प्रथमं मण्डलम् - सूक्तम् 13

12 ऋचः

ऋषिः: मेधातिथिः काण्वः देवता: इध्मः समिद्धो वाग्निः छन्दः: गायत्री

सूक्तम् 1.13 - सम्पूर्णम्

1 / 12
ऋक्: 1.13.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
1.13.1
सुस᳚मिद्धो न॒ आ व᳚ह दे॒वा{4} अ᳚ग्ने ह॒विष्म᳚ते ।
होतः᳚ पावक॒ यक्षि᳚ च ॥
▶ पदपाठः (Word-by-word)
सु॑स᳚मिद्धः । नः॒ । आ । व॒ह॒ । दे॒वान् । अ॒ग्ने॒ । ह॒विष्म᳚ते ।
होत॒रिति᳚ । पा॒व॒क॒ । यक्षि᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सुसमिद्धनामकस्त्वं नोऽस्मदीयाय हविष्मते यजमानाय तदनुग्रहार्थं देवाना वह । हे पावक शोधक होतर्होमनिष्पादकाग्ने यक्षि च । यज च ॥ सुसमिद्धः । समः क्रियाविशेषेणत्वेन गतिसंज्ञकत्वात्प्रादिसमासः । शोभनवाचिनः सुशब्दस्य तु विशेषणं विशेष्येण बहुलम् (पा २-१-५७) इति समिद्ध पदेन कर्मधारयसमासः । सुशब्दः प्रातिपदिकस्वरेणोदात्तः । कर्मधारयेऽनिष्ठा (पा ६-२-४६) इति पूर्वपदप्रकृतिस्वरत्वम् । क्रियाविशेषणत्वे हि सुशब्दस्य गतित्वात्प्रादिसमासे गतिरनंतर इति समो यदुदात्तत्वं तदेव कृदुत्तरपदप्रकृतिस्वरत्वेन स्थास्यतीति सुशब्दोनुदात्तः स्यात् । देवा अग्ने । पूर्ववद्रुत्वानुनासिके । हविष्मते । हविरस्यास्तीति मतुप् । तसौ मत्वर्थे (पा १-४-१९) इति भत्वेन पदत्वस्य बाधितत्वान्न रुत्वम् । होतःपावकशब्द योरामंत्रितयोः पृथक्प्रृृथगेव क्रियान्वये परस्परमसामर्थ्यात्परांगवद्भावाभावान्न तन्नि बंधनमैकस्वर्यम् । न च द्वितीयस्यामंत्रितस्या ष्टमिकनिघातेनैकस्वर्यम् । आमंत्रितं पूर्वमविद्यमानवदिति पूर्वस्याविद्यमानवत्त्वेन पदात्परत्वाभावात्पादादित्वाच्च परस्परसामानाधिकरण्येऽपि होतरित्यस्य विशेषणत्वे समानमेवाविद्यमानवत्त्वम् । अत एवाविद्यमानवत्त्वात्सामर्थ्येऽपि न परांग वद्भाव इति नैकस्वर्यसिद्धिः । अतो होतरिति विशेष्यम् । अतः पुनातीति पावक इत्यवयवप्रसिद्धिस्वीकारेण विशेषणत्वाद्दोतरिति विशेष्यम् । तच्च सामान्य वचनमिति नामंत्रिते समानाधिकरण इत्यविद्यमानवत्त्वप्रतिषेधात्पदात्परत्वादपादादित्वाच्च द्वितीयामंत्रितस्याष्टमिकनिघातेन वा परांगवद्भावे सति शेषनिघातेन वा सर्वानुदात्तत्व सिद्धिः । यक्षि । यजेर्लोटः । सिपि बहुलं छंदसीति शपो लुक् । व्रश्चादिना षत्वम् । षढोः कः सि (पा ८-२-४१) इति कत्वम् । सेर्हिरादेशश्छांदसत्वान्न भवति । सिपः पित्त्वेनानुदात्तत्वाद्धातुस्वर एव शिष्यते । न च तिङ्ङतिङ इति निघातः । पूर्वस्य पावकेत्यामंत्रितस्याविद्यमानवत्त्वात् । ननु नामंत्रिते समानाधिकरण इति तस्य निषिद्धमविद्यमानवत्त्वम् । न च । पावकपदस्याविद्यमानवत्त्वेन समानाधिकरणपरत्त्वाभावः । यक्षिपदस्यैव हि कार्यं प्रति पावकपदं पूर्वत्वादविद्यमानवत्स्यात् । होतःपदकार्यमविद्यमानवत्त्वप्रतिषेधं प्रति तु परत्वाद्विद्यमानवदेवेति भवत्येव होतरित्यस्याविद्यमानवत्त्वप्रतिषेधः । अतस्तस्य विद्यमानवत्त्वात्तदपेक्षया यक्षीत्यस्य निघातः प्राप्नोत्येव । सत्यम् । अत्र यक्षीत्यस्य चशब्दपरत्वाच्चादिषु च । ८-१-५८ । इति निघातप्रति षेधो भविष्यतीत्यदोषः ॥ १ ॥

1.13.2
मधु᳚मन्तं तनूनपाद्य॒ज्ञं दे॒वेषु᳚ नः कवे ।
अ॒द्या कृ᳚णुहि वी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
मधु᳚॑मन्तम् । त॒नू॒॑न॒पा॒त् । य॒ज्ञम् । दे॒वेषु᳚ । नः॒ । क॒वे॒ ।
अ॒द्य । कृ॒णु॒हि॒ । वी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कवे मेधाविन् अग्ने तनूनपादेतन्नामकस्त्वमद्यास्मिन्दिने नोऽस्मदीयं मधुमंतं रसवंतं यज्ञं हविर्वीतये भक्षणार्थं देवेषु कृणुहि । कुरु । प्रापयेत्यर्थः ॥ मधुमंतं फलिपाटनमिमनिजनां गुक्पटनाकिधतश्च (उ १-१९) इति मन्यतेरुप्रत्ययो धकारश्चांतादेशः । निदित्यनुवृत्तेः प्रत्ययस्य नित्त्वादाद्युदात्तो मधुशब्दः । तनूनपात् । आमंत्रितनिघातः । अद्य । सद्यःपरुदित्यादिनास्मिन्काल इत्यर्थे द्यप्रत्ययांतो निपौतितः । प्रत्ययस्वरेणांतोदात्तः । तद्धितश्चा सर्वविभक्तिरित्यव्ययात्त्वादव्ययादाप्सुप इत्युपरि सप्तम्या लुक् । संहितायामन्येषामपि दृश्यत इति दीर्घत्वम् । कृणुहि । कृवि हिंसाकरणयोश्च । इदितो नुम् धातोरिति नुम् । लोटः सेर्हिरादेशः । धिन्वकृण्व्योरच्चेति शपोऽपवादो विकरण उप्रत्ययः । तत्संनियोगेन वकारस्याकारः । तस्यातो लोप इति लोपः । तस्य स्थानिवद्भावाल्लघूपधगुणो न भवति । उतश्च । प्रत्ययादसंयोगपूर्वात् (पा ६-४-१०६) इति हेर्लुग्न भवत्युतश्च प्रत्ययाच्छंदो वावचनम् । पा ६-४-१०६-१ । इति वचनात् । तिङ्ङतिङ इनि निघातः । वीतये । मंत्रे वृषेषपचमनविदभूवीरा उदात्त इति क्तिन्नुदात्तः ॥ २ ॥

1.13.3
नरा॒शंस᳚मि॒ह प्रि॒यम॒स्मिन्य॒ज्ञ उप᳚ ह्वये ।
मधु᳚जिह्वं हवि॒ष्कृत᳚म् ॥
▶ पदपाठः (Word-by-word)
नरा॒शंस᳚म् । इ॒ह । प्रि॒यम् । अ॒स्मिन् । य॒ज्ञे । उप᳚ । ह्व॒ये॒ ।
मधु᳚॑जिह्वम् । ह॒विः॒॑कृत᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इह देवयजनदेशेऽस्मिन्प्रवर्तमाने यज्ञे नराशंसमेतन्नामकमग्निमुपह्वये । आह्वयामि । कीदृशम् । प्रियं देवानां प्रीतिहेतुं मधुजिह्वं मधुर भाषिजिह्वोपेतं माधुर्यरसास्वादकजिह्वोपेतं वा हविष्कृतं हविषो निष्पादकं ॥ नरशब्दो नृ नय इत्यस्मादबंतः । प्रत्ययस्य पित्त्वाद्धातुस्वर एव शिष्यते । शंसंत्यस्मिन्निति शंसः । हलश्च (पा ३-३-१२१) इत्यधिकरणे घञ् । नराणां शंस इति समासे कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्त उभे वनस्पत्यादिषु युगपत् (पा ६-२-१४०) इति पूर्वेत्तरपदे प्रकृतिस्वरे भवतः । अत एव वनस्पत्यादिषु पाठान्नरशब्दस्य दीर्घत्वम् । इह । इदमो ह इति हप्रत्ययः । इदम इशितीशादेशः । प्रत्ययस्वरः । प्रियम् । प्रीणातीति प्रियः । इगुपधज्ञाप्रीकिरः क इति कः । प्रत्ययस्वरः । अस्मिन् । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । ह्वये । निघातः । मधुजिह्वम् । मधुशब्दस्याद्युदात्तत्वमुक्तम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण स एव शिष्यते । हविष्कृतम् । हविः करोतीति हविष्कृत् । क्विपि ह्रस्वस्य तुक् । नित्यं समासेऽनुत्तरपदस्थस्येति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ३ ॥

1.13.4
अग्ने᳚ सु॒खत᳚मे॒ रथे᳚ दे॒वा{4} ई᳚ळि॒त आ व᳚ह ।
असि॒ होता॒ मनु᳚र्हितः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । सु॒ख॑त᳚मे । रथे᳚ । दे॒वान् । ई॒ळि॒तः । आ । व॒ह॒ ।
असि᳚ । होता᳚ । मनुः᳚॑हितः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इट् शब्दाभिधेय हे अग्ने ईळितोऽस्माभिः स्तुतः सन् सुखतमेऽतिशयेन सुखहेतौ कस्मिंश्चिद्रथे देवान् स्थापयित्वा कर्मभूमावा वह । इट् शब्दाभिधेयत्वमत्र सूचयितुमीळित इति विशेषणम् । मनुर्हितो मनुना मंत्रेण मनुष्येण वा यजमानादिरूपेण हितोऽत्र स्थापितस्त्वं होता देवानामाह्वातासि ॥ सुखतमे । सुखमस्मिन्नस्तीति मतुप् । तस्य गुणवचनेभ्यो मतुपो लुग्वक्तव्यः । पा ५-२-९४-३ । इति लुक् । अतिशयेन सुखः सुखतमः । तमपोऽनुदात्तत्त्वात्प्रातिपदिक स्वरः । रथे । रमुक्रीडायाम् । रमंतेऽस्मिन्निति रथः । हनिकुषिनीरमिकाशिभ्यः क्थन् (उ २-२) इति क्थन् । एकाच उपदेशेऽनुदात्तात् (पा ७-२-१०) इतीट् प्रतिषेधः अनुदात्तोपदेशेत्यादिना (पा ६-४-३७) मकारलोपः । नित्त्वादाद्युदात्तत्वम् । ईळितः । ईड स्तुतौ । निष्ठेति क्तः । इडागमः । तस्यागमा अनुदात्ता इत्यनुदात्तः । प्रत्ययस्वरः । देवानिति नकारस्य संहितायां दीर्घादट समानपाद इति रुत्वं अतोऽट नित्यमित्याकारस्यानुनासिकभावः । भोभगो इत्यादिना रोर्यत्वम् । तस्य लोपः शाकल्यस्येति लोपः । तस्यासिद्धत्वादाद्गुणो न भवति । आ । निपातत्वादाद्युदात्तः । असि । अस भुवि । लटः सिप् । अदिप्रभृतिभ्यः शप इति शपो लुक् । तासस्त्योर्लोप इति सकारस्य लोपः । होता । ताच्छील्ये तृन् । सौ ऋदुशन इत्यादिना (पा ७-१-९४) आनङ् । ङित्त्वादंतादेशः आप्तृन्नित्यादिना (पा ६-४-११) उपधादीर्घः । हल्ङ्यादि लोपनलोपौ । नित्त्वादाद्युदात्तः । मनुर्हितः । मन्यत इति मनुः । मन ज्ञाने । शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबंधिमनिभ्यश्च (उ १-१०) इत्युप्रत्ययः । तत्र निदित नुवृत्तेर्नित्त्वा दाद्युदात्तः । हितः । दधातेर्निष्ठेति कर्मणि क्तः । दधातेर्हिः (पा ७-४-४२) इति हिरादेशः । मनुना हित इति समासे तृतीयायाः स्थाने सुपां सुलुगित्यादिना स्वित्यादेशः । तस्य रुत्वम् । लुगभावश्छांदसः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥

1.13.5
स्तृ॒णी॒त ब॒र्हिरा᳚नु॒षग्घृ॒तपृ᳚ष्ठं मनीषिणः ।
यत्रा॒मृत᳚स्य॒ चक्ष᳚णम् ॥
▶ पदपाठः (Word-by-word)
स्तृ॒णी॒त । ब॒र्हिः । आ॒नु॒षक् । घृ॒त॑पृ᳚ष्ठम् । म॒नी॒षि॒णः॒ ।
यत्र᳚ । अ॒मृत᳚स्य । चक्ष᳚णम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मनीषिणो बुद्धिमंत ऋत्विजो बर्हिर्दभं स्तृणीत । वेदेरुपर्याच्छादयत । अत्रापि बर्हिर्नामकोऽग्निः सूच्यते । कीदृशं बर्हिरास्तरणीयम् । आनुषक् अनुक्रमेण सक्तं परस्परं संबद्धं घृतपृष्ठम् । घृतपूर्णानां स्रुचां बर्हिष्यासादितत्वाद्घृतं पृष्ठ उपरिभागे यस्य बर्हिषस्तद्घृतपृष्ठम् । यत्र यस्मिन्बर्हिष्यमृतस्यामृतसमानस्य घृतस्य चक्षणं दर्शनं भवति । यद्वा । मरणरहितस्य देवस्य बर्हिर्नामकस्याग्नेर्दर्शनं भवति । तद्बर्हिः स्तृणीतेति पूर्वत्रान्वयः ॥ स्तृणीत स्तृञ् आच्छादने । लोण्ममध्यमपुरुषस्य बहुवचनम् । लोटो लङ्वत् (पा ३-४-८५) तस्थस्थमिपा (पा ३-४-१०१) इति थस्य तादेशः । क्रादिभ्यः श्ना । ई हल्यघोः (पा ६-४-११३) इतीत्वम् । ऋवर्णाच्चेति वक्तव्यम् । का ८-४-१-१ । इति णत्वम् । प्वादीनां ह्रस्वः (पा ७-३-८०) इति धातोर्ह्रस्वत्वम् । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः । अतस्तिङ एव प्रत्यय स्वरेणोदात्तत्वं बर्हिः । बृंहेर्नलोपश्च (उ २-११०) इतीस्प्रत्ययनलोपौ । प्रत्ययस्वरः । आनुषक् । आ समंतादनुषजतीत्यानुषक् । षंजसंगे । धात्वादेः षः सः । क्विप्चेति क्विप् । अनिदिताम् (पा ६-४-२४) इति लोपः । आङन्वोरुपसर्गयोः प्राक्प्रयोगः । गतिसमासः । उपसर्गात्सुनोतीत्यादिना षत्वम् । घृतपृष्ठम् । घृ क्षरणदीप्त्योः । निष्ठेति क्तः । प्रत्ययस्वरेणोदात्तः । घृतयुक्तं पृष्ठमस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । मनीषिणः । आमंत्रितनिघातः आमृतस्य । न विद्यते मृतं मरणमस्मिन्नित्यमृतम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं बाधित्वा नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वे प्राप्ते नञो जरमरमित्रमृताः (पा ६-२-११६) इत्युत्तरपदाद्युदात्तत्वम् । चक्षणम् । चक्षिङ् व्यक्तायां वाचि । वागभिव्यक्तिवाची धातुरिहाभिव्यक्तिमात्रं लक्षयति । ल्युट् च (पा ३-३-११५) इति भावेल्युट् । योरनादेशः । तस्यार्धधातु कत्वाच्चक्षिङः ख्याञ् (पा २-४-५४) इति ख्याञादेशे प्राप्तेऽसनयोश्च । पा २-४-५४-१० । इति प्रतिषेधः ॥ ५ ॥

1.13.6
वि श्र᳚यन्तामृता॒वृधो॒ द्वारो᳚ दे॒वीर᳚स॒श्चतः᳚ ।
अ॒द्या नू॒नं च॒ यष्ट᳚वे ॥
▶ पदपाठः (Word-by-word)
वि । श्र॒य॒न्ता॒म् । ऋ॒त॒॑वृधः᳚ । द्वारः᳚ । दे॒वीः । अ॒स॒श्चतः᳚ ।
अ॒द्य । नू॒नम् । च॒ । यष्ट᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्वारो यज्ञशालाद्वाराणि वि श्रयंताम् । कपाटोद्घाटनेन विव्रियंताम् । कीदृश्यः । ऋतावृध ऋतस्य सत्यस्य यज्ञस्य वा वर्धयित्र्यो देवीर्द्योतमाना आसश्चतोऽसश्चंत्य उद्घाटनेन प्रवेष्टृपुरुषसंगरहिताः । यद्वा । आसश्चतः प्रवेष्टृपुरुषरहितान्यज्ञगृहांस्तत्पुरुषप्रवेशाय द्वाराभिमानिन्य एतत्संज्ञिका अग्नि विशेषमूर्तयो वि श्रयंताम् । विशेषेण सेवंताम् । द्वारसेवया तत्र पुरुषप्रवेशेन वा किं प्रयोजनमिति तदुच्यते । अद्यास्मिन्दिने नूनमवश्यं यष्टवे यष्टुम् । चकाराद्दिनांतरेष्टपीति द्रष्टव्यं ॥ ऋतावृधः ऋतं वर्धयंतीत्यर्थे वृधेरंतर्भावितण्यर्थात्क्विप्चेति क्विप् । उपपदसमासः । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वम् । वृधिर्धातुस्वरेणोदात्तः । समासेकृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । देवीः । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । देवशब्दात्पचाद्यजंतात्पुंयोगादाख्यायाम् (पा ४-१-४८) इति ङीष् । प्रत्ययस्वरेणोदात्तः । विभक्त्या सहैकादेश उदात्तेनोदात्त इत्युदात्तः । असश्चतः । ग्लुन्चु षस्ज गतौ । जकारस्य व्यत्ययेन चकारः । लटः शत्रादेशः । द्वाराभावे न विद्यंते सश्चंतो गच्छंतो येषु प्राग्वंशादिषु तानसश्चतः । अद्य । सद्यःपरुदित्यादिना द्यप्रत्ययांतो निपातितः । तद्धितश्चासर्वविभक्तिरित्यव्ययसंज्ञकत्वात्परस्या विभक्तेर्लुक् । प्रत्ययस्वरेणांतोदात्तः । संहितायामन्येषामपि दृश्यत इति दीर्घत्वम् । नूनम् । एवमादीनामंत इत्यंतो दात्तत्वम् । यष्ववे । यजेस्तुमर्थे सेसेनित्यादिना (पा ३-४-९) तवेन्प्रत्ययः । व्रश्चादिना षत्वम् । नित्त्वादाद्युदात्तः ॥ ६ ॥

1.13.7
नक्तो॒षासा᳚ सु॒पेश᳚सा॒स्मिन्य॒ज्ञ उप᳚ ह्वये ।
इ॒दं नो᳚ ब॒र्हिरा॒सदे᳚ ॥
▶ पदपाठः (Word-by-word)
नक्तो॒षसा᳚ । सु॒॑पेश᳚सा । अ॒स्मिन् । य॒ज्ञे । उप᳚ । ह्व॒ये॒ ।
इ॒दम् । नः॒ । ब॒र्हिः । आ॒॑सदे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नक्तशब्द उषःशब्दश्च लोके कालविशेषवाचिनौ । इह तु तत्कालाभिमानि वह्नि मूर्तिद्वये प्रयुज्येते । नक्तोषासा नक्तोषो नामिके वह्निमूर्ति अस्मिन्प्र वर्तमाने यज्ञकर्मण्युप ह्वये । आह्वयामि । किमर्थम् । नोऽस्मदीयमिदं वेद्यामास्तीर्णं बर्हिर्गर्भमासदे । असत्तुम् । प्राप्तुम् । कीदृशौ । सुपेशसा शोभन रूपयुक्ते ॥ नक्तं चोषाश्च नक्तोषसा । द्वितीयाद्विवचनस्य सुपां सुलुगित्याकारः मलोप उपधादीर्घश्छांदसौ । देवताद्वंद्वे च (पा ६-२-१४१) इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । सुपेशसा । शोभनं पेशो रूपं ययोस्ते । पूर्ववदाकारः । पेशःशब्दो नब्विषयत्वादाद्युदात्तः । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वस्यापवादत्वेनाद्युदात्तं द्व्यच्छंदसि (पा ६-२-११९) इत्युत्तरपडाद्युदात्तत्वम् । अस्मिन् । ऊडिदमित्यदिना विभक्तिरुदात्ता । असदे । षद्लृ विशरण गत्यवसादनेषु । धात्वादेः षः सः । आङ्पूर्वादस्मात्पंपदादिभ्यो भावे क्विप् । पा ३-३-१०८ ९ । प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ७ ॥

1.13.8
ता सु᳚जि॒ह्वा उप᳚ ह्वये॒ होता᳚रा॒ दैव्या᳚ क॒वी ।
य॒ज्ञं नो᳚ यक्षतामि॒मम् ॥
▶ पदपाठः (Word-by-word)
ता । सु॒॑जि॒ह्वौ । उप᳚ । ह्व॒ये॒ । होता᳚रा । दैव्या᳚ । क॒वी इति᳚ ।
य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तच्छब्दोऽत्र सर्वनामत्वात्प्रसिद्धार्थवाची । ता तौ याज्ञिकानां प्रसिद्धौ द्वावग्नी उपह्वये । आह्वयामि । नोऽस्मदीयमिमं यज्ञं यक्षताम् । तावुभौ यज तामनुतिष्ठताम् । कीदृशौ सुजिह्वौ शोभनजिह्वोपेतौ । प्रियवचनौ शोभनच्वालौ वेत्यर्थः । होतारौ होमनिष्पादकौ दैव्या दैव्यौ देवसंबंधिनौ । अत एवेमावग्नी दैव्य होतृनामकौ । कवी मेधाविनौ ॥ ता तौ । द्वितीयाद्विवचनस्य सुपां सुलुगि त्याकारः । एकादेश उदात्तेनोदात्त इत्युदात्तः । सुजिह्वौ । शोभना जिह्वा ययो स्तौ । नञ्लुभ्यामित्युत्तरपदांतोदात्तत्वम् । पूर्वपदेकादेशस्वरः । संहितायामावादेशः । वस्य लोपः शाकल्यस्येति लोपः । होतारा । जुहोतेस्तृन् । द्विवचने ऋतो चि (पा ७-३-११०) इति गुणः । अप्तृन्नित्युपधादीर्घः । पूर्ववदाकारः । नित्त्वादाद्युदात्तः । दैव्या । देवानामिमौ । देवाद्य ञञौ । पा ४-१- ८५-३ । इति यञ् । यस्येति चेत्यकारलोपः । ञ्नैत्यादिर्नित्यमित्याद्युदात्तः । पूर्ववदाकारः । यक्षताम् । यजताम् । लोट शपि परतः सिब्बहुलं लेटीति बहुलग्रहणात्सिप् । कुत्वचर्त्वषत्वानि ॥ ८ ॥

1.13.9
इळा॒ सर᳚स्वती म॒ही ति॒स्रो दे॒वीर्म᳚यो॒भुवः᳚ ।
ब॒र्हिः सी᳚दन्त्व॒स्रिधः᳚ ॥
▶ पदपाठः (Word-by-word)
इळा᳚ । सर᳚स्वती । म॒ही । ति॒स्रः । दे॒वीः । म॒यः॒॑भुवः᳚ ।
ब॒र्हिः । सी॒द॒न्तु॒ । अ॒स्रिधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र महीशब्दो महत्वगुणयुक्तां भारतीमाचष्टेऽन्येष्टाप्रीसूक्तेषु सदृशेष्विळा सरस्वती भारतीत्याम्नातत्वान् । इळादिशब्दाभिधेया वह्नि मूर्तयस्तिस्रो देवीर्दीप्यमाना बर्हिर्वेद्यामास्तीर्णं सीदंतु । प्राप्नुवंतु । कीदृश्यः । मयोभुवः सुखोत्पादिका अस्रिधः शोषेण क्षयेण वा रहिताः ॥ इळा । ईड स्तुतौ । छांद सं ह्रस्वत्वम् । क्विप् । धातुस्वरः । टापं चापि हलंतानां यथा वाचा दिशा निशेति टाप् । सरस्वती । सरोऽसुनंतो नित्त्वादाद्युदात्तः । तदस्यास्तीति मतुप् । अदुपधत्वाद्वत्वम् । तसौ मत्वर्थ इति भत्वेन पदत्वस्य बाधितत्वाद्रुत्वाद्यभावः । उगितश्चेति ङीप् । मतुब्ङीपौ पित्वादनुदात्तौ । मही । महतीशब्दे तकारलोपश्चांदसः । यस्येति चेत्यकारलोपः । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । तिस्रः । त्रिशब्दाज्जसि त्रिचतुरोः स्त्रियां त्रिसृचतस्य (पा ७-२-९९) इति तिस्रादेशः । अचि र ऋतः (पा ७-२-१००) इति रेघादेशः । तिसृभ्यो जसः (पा ६-१-१६६) इति जस उदात्तत्वम् । देवीः देवानां पत्न्यो देव्यः पुंयोगादाख्यायामिति ङीष् । यस्येति जेत्यकार लोपः । प्रत्ययस्वरेण ङीषु उदात्तत्वम् । जसिदीर्घाज्जसि च (पा ६-१-१०५) इति निषिद्धं दीर्घत्वम् । वा छंदसीति पक्षेऽभ्यनुज्ञायते । मयोभुवः । मीञ् हिंसायाम् । हिनस्ति दुःखमिति सुखं मयः । तद्बावयंतीति मयोभुवः । अंतर्भावितण्यर्थाद्भुवः क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । बर्हिः । बृंहेर्नलोपश्चेतिसिप्रत्ययः । प्रत्ययस्वरः । सीदंतु । षद्लृ विशरणादौ । पाघ्रेत्यादिना सीदादेशः । अस्रिधः । स्रिधेर्हिंसार्थस्य शोषणार्थस्य वा संपदादिभ्यो भावे क्विपि नञा बहुव्रीहिः । पूर्वपदप्रकृतिस्वरं बाधित्वा नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥ ९ ॥

1.13.10
इ॒ह त्वष्टा᳚रमग्रि॒यं वि॒श्वरू᳚प॒मुप᳚ ह्वये ।
अ॒स्माक᳚मस्तु॒ केव᳚लः ॥
▶ पदपाठः (Word-by-word)
इ॒ह । त्वष्टा᳚रम् । अ॒ग्रि॒यम् । वि॒श्व॑रू᳚पम् । उप᳚ । ह्व॒ये॒ ।
अ॒स्माक᳚म् । अ॒स्तु॒ । केव᳚लः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पत्नीसंयाजे त्वष्टुः पुरोनुवाक्येह त्वष्टारमग्रियमिति । शं युवाकाय संप्रेषित इति खंडे सूत्रितम् । सं ते पयांसि समु यंतु वाजा इह त्वष्टारमग्रि यम् । आ १-१० ॥ इति ॥

त्वष्टारं त्वष्टृनामकमग्निमिह कर्मण्युपह्वये । कीदृशम् । अग्रियं श्रेष्ठं विश्वरूपं बहुविधरूपोपेतम् । सोऽस्माकं केवलोऽसाधरणोऽस्तु । इतरयजमानेभ्योप्यधिकमनुग्रहं करोत्वित्यर्थः ॥ त्वष्वारम् । तक्षू त्वक्षू तनूकरणे । तृन् । स्वरतिसूतिसूयतिधूञूदितो वा (पा ७-२-४४) इतीडभावपक्षे स्कोः संयोगाद्यो रंते च (पा ८-२-२९) इति ककारलोपः । ष्टुत्वम् । द्वितीयै कवचने ऋतो ङिसर्वनामस्थानयोरिति गुणेऽप्तृन्नित्यादिनोपधाया दीर्घः तृनो नित्त्वादाद्युदात्त त्वम् । अग्रियं अग्रादित्यनुवृत्तौ घच्छौ च (पा ४-४-११७) इति घच् । आयनेयीत्यादिना (पा ७-१-२) घकारस्य इयादेशः । यस्येति लोपः । आयनादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थम् । पा ७-१-२-१ । इत्युपदेशिवद्भावात्प्रत्ययाद्युदात्तत्त्वाद्घवश्चित्वादंतोदात्तत्वम् । विश्वरूपम् । विश्वानि रूपाणि त्वष्ट्रुत्पन्नत्वेन यस्य । त्वष्वा वै पशूनां मिथुनानां रूपकृत् । तै सं ६-१-८-५ । इति श्रुतेः । विश्वशब्दस्याद्युत्तात्त त्वात्पूर्वपद प्रकृतिस्वरत्वे प्राप्ते बहुव्रीहौ विश्वं संज्ञायाम् (पा ६-२-१०६) इति पूर्वपदांतोदात्तत्वम् । अस्माकम् । असु क्षेपणे । युष्यसिभ्यां मदिक् (उ १-१३८) प्रत्ययस्वरेणांतोदात्तः । षष्ठीबहुवचनमाम् । अत्र परमपि योऽचि (पा ७-२-८९) इति यत्वं बाधित्वा नित्यत्वात्प्रतिपदविधित्वाच्चाम आकमादेशे कृते (पा ७-१-३३) अनादेश इति निषेधेन (पा ७-२-८६) यत्वाभावाच्छेषे लोप इति दकारलोपेऽकारांतत्वेन पश्चात्प्राप्तस्यापि सुटः (पा ७-१-५२) साम इति निर्देशे स्थानिन्यंतर्भावेन निवृत्तिः एवमर्थ एव हि साम इति ससुट्क निर्देशः । केवलः । वृषादेरा कृतिगणत्वादाद्युदात्तः ॥ १० ॥

1.13.11
अव᳚ सृजा वनस्पते॒ देव᳚ दे॒वेभ्यो᳚ ह॒विः ।
प्र दा॒तुर᳚स्तु॒ चेत᳚नम् ॥
▶ पदपाठः (Word-by-word)
अव᳚ । सृ॒ज॒ । व॒न॒स्प॒ते॒ । देव᳚ । दे॒वेभ्यः᳚ । ह॒विः ।
प्र । दा॒तुः । अ॒स्तु॒ । चेत᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वनस्पते एतन्नामाकाग्ने देव हविर्भुग्ब्यो देवेभ्योऽस्मदीयं हविरव सृज । समर्पयेत्यर्थः प्रदातुर्यजमानस्य चेतनं परलोकविषयं विज्ञानं त्वत्प्रसादादस्तु ॥ वनस्पते । आमंत्रितनिघातः । देव । पादादित्वान्न निघातः । षाष्ठिकमामंत्रिताद्युदात्तत्वम् । हविः । इसः प्रत्ययस्वरः । दातुः । ददातेस्तृच् । चित इत्यंतोदात्तः । ङसि ऋत् उत् । पा ६-१-१११ इत्युत्वम् । एकादेशो रपरत्वं च रात्सस्य (पा ८-२-२४) इति सलोपः । एकादेशस्वरेणोकार उदात्तः । चेतनम् । चिती संज्ञाने । करणे ल्युट् । योरनादेशः । लघूपधगुणः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वं ॥ ११ ॥

1.13.12
स्वाहा᳚ य॒ज्ञं कृ᳚णोत॒नेन्द्रा᳚य॒ यज्व᳚नो गृ॒हे ।
तत्र᳚ दे॒वा{4} उप᳚ ह्वये ॥
▶ पदपाठः (Word-by-word)
स्वाहा᳚ । य॒ज्ञम् । कृ॒णो॒त॒न॒ । इन्द्रा᳚य । यज्व᳚नः । गृ॒हे ।
तत्र᳚ । दे॒वान् । उप᳚ । ह्व॒ये॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वाहाशब्दो हविष्प्रदानवाची सन् एतन्नामकमग्निविशेषं लक्षयति । तदग्निसंपादितं यज्ञमिंद्रायेंद्रतुष्व्यर्थं यज्वनो यजमानस्य गृहे ऋत्विजः कृणोतन । कुरुत । तत्र यज्ञे देवानुप ह्वये ॥ कृणोतन । कृवि हिंसाकरणयोश्च । इदित्त्वान्नुम् । लोण्मध्यमबहुवचनस्य तस्थस्थमिपामिति तादेशः । तप्तनप्तनथनाश्च (पा ७-१-४५) इति तनबादेशः । शपि प्राप्ते धिन्विकृण्व्योरच्चेत्युप्रत्ययः । तत्सन्नियोगेन वकारस्य चाकारः । तस्यातो लोप इति लोपः । तस्याचः परस्मिन्निति स्थानिवद्भावादृकारस्य लघूपधगुणो न भवति । तनपः पित्त्वेनङित्त्वादुकारस्य गुणः । इंद्राय । ऋज्रेंद्रेत्यादिना रन् । नित्त्वादाद्युदात्तः । यज्वनः । यङदेवपूजासंगतिकरणादानेषु । सुयोजोर्ङ्वनिप् (पा ३-२-१०३) ङसि भसंज्ञायामल्लोपे प्राप्ते न संयोगाद्वमंतात् (पा ६-४-१३७) इति निषेधः । वनिपः पित्त्वेन धातुस्वर एव शिष्यते । गृहे । ग्रह उपादाने । गेहे कः (पा ३-१-१४४) इति कप्रत्ययः । ग्रहिज्येत्यादिना (पा ६-१-१६) संप्रसारणम् । परपूर्वत्वम् । प्रत्ययस्वरः । तत्र । त्रल् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । देवा उपेत्यत्र संहितायां दीर्घादटीति नकारस्य रुत्वम् । अतोऽट नित्यमित्याकारस्यानुनासिकादेशः । भोभगो इति यत्वम् । तस्य लोपः शाकल्यस्येति लोपः ॥ २५ ॥ १२ ॥