श्रवणम्

1.14.8
ये यज᳚त्रा॒ य ईड्या॒स्ते ते᳚ पिबन्तु जि॒ह्वया᳚ ।
मधो᳚रग्ने॒ वष᳚ट्कृति ॥
▶ पदपाठः (Word-by-word)
ये । यज᳚त्राः । ये । ईड्याः᳚ । ते । ते॒ । पि॒ब॒न्तु॒ । जि॒ह्वया᳚ ।
मधोः᳚ । अ॒ग्ने॒ । वष᳚ट्॑कृति ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये देवा यजत्रा यष्टव्याः । तथा ये देवा ईड्याः स्तुत्याः । ते सर्वेऽपि वषट्कृति वषट्कारकाले वषट्कारयुक्ते यागे वा हे अग्ने ते त्वदीयया जिह्वया मधोर्मधुरस्य सोमस्य भागं पिबंतु ॥ यजत्राः । गतम् । ईड्याः । ईडस्तुतौ । ऋहलोर्ण्यत् । तित्स्वरिते प्राप्त ईडवंदवृशंसदुहां ण्यत इत्याद्युदात्तत्वम् । द्वितीयस्य तेशब्दस्य युष्मदादेशस्य सर्वानुदात्तत्वम् । मधोः । उप्रत्ययस्य नित्त्वादाद्युदात्तत्वमुक्तम् । अग्ने । आमंत्रितनिघातः । वषट्कृति । करोतेः संपदादिभ्यो भावे क्विप् । वषडित्यस्य करणं यस्मिन्याग इति बहुव्रीहिः । वषडित्यस्य निपातत्वादाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ८ ॥