बुधः᳚ ।
विप्रो॒ होते॒ह व᳚क्षति ॥
▶ पदपाठः (Word-by-word)
आकी᳚म् । सूर्य᳚स्य । रो॒च॒नात् । विश्वा᳚न् । दे॒वान् । उ॒षः॒॑बुधः᳚ ।
विप्रः᳚ । होता᳚ । इ॒ह । व॒क्ष॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रो मेधावी होता होमनिष्पादकोऽग्निरुषर्बुध उषःकाले यागमनाय प्रबुध्यमानान्विश्वान्देवान्सूर्यस्य संबंधिनो रोचनात्स्वर्गलोकादिह कर्मण्याकीं वक्षति । आवहतु ॥ आकीम् । निपात आद्युदात्तः । सूर्यस्य । सूर्यशब्दो राजसूयसूर्येत्यादिना (पा ३-१-११४) क्यप्रत्ययांतो निपातितः । क्यपः पित्त्वा द्धातुस्वरेणाद्युदात्तः । रोचनात् । रोचमानात् । रुच दीप्तौ । अनुदात्तेतश्च हलादेः (पा ३-२-१४९) इति कर्तरि युच् । चित इत्यंतोदात्तत्वम् । विश्वान् । विशेः क्वनंतो नित्त्वादाद्युदात्तः । उषर्बुधः । उषर्बुध्यंत इत्युषर्बुधः । क्विप्चेति क्विप् धातुस्वरेणोकार उदात्तः । समासे कृदुत्तपदप्रकृतिस्वरत्वम् । विप्रः । ऋज्रेंद्रेत्यादिनारन् । नित्त्वादाद्युदात्तः । होता । ह्वयतेस्ताच्छील्ये तृन् । बहुलं छंदसीति संप्रसारणम् । परपूर्वत्वम् । गुणः । नित्त्वादाद्युदात्तः । इह । इदमो ह इति ह प्रत्ययः । इदम इशितीश् । शित्त्वात्सर्वादेशः । प्रत्ययस्वरः । वक्षति । वहेः प्रार्थनायां लिङर्थे लेट् । तस्य तिप् । कर्तरि शप् । शपि परतः सिब्बहुलं लेटीति सिप् । ढत्वकत्वषत्वानि । तिङ्ङतिङ इति निघातः ॥ ९ ॥

1.14.10
विश्वे᳚भिः सो॒म्यं मध्वग्न॒ इन्द्रे᳚ण वा॒युना᳚ ।
पिबा᳚ मि॒त्रस्य॒ धाम᳚भिः ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚भिः । सो॒म्यम् । मधु᳚ । अग्ने᳚ । इन्द्रे᳚ण । वा॒युना᳚ ।
पिब᳚ । मि॒त्रस्य᳚ । धाम᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं विश्वेभिः सर्वैः पूषभगादिभिर्देवैरिंद्रेण वायुना मित्रस्य संबंधिभिर्धामभिस्तेजोभिर्मूर्तिविशेषरूपैश्च सह सोम्यं सोमसंबंधि मधु मधुरं भागं पिब ॥ विश्वेभिः बहुलं छंदसीति भिस ऐसादेशाभावः । सोम्यम् । सोममर्हति य इत्यनुवृत्तौ मये च (पा ४-४-१३८) इति यप्रत्ययः सोमस्य विकार इत्यर्थे । यस्येति चेत्यकारलोपः । प्रत्ययस्वरः । फलिपाटनमिमनीत्यादिना (उ १-१९) उप्रत्ययः । निदित्यनुवृत्तेर्नित्त्वादाद्युदात्तः । वायुना । क्यवापाजीत्यादिना उण् । अतो युक् चिण्कृतोः (पा ७-३-३३) इति युक् । प्रत्ययस्वरः । पिब पा पाने । लोटः सेर्हिरादेशः । शपि पाघ्रेत्यादिना पिबादेशः । अतो हेरिति हेर्लुक् । तपः पित्त्वाद्धातुस्वरः । पादादित्वान्न निघातः । द्व्यचोऽशस्तिङ इति संहितायां दीर्घः । धामभिः । धाञ् । आतो मनिन्निति मनिन् । नित्स्वरः ॥ १० ॥

1.14.11
त्वं होता॒ मनु᳚र्हि॒तो॑ग्ने᳚ य॒ज्ञेषु᳚ सीदसि ।
सेमं नो᳚ अध्व॒रं य᳚ज ॥
▶ पदपाठः (Word-by-word)
त्वम् । होता᳚ । मनुः᳚॑हितः । अग्ने᳚ । य॒ज्ञेषु᳚ । सी॒द॒सि॒ ।
सः । इ॒मम् । नः॒ । अ॒ध्व॒रम् । य॒ज॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने मनुर्हितो मनुषा होत्रादिरूपेण मनुष्येण हितः संपादितो होमनिष्पादको यस्त्वं यज्ञेषु सीदसि तिष्ठसि स त्वं नोऽस्मदीयमिमम ध्वरं यज्ञं यज निष्पादय ॥ मनुर्हितः । मन्यत इति मनुः । निच्चेत्यनुवृत्तौ बहुलमन्यत्रापि (उ २-१२२) उस् । नित्त्वादाद्युदात्तः । हितः । धाञो धातो र्निष्ठेति क्त प्रत्ययः । दधातेर्हिरिति हिरादेशः । मनुषा हितो मनुर्हितः । कर्तृकरणे कृता बहुलमिति समासः । कृत्स्वरापवादेन तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । सीदसि । षद्लृविशरणगत्यवसादनेषु । लटः सिप् । शपि पाघ्राध्मेत्यादिना सीदादेशः । निघातः । सेममित्यत्र संहितायां सोऽचि लोपे चेत्पादपूरणम् । पा ६-१-१-३४ ॥ इति सोर्लोपे गुणः । अध्वरम् । न विद्यते ध्वरो हिंसा यस्मिन्सोऽध्वरः नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । नो अध्वरमित्यत्र संहितायामेजिः पदां तादति (पा ६-१-१०९) इति पूर्वं रूपं प्राप्तं प्रकृत्यांतः पादमव्यपर इति प्रकृति भावान्निवर्तते ॥ ११ ॥

1.14.12
यु॒क्ष्वा ह्यरु᳚षी॒ रथे᳚ ह॒रितो᳚ देव रो॒हितः᳚ ।
ताभि᳚र्दे॒वा{4} इ॒हा व᳚ह ॥
▶ पदपाठः (Word-by-word)
यु॒क्ष्व । हि । अरु᳚षीः । रथे᳚ । ह॒रितः᳚ । दे॒व॒ । रो॒हितः᳚ ।
ताभिः᳚ । दे॒वान् । इ॒ह । आ । व॒ह॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाग्ने रोहितो रोहिच्छब्दाभिधेयास्तद्वीया वडवा रथे युक्ष्व । योजय । हिशब्दः पादपूरणार्थः । कीदृशीः । अरुषीर्गतिमतीर्हरितो हर्तुं रथारूढान्पुरुषान्नेतुं समर्थाः । ताभिर्वडवाभिरिहास्मिन्कर्मणि देवाना वह ॥ युक्ष्व । युजिर् योगे । लोट् । स्वरितेत्वादात्मनेपदम् । थासः से । सवाभ्यां वामौ । रुधादिभ्यः श्नम् । तस्य बाहुलकाल्लुक् । कुत्वषत्वे । प्रत्ययसर्वेणांतोदात्तः । संहितायां द्व्यचोऽतस्तिङ इति दीर्घः । अरुषीः । ऋ गतौ । रंति गच्छंतीत्यरुष्यो वडवाः । ऋहनिभ्यामुषन् (उ ४-७३) धातोर्गुणो रपरत्वम् । नित्त्वादाद्युदात्तोऽरुषशब्दः । तस्मात्स्त्रियां छांदसो ङीप् । शसि प्रथमयोः पूर्वसर्वर्णः (पा ६-१-१०२) इति दीर्घः । रथे । रमेरौणादिकः क्थन्प्रत्ययः । नित्वादाद्युदात्तः । हरितः । हृसृरुहियुषिभ्यः इतिः (उ १-९९) इति हरतेरितिप्रत्ययः । इकारः प्रत्ययस्वरेणोदात्तः । रोहितः । रुहेरपि तेनैव सूत्रेणेतिः । इकारः प्रत्ययस्वरेणोदात्तः । ताभिः । सावेकाच इति विभक्तेः प्राप्तमुदात्तत्वं साववर्णेति निषिध्यते । देवानित्यत्र पूर्ववद्रुत्वानुनासिकौ ॥ २७ ॥