श्रवणम्

1.14.3
इ॒न्द्र॒वा॒यू बृह॒स्पतिं᳚ मि॒त्राग्निं पू॒षणं॒ भग᳚म् ।
आ॒दि॒त्यान्मारु᳚तं ग॒णम् ॥
▶ पदपाठः (Word-by-word)
इ॒न्द्र॒वा॒यू इति᳚ । बृह॒स्पति᳚म् । मि॒त्रा । अ॒ग्निम् । पू॒षण᳚म् । भग᳚म् ।
आ॒दि॒त्यान् । मारु᳚तम् । ग॒णम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रादिदेवान्मारुतं मरुतां वायूनां संबंधिनं गणं च हे अग्ने यक्षीति पदद्वयमनुवर्तते ॥ इंद्रश्च वायुश्चेंद्रवायू । देवताद्वंद्वे च (पा ६-३-२६) इति प्राप्तस्यानङ उभयत्र वायोः प्रतिषेधो वक्तव्यः । पा ६-३-२६ १ इति प्रतिषेधः । देवताद्वंदे च (पा ६-२-१४१) इति प्राप्तस्योभयपदप्रकृतिस्वरस्य नोत्तरपदेऽनुदात्तादौ (पा ६-२-१४२) इति निषेधः । समासांतोदात्तत्वमेव । बृहस्पतिम् । तद्बृहतोः करपत्योश्चोरदेवतयोरभिधेययोः सुट् तलोपो वक्तव्यः (म ६-१-१५७) इति तलोपः सुडागमश्च । बृहच्छब्दमाद्युदात्तं केचिद्वर्ण यंतीति वामनः । पा रक्षणे । पातीति पतिः । पातेर्डतिः (उ ४-५७) प्रत्ययस्वरेणाद्युदात्तः । समास उभे वनस्पत्यादिषु युगपत् (पा ६-२-१४०) इत्युभयपदप्रकृतिस्वरत्वम् । मित्रा । द्वितीयायाः सुपां सुलगित्यादिना विभक्तेराजादेशः । आदित्यान् । अदित्येरपत्यान्यादित्याः । दित्यदित्यादित्यपत्युत्तरपदाण्यः (पा ४-१-८५) प्रत्ययस्वरः । मारुतम् । मरुतां विकारः । अनुदात्तादेश्च (पा ४-३-१४०) इत्यञ् । ञित्त्वा दाद्युदात्तः ॥ ३ ॥