प्रथमं मण्डलम् - सूक्तम् 141

13 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: अग्निः छन्दः: जगती

सूक्तम् 1.141 - सम्पूर्णम्

1 / 13
ऋक्: 1.141.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (13)
1.141.1
बळि॒त्था तद्वपु᳚षे धायि दर्श॒तं दे॒वस्य॒ भर्ग॒ः सह᳚सो॒ यतो॒ जनि᳚ ।
यदी॒मुप॒ ह्वर᳚ते॒ साध᳚ते म॒तिरृ॒तस्य॒ धेना᳚ अनयन्त स॒स्रुतः᳚ ॥
▶ पदपाठः (Word-by-word)
बट् । इ॒त्था । तत् । वपु᳚षे । धा॒यि॒ । द॒र्श॒तम् । दे॒वस्य᳚ । भर्गः᳚ । सह᳚सः । यतः᳚ । जनि᳚ ।
यत् । ई॒म् । उप᳚ । ह्वर᳚ते । साध᳚ते । म॒तिः । ऋ॒तस्य᳚ । धेनाः᳚ । अ॒न॒य॒न्त॒ । स॒॑स्रुतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवस्यद्योतनशीलस्यादित्यस्यदर्शतं सर्वैर्दर्शनीयं तत्प्रसिद्धंभर्गस्तेजः इत्थाइत्थं सर्वैर्दृश्यमानप्र- कारेण वपुषेशरीरव्यवहारायदार्ढ्यायधायिधार्यतेसर्वैः बळित्थेत्युभे अपिसत्यनामनी बट् श्र्त् सत्रा इत्थेतितन्नामसुपाठात् जाठराग्निनाभुक्तानांजरणेनशरीरधारणंप्रसिद्धम् तत्रोपपत्तिमाह—यतःसह- सोजनि यतःकारणात् मथनकालेबलेनोत्पन्नः अतोबलायधार्यतइत्यर्थः यदीं यदेतत्प्रसिद्धम् लोको- पकार्यग्नेस्तेजः मतिर्मदीयाबुद्धिः उपह्वरते उपगच्छति उपगम्य वर्ततेवा हृकौटिल्ये साधतेच तेनै- वतेजसा साधयति स्वाभीष्टं किंच ऋतस्य यज्ञसाधकस्याग्नेस्तेजसाधेनाः सर्वप्राणिनांवाचः सस्रुतः समानंगच्छन्त्यः सहैवप्रवर्तमानाः स्रवतेःकर्तरिक्विप् अमयन्त नयन्ति निर्वहन्तिजगद्भ्यवहारं व्यत्य- येनात्मनेपदम् यद्वा ऋतस्यधेनाः यज्ञस्यसंबन्धिन्योमन्त्ररूपावाचः सस्रुतः होत्रादिमुखेनसहैवप्रवर्त- मानाः अनयन्त नयन्ति अग्नेःस्तोत्रं निर्वहन्ति अग्नेस्तेजसावायज्ञंनिर्वहन्ति तेजोमयीवागितिश्रुतेः । अतःकारणान्मतिरुपह्वरतइत्यर्थः धेनेतिवाङाम धेनाग्नाइतिन्नामसुपाठात् ॥ १ ॥

1.141.2
पृ॒क्षो वपु᳚ः पितु॒मान्नित्य॒ आ श᳚ये द्वि॒तीय॒मा स॒प्तशि᳚वासु मा॒तृषु᳚ ।
तृ॒तीय᳚मस्य वृष॒भस्य᳚ दो॒हसे॒ दश᳚प्रमतिं जनयन्त॒ योष᳚णः ॥
▶ पदपाठः (Word-by-word)
पृ॒क्षः । वपुः᳚ । पि॒तु॒॑मान् । नित्यः᳚ । आ । श॒ये॒ । द्वि॒तीय᳚म् । आ । स॒प्त॑शि᳚वासु । मा॒तृषु᳚ ।
तृ॒तीय᳚म् । अ॒स्य॒ । वृ॒ष॒भस्य᳚ । दो॒हसे᳚ । दश᳚॑प्रमतिम् । ज॒न॒य॒न्त॒ । योष᳚णः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः पृक्षः अन्नसाधकः पाकादिना वपुः वपुष्मान् शरीराभिवृद्धिहेतुः पितुमान् हविर्लक्षणा- न्नयुक्तः नित्यःशाश्वतः ईदृशःसन् प्रथमं पृथिवीस्थानःसन् आशयेआशेते दाहपाकादिलौकिकंकर्मय- ज्ञादिवैदिकंकर्मच निवर्तयन् ध्रुवोभूमौवर्ततइत्यर्थः तथा सप्तशिवासुमातृषुसप्तलोकशिवकरीषु मातृ- स्थानीयासुहितकरीषुवृष्टिषु द्वितीयमाशेते मध्यमस्थानोविद्युद्रूपोवर्तते अस्यवृषभस्य वर्षितुरस्यैव- वैद्युताग्नेः सहायत्वेनसंबन्धिने दोहसेदोग्ध्रे आदित्यस्थोदकस्यवर्षयित्रेआदित्यरश्मये दुहेःकर्तर्यसु- प्रत्ययः तत्प्रवृत्तये तृतीयमाशेते द्युस्थानोवर्तते यद्वा अस्यवृषभस्यवर्षितुः प्रसिद्धस्यादित्यस्यसंब- न्धिनेदोग्ध्रेरश्मये तत्प्रवृत्त्यर्थं आदित्यरश्मयोघर्मकालेभूमिस्थामुदकमाकृष्यसूर्यंप्रापय्यतत्रचिर- कालंधृत्वा पुनरन्तरिक्षंप्राप्यमेघेषुस्थित्वावर्षाकाले प्रवर्षन्तीतिप्रसिद्धं अतोरश्मेर्दोग्धृत्वं ईदृशं त्रिस्थानमग्निंमहाभागं योषणोमिश्रणशीलाः सर्वादिशः जनयन्त उत्पादयन्ति सर्वासुदिक्षुप्रसृत- इत्यर्थः कीदृशंतं दशप्रमतिं दशसुदिक्षुप्रकृष्टमननवन्तं पूज्यत्वाय यद्वा मथनकाले दशभिरङ्गुली- भिरुत्पन्नं लोकत्रयेदशदिक्षुचव्याप्तमित्यर्थः ॥ २ ॥

1.141.3 समानपद
निर्यदीं᳚ बु॒ध्नान्म᳚हि॒षस्य॒ वर्प᳚स ईशा॒नास॒ः शव᳚सा॒ क्रन्त᳚ सू॒रयः᳚ ।
यदी॒मनु᳚ प्र॒दिवो॒ मध्व᳚ आध॒वे गुहा॒ सन्तं᳚ मात॒रिश्वा᳚ मथा॒यति᳚ ॥
▶ पदपाठः (Word-by-word)
निः । यत् । ई॒म् । बु॒ध्नात् । म॒हि॒षस्य᳚ । वर्प᳚सः । ई॒शा॒नासः᳚ । शव᳚सा । क्रन्त᳚ । सू॒रयः᳚ ।
यत् । ई॒म् । अनु᳚ । प्र॒॑दिवः᳚ । मध्वः᳚ । आ॒॑ध॒वे । गुहा᳚ । सन्त᳚म् । मा॒त॒रिश्वा᳚ । म॒था॒यति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ईंएनमग्निं यद्यस्मात्कारणात् महिषस्य महन्नामैतत् महिषःअभ्वःऋभुक्षाइतितन्नामसुपाठात् महतोयज्ञस्यबुध्नात् मूलात् आधानादारभ्यवर्पसःरूपनामैतत् रूपस्यउपक्रमोपसंहारात्मकस्य सिद्ध- येईशानासःस्वकीयव्यापारसमर्थाः सूरयोमेधाविनःऋत्विजःशवसाबलेन मन्त्रादिरूपेणशरीरेणवा- निष्क्रन्त निष्किउर्वन्तिसाधयन्ति उत्पादयन्ति काष्ठात् यद्वा एनमग्निंबुध्नात् आदितः मथनादारभ्य- महिषस्यवर्पसः महतोरूपस्य आहुतिस्वीकारसमर्थस्यसिद्धये निष्कुर्वन्ति करोतेश्छान्दसेलुङि मन्त्रे- घसेतिच्लेर्लुक् व्यत्ययेनान्तादेशः किंच यत् यं ईं एनमेवाग्निंप्रदिवः पुराणात् अनादिकालमारभ्यन- केवलमिदानीमेवेत्यर्थः पूर्ववदिदानींमध्वोमधुनः मधुसदृशस्यहविषः आधवेआधवने प्रक्षेपेनिमित्ते- सति गुहासन्तं गुहायांवेद्यांकाष्ठेनिगूढंसंतंमातरिश्वाअन्तरिक्षे चेष्टमानोवायुः अनुअनुक्रमेण मथायति चालयति उद्बोधयतीत्यर्थः यद्वा मातारि फलस्यमातरियागेश्वस्तिचेष्टतइतिमातरिश्वायजमानोगुहा- सन्तं अरण्योर्निगूढंसंतं प्रादुर्भावाय अनुक्रमेणमथायति मश्नाति उत्पादयतीत्यर्थः यस्मादेवंरूपं तस्मात्स्तोतव्यइत्यर्थः ॥ ३ ॥

1.141.4
प्र यत्पि॒तुः प᳚र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो᳚ वी॒रुधो॒ दंसु᳚ रोहति ।
उ॒भा यद᳚स्य ज॒नुषं॒ यदिन्व᳚त॒ आदिद्यवि᳚ष्ठो अभवद्घृ॒णा शुचि᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र । यत् । पि॒तुः । प॒र॒मात् । नी॒यते᳚ । परि᳚ । आ । पृ॒क्षुधः᳚ । वी॒रुधः᳚ । दं॑सु᳚ । रो॒ह॒ति॒ ।
उ॒भा । यत् । अ॒स्य॒ । ज॒नुष᳚म् । यत् । इन्व᳚तः । आत् । इत् । यवि᳚ष्ठः । अ॒भ॒व॒त् । घृ॒णा । शुचिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यस्मात्पितुः अन्नस्य पशुलक्षणस्य षष्ठीस्थानेप्रथमा तस्यप्रमात्परमत्वाद्धेतोः उत्कृष्टत्वायेत्यर्थः तदर्थंप्रपरिणीयते प्रकर्षेणपरितोनीयते पर्यग्निक्रियतइत्यर्थः यद्वा पितुः उत्पादकात् परमात् उत्कृ- ष्टात् गार्हपत्थलक्षणस्याग्नेःसकाशादाहवनीयंप्रति प्रपरिणीयते प्रकर्षेणनीयते पर्यनर्थकः किंच प्रुक्षुधः पशुपुरोडाशादिषुदाहमध्येधीयमानाः यद्वा प्रशब्दस्यसंप्रसारणं क्षुधबुभुक्षायांक्विप् प्रक्षो- ध्याः प्रकर्षेणबुभुक्षिताः भोक्तुमिष्यमाणावीरुधः दंसुदंतेषु मध्येआरोहति आरोहन्ति प्रविशन्ती- त्यर्थः यद्यस्मात् उभाउभौ अध्वर्युयजमानौ उभेअरणीवाअस्यग्नेर्जनुषं जन्मौत्पत्तिंइन्वतः व्याप्नुतः स्वीकुरुतइत्यर्थः इविव्याप्तौ इदित्त्वान्नुम् आदित् अतएवकारणात् शुचिः शुद्धोयमग्निः घृणायजमा- नेष्वनुग्रहेण यद्वा घृणाघृणः दीप्तिमान् मत्वर्थोलुप्यते दीप्त्यावा यविष्ठोयुवतमोभवत् संपन्नः स्वीका- रसमर्थोभवदित्यर्थः ॥ ४ ॥

1.141.5
आदिन्मा॒तॄरावि᳚श॒द्यास्वा शुचि॒रहिं᳚स्यमान उर्वि॒या वि वा᳚वृधे ।
अनु॒ यत्पूर्वा॒ अरु᳚हत्सना॒जुवो॒ नि नव्य᳚सी॒ष्वव᳚रासु धावते ॥
▶ पदपाठः (Word-by-word)
आत् । इत् । मा॒तॄः । आ । अ॒वि॒श॒त् । यासु᳚ । आ । शुचिः᳚ । अहिं᳚स्यमानः । उ॒र्वि॒या । वि । व॒वृ॒धे॒ ।
अनु᳚ । यत् । पूर्वा᳚ । अरु᳚हत् । स॒ना॒॑जुवः᳚ । नि । नव्य᳚सीषु । अव᳚रासु । धा॒व॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः आशुचिर्दीप्तःआदित् पूर्वमन्त्रेयविष्ठोभवदित्युक्तत्वात् तदनन्तरमेव मातॄरुत्पादयित्रीः मातृस्थानीयादशदिशःआअविशत् सर्वतःप्रविशति पूर्वत्रदशप्रमतिंजनयन्तयोषणइत्युक्तत्वात् दिशां- मातृत्वं दिक्षुप्रकाशेनव्याप्तइत्यर्थः मातरोविशेष्यन्ते यासुमातृषु अहिंस्यमानः परैरपीड्यमानः उर्वि- याउरुअतिप्रभूतंविवावृधे विविधंप्रवृद्धोभवत् तास्वाविशत् यथालोकेकश्चित्तेजस्वी जनन्यास्तनपा- नपरपीडापरिहारादिभिःसम्यक्पोषितोलोकेप्रकाश्यपुनरागत्यमातरमालिंगति तद्वदितिभावः क- स्मिन्कालेइतितत्राह—यत् यदासनाजुवः दीर्घकालवियोगिन्यः स्थापनकालएवप्रक्षिप्ताः अतएवपू- र्वाः प्रथमभाविनीरोषधीः अनुक्रमेणअरुहत् आरोहति नवतरासुअतएवावरासुपूर्वापेक्षयानिकृष्टासु पश्चाद्भाविनीष्वोषधीषु निधावते नितरांनीचैर्वागच्छति अन्तः प्रविशतीत्यर्थः यदाकाष्ठानामध- स्तादुपरिष्टाच्चपविश्यज्वलति तदादिक्षुप्रकाशितोभवतीत्यर्थः ॥ ५ ॥

1.141.6
आदिद्धोता᳚रं वृणते॒ दिवि᳚ष्टिषु॒ भग᳚मिव पपृचा॒नास᳚ ऋञ्जते ।
दे॒वान्यत्क्रत्वा᳚ म॒ज्मना᳚ पुरुष्टु॒तो मर्तं॒ शंसं᳚ वि॒श्वधा॒ वेति॒ धाय᳚से ॥
▶ पदपाठः (Word-by-word)
आत् । इत् । होता᳚रम् । वृ॒ण॒ते॒ । दिवि᳚ष्टिषु । भग᳚म्॑इव । प॒पृ॒चा॒नासः᳚ । ऋ॒ञ्ज॒ते॒ ।
दे॒वान् । यत् । क्रत्वा᳚ । म॒ज्मना᳚ । पु॒रु॒॑स्तु॒तः । मर्त᳚म् । शंस᳚म् । वि॒श्वधा᳚ । वेति᳚ । धाय᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

होतारं होप्मनिष्पादकं आह्वातारंवादेवानां ईदृशमग्निंदिविष्टिषु दिवएषणेषुनिमित्तभूतेषुवृण- ते संभजते आदित् अनन्तरमेव अनन्तरमेव तथा पपृचानासः हविषा स्तुत्याचसंपृचानाऋत्विजोय- जमानाः पृचेश्छान्दसस्यलिटः कानच् ऋंजतेप्रसाधयन्ति किमिव भगमिव तंयथाजनाः प्रसाधयन्ति तद्वत् यद्वा महान्तं राजानमिव सूर्यदीप्तिवत्पूज्यमित्यर्थः ऋंजतिःप्रसाधनकर्मेतियास्कः । यद्यस्माद- यमग्निः पुरुष्टुतः बहुभिर्बहुधावास्तूयमानः क्रत्वाक्रतुनाकर्मणायागादिरूपेण मज्मनाशारीरेण बलेन- चयुक्तान्देवान् व्यवहर्तॄन् ऋत्विजः यज्ञभुजोदेवान्वाक्रत्वामज्मनाचयोजयितुं तथामर्तं यजमानंशंसं स्तुतिंच स्तुत्यंवातं विशधाविशधनः यद्वा विशात्मकोयंवेति पूर्वोक्तान्कामयते किमर्थं धायसे हवि- र्लक्षणान्नाय तस्मात् होतारमग्निंवृणते ऋंजतेच ॥ ६ ॥

1.141.7
वि यदस्था᳚द्यज॒तो वात᳚चोदितो ह्वा॒रो न वक्वा᳚ ज॒रणा॒ अना᳚कृतः ।
तस्य॒ पत्म᳚न्द॒क्षुषः᳚ कृ॒ष्णजं᳚हस॒ः शुचि᳚जन्मनो॒ रज॒ आ व्य᳚ध्वनः ॥
▶ पदपाठः (Word-by-word)
वि । यत् । अस्था᳚त् । य॒ज॒तः । वात᳚॑चोदितः । ह्वा॒रः । न । वक्वा᳚ । ज॒रणाः᳚ । अना᳚कृतः ।
तस्य᳚ । पत्म᳚न् । ध॒क्षुषः᳚ । कृ॒ष्ण॑जं᳚हसः । शुचि᳚॑जन्मनः । रजः᳚ । आ । वि॑अ᳚ध्वनः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत् यदायमग्निर्वातचोदितः वायुनाप्रेरितः तृतीयाकर्मणीतिपूर्वपदप्रकृतिस्वरत्वं यजतः सर्वैर्य- ष्टव्यः यष्टुंयोग्यःसन् व्यस्थात् वितिष्ठते सर्वतोव्याप्तोभवति तत्रदृष्टान्तः—अनाकृतःअनिवारितः अ- प्रतिहतः प्रसरः वक्वा बहुवक्ता वचेरन्येभ्योपिदृश्यन्तइतिवनिप् दृशिग्रहणात्कुत्वं ह्वारोनकुटिलइव विदूषकादिरिव ह्वरतेर्ण्यन्तात्पचाद्यच् सयथाजरणाः स्तुतीर्वितिष्ठते विविधंकुर्वन्वर्तते तद्वदयम- प्यनाकृतः प्रतिबद्धप्रसरोव्यवस्थितः तदा तस्याग्नेः पत्मन् पतने मार्गेयज्ञरूपे रजोरंजनात्मकोलोक- आस्थात् आतिष्ठति सर्वतआश्रयति अग्नौबहुधायजतीत्यर्थः कीदृशस्य तस्यधक्षुषःदहतः दहेर्लिटःक्वसुः कृष्णजंहसः कृष्णमार्गस्य पुनःपुनर्गम्यतइतिजंहामार्गः हंतेर्यङ्लुगन्तात्कर्मण्यसुन् कुत्वाभावश्छान्द- सः शुचिजन्मनः मन्त्रसहितारण्योरुत्पन्नत्वात् व्यध्वनः विविधज्वालस्य अनियतमार्गस्य ॥ ७ ॥

1.141.8
रथो॒ न या॒तः शिक्व᳚भिः कृ॒तो द्यामङ्गे᳚भिररु॒षेभि᳚रीयते ।
आद᳚स्य॒ ते कृ॒ष्णासो᳚ दक्षि सू॒रय॒ः शूर᳚स्येव त्वे॒षथा᳚दीषते॒ वयः᳚ ॥
▶ पदपाठः (Word-by-word)
रथः᳚ । न । या॒तः । शिक्व᳚॑भिः । कृ॒तः । द्याम् । अङ्गे᳚भिः । अ॒रु॒षेभिः᳚ । ई॒य॒ते॒ ।
आत् । अ॒स्य॒ । ते । कृ॒ष्णासः᳚ । ध॒क्षि॒ । सू॒रयः᳚ । शूर᳚स्य॑इव । त्वे॒षथा᳚त् । ई॒ष॒ते॒ । वयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः शिक्वभीरज्जुभिः कृतः बद्धोरथोन रथइव सयथा स्वीयैश्चक्रादिभिरङ्गैरीयते तद्वत् यातःस्थापितःसन् अरुषेभिर्गमनशीलैरंगेभिः ज्वालादिरूपैरवयवैर्द्यामन्तरिक्षं आज्येन हृष्टःसन् ईयते गच्छति ईङ्गतौ आत् प्रवृद्भ्यनन्तरं अस्याग्नेस्तेसूरयः सरणयो मार्गाः कृष्णासः कृष्णवर्णा- भवन्ति यतएवंभवन्ति तदर्थं धक्षि दहतिकाष्ठान् पुरुषव्यत्ययः छान्दसः शपोलुक् किंच ज्वलित- स्याग्नेः त्वेषथात् दीप्तात्तेजसःसकाशात् वयः गमनवन्तः पक्षिमृगादयः ईषते गच्छन्ति ईषगत्यादौ बहुलंछन्दसीतिशपोलुक् पलायन्ते तत्रदृष्टान्तः—शूरस्यत्वेषथाद्वयइव कस्यचिद्विक्रान्तस्य दीप्ता- त्तेजसःसकाशात् भीत्यापलायमानाइव एवमन्तरिक्षंस्पृशन् सर्वतोदहतीति सर्वदादावाग्निरूपेण- स्तूयते ॥ ८ ॥

1.141.9
त्वया॒ ह्य᳚ग्ने॒ वरु᳚णो धृ॒तव्र᳚तो मि॒त्रः शा᳚श॒द्रे अ᳚र्य॒मा सु॒दान᳚वः ।
यत्सी॒मनु॒ क्रतु᳚ना वि॒श्वथा᳚ वि॒भुर॒रान्न ने॒मिः प᳚रि॒भूरजा᳚यथाः ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । हि । अ॒ग्ने॒ । वरु᳚णः । धृ॒त॑व्र᳚तः । मि॒त्रः । शा॒श॒द्रे । अ॒र्य॒मा । सु॒॑दान᳚वः ।
यत् । सी॒म् । अनु᳚ । क्रतु᳚ना । वि॒श्व॑था᳚ । वि॒॑भुः । अ॒रान् । न । ने॒मिः । प॒रि॒॑भूः । अजा᳚यथाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वयाखलु वरुणोरात्र्यभिमानीदेवोधृतव्रतःस्वीकृतवर्षणादिकर्माभवति तथामित्रोहरभि- मानीदेवः शाशद्रेशातयतितमः शदॣशातने छान्दसोलिङ् बहुलंछन्दसीतिरुट् तुजादित्वादभ्यासदीर्घः तथार्यमाउभयोर्मध्यवर्तीदेवः सुदानवःशोभनदानोभवति व्यत्ययेनबहुवचनं यद्वा एतेवरुणादयः सु- दानवःशोभनदानाः स्वस्वकार्यकर्तारः त्वयाहि शाशद्रे तीक्ष्णीक्रियन्ते हिशब्दोमन्त्रान्तरप्रसिद्धिद्यो- तनार्थः त्वमग्नेवरुणोजायसइतिहिमन्त्रान्तरम् । शदेःकर्मणिछान्दसोलिट् इरयोरेइतिरेभावः हिचेति- निघाताभावः वरुणादीनामग्न्यायत्तत्वेउपपत्तिमाह—यद्यस्मात्कारणात् हेअग्ने सीं सर्वतः क्रतुना- कर्मणाविश्वथाविश्वइवविश्वात्मकइवविभुः मित्रार्यमात्मनासर्वव्यापीपरिभूःस्वतेजसासर्वतःपरिभा- वितासन् अनुअनुक्रमेणअजायथाः जायसेप्रादुर्भवसि तत्रदृष्टान्तः—अरान् रथस्यचक्रान् नेमिर्न बा- ह्यवलयइव सयथाव्याप्यतिष्ठति तद्वदयमग्निर्वरुणादीन् व्याप्यतिष्ठति ॥ ९ ॥

1.141.10
त्वम᳚ग्ने शशमा॒नाय᳚ सुन्व॒ते रत्नं᳚ यविष्ठ दे॒वता᳚तिमिन्वसि ।
तं त्वा॒ नु नव्यं᳚ सहसो युवन्व॒यं भगं॒ न का॒रे म᳚हिरत्न धीमहि ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । श॒श॒मा॒नाय᳚ । सु॒न्व॒ते । रत्न᳚म् । य॒वि॒ष्ठ॒ । दे॒व॑ता᳚तिम् । इ॒न्व॒सि॒ ।
त्वम् । त्वा॒ । नु । नव्य᳚म् । स॒ह॒सः॒ । यु॒व॒न् । व॒यम् । भग᳚म् । न । का॒रे । म॒हि॒॑र॒त्न॒ । धी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्नेयविष्ठ युवतम त्वं शशमानायत्वां स्तुवते शशमानःशंसमानइतियास्कः । सुन्वते तदर्थम- भिषवंकुर्वते यजमानाय तद्यागार्थं रत्नंरमणीयंहविः देवतातिं देवेषुतायमानं विस्तार्यमाणं इन्वसि- व्याप्नोषि अस्मत्प्रत्तंहविः देवान्प्रापयसीत्यर्थः इन्वतिर्व्याप्तिकर्मा इन्वतिनक्षतीति तन्नामसुपाठात् हेसहसोयुवन् युवशब्देनोत्पत्तिर्लक्षते मथनकालेबलेनोत्पन्नबलस्यमिश्रयितः वा यद्वा सहसस्पुत्र युवन् नित्यतरुण महिरत्न अस्मत्प्रदेयमहद्रमणीयधन नव्यं नवतरं स्तुत्यंवा तंतादृशं हविर्भुजं त्वा- त्वां वयं यजमानाः कारेशब्देस्तोत्रलक्षणे नुक्षिप्रंधीमहि स्थापयामः हविःप्रदानसमये क्षिप्रमेवस्तु- मइत्यर्थः तत्रदृष्टान्तः—भगंन आदित्यमिव यद्वा महान्तं राजानमिव तंयथास्तुवन्तितद्वत् ॥ १० ॥

1.141.11
अ॒स्मे र॒यिं न स्वर्थं॒ दमू᳚नसं॒ भगं॒ दक्षं॒ न प᳚पृचासि धर्ण॒सिम् ।
र॒श्मी{4}रि᳚व॒ यो यम᳚ति॒ जन्म᳚नी उ॒भे दे॒वानां॒ शंस᳚मृ॒त आ च᳚ सु॒क्रतु᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । र॒यिम् । न । सु॒॑अर्थ᳚म् । दमू᳚नसम् । भग᳚म् । दक्ष᳚म् । न । प॒पृ॒चा॒सि॒ । ध॒र्ण॒सिम् ।
र॒श्मीन्॑इ᳚व । यः । यम᳚ति । जन्म᳚नी॒ इति᳚ । उ॒भे इति᳚ । दे॒वाना᳚म् । शंस᳚म् । ऋ॒ते । आ । च॒ । सु॒॑क्रतुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वंअस्मे अस्मासु स्वर्थं सुष्ठुअरणीयं दमूनसं दमनीयं उपास्यं दमेरूनसिरित्यूनसिप्रत्ययः रयिंन पपृचासि धनंयथासंपृणक्षि तथाभगं सर्वैर्भजनीयं दक्षंन उत्साहवन्तं प्रवृद्धंवाधर्णसिं विद्यादि- धारणकुशलंपुत्रंयथापपृचासि संपृणक्षि उभयमपिददासीत्यर्थः पृचीसंपर्के लेट्याडागमः बहुलंछन्द- सीतिविकरणस्यश्लुः इदानीं परोक्षेणाह—योऽग्निः रश्मींरिव स्वकीयान्रश्मीन्यथायमति नियमयति विस्तारयति तद्वत् सउभेजन्मनी जननाधारभूतावुभौलोकौ यमति नियच्छति तथा सुक्रतुः शोभन- कर्मायं ऋते अस्मदीययज्ञे देवानां देवसंबन्धिनंशंसंस्तवंच आयमति आयच्छति सर्वदाददाति यद्वा पूर्वार्धेपपृचासीत्यपिपरोक्षत्वायप्रथमपुरुषतयायोज्यम् ॥ ११ ॥

1.141.12
उ॒त नः᳚ सु॒द्योत्मा᳚ जी॒राश्वो॒ होता᳚ म॒न्द्रः शृ᳚णवच्च॒न्द्रर᳚थः ।
स नो᳚ नेष॒न्नेष᳚तमै॒रमू᳚रो॒॑ग्निर्वा॒मं सु᳚वि॒तं वस्यो॒ अच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । सु॒॑द्योत्मा᳚ । जी॒र॑अ᳚श्वः । होता᳚ । म॒न्द्रः । शृ॒ण॒व॒त् । च॒न्द्र॑र᳚थः ।
सः । नः॒ । ने॒ष॒त् । नेष᳚॑तमैः । अमू᳚रः । अ॒ग्निः । वा॒मम् । सु॒॑वि॒तम् । वस्यः᳚ । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतशब्दोप्यर्थः सचसंभावनायां सोऽग्निः नोऽस्मदीयमाह्वानंउतशृणवत् अपिनामश्रृणुयात् यद्वा नोऽस्मान् श्रावयेत् देवेषुमध्येप्रख्यापयेत् श्रृणोतेर्लेट्यडागमः कीदृशोऽयं सुद्योत्मा सुद्योतमानः द्युत- दीप्तौ अन्येभ्योऽपिदृश्यन्तइतिमनिन् जीराश्वः शीघ्रगमनाश्वः होतादेवानामाह्वाता मन्द्रः मदनशी- लः चन्द्ररथः सुवर्णमयरथोपेतः किंचायं अमूरःअमूढवलः वस्यः वसनीयः सप्रसिद्धोऽग्निर्नेषतमैः अ- त्यर्थंनेतृभिःकर्मभिःस्तोत्रैर्वानोऽस्मान् उतनेषत् अपिनामनयेत् यज्ञस्थपारंप्रापयेत् नयतेर्लेट्यडागमः सिब्बहुलमितिसिप् किमर्थं वामंननीयं सुवितं सुष्ठुप्राप्यं सर्वैःकांक्षणीयं स्वर्गंअच्छआभिमुख्येनप्राप्तुं- नेषत् ॥ १२ ॥

1.141.13
अस्ता᳚व्य॒ग्निः शिमी᳚वद्भिर॒र्कैः साम्रा᳚ज्याय प्रत॒रं दधा᳚नः ।
अ॒मी च॒ ये म॒घवा᳚नो व॒यं च॒ मिहं॒ न सूरो॒ अति॒ निष्ट᳚तन्युः ॥
▶ पदपाठः (Word-by-word)
अस्ता᳚वि । अ॒ग्निः । शिमी᳚वत्॑भिः । अ॒र्कैः । साम्रा᳚ज्याय । प्र॒॑त॒रम् । दधा᳚नः ।
अ॒मी इति᳚ । च॒ । ये । म॒घ॑वा᳚नः । व॒यम् । च॒ । मिह᳚म् । न । सूरः᳚ । अति᳚ । निः । त॒त॒न्युः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः शिमीवद्भिः हविःप्रदानादिकर्मवद्भिरर्कैरर्चनसाधनैर्मन्त्रैः अस्तावि स्तुतोस्माभिर्यज- मानैः शिमीतिकर्मनाम शिमीशक्तिरितितन्नामसुपाठात् कीदृशोयं साम्राज्याय साम्राज्यस्येतिकर्म- णिषष्ठीस्थानेचतुर्थी सम्यग्राजमानत्वं प्रतरंप्रकृष्टतरं अत्यर्थंदधानः अमुचच्छन्दसीत्यमुप्रत्ययः किंचे- ममग्निंअमीचपुरोवर्तमानाऋत्विजः पुत्रादयोवा येवयंचपूर्वंरतोतृत्वेन प्रसिद्धावयमपि अतिअत्यर्थं निष्टतन्युः शब्दयन्तु निष्पूर्वस्तनतिःशब्दकर्मा इतःपरमप्यस्मत् पुत्रपौत्रादयोवयंचाग्निंस्तुमइत्यर्थः तत्रदृष्टान्तः—मिहंनसूरः मिहं मेहनशीलं मेघं यथासूरः सूर्योवृष्ट्यर्थं शब्दयति तद्वत् लिङिछान्दसो- विकरणस्यश्लुः अभिनिसस्तनःशाब्दसंज्ञायामितिषत्वम् ॥ १३ ॥

समिद्धइतित्रयोदशर्चंतृतीयंसूक्तम् आनुष्टुभं प्रथमायाःसमिन्नामकोऽग्निर्देवता समिद्धोग्निः द्विती- यादीनांतनूनपान्नराशंसइलोबर्हिर्देवीर्द्वारउषासानक्तादैव्यौहोतारौप्रचेतसौतिस्रोदेव्यः सरस्वतीला- भारत्यःत्वष्टावनस्पतिः स्वाहाकृतिरित्येताः क्रमेणदेवताः अंत्यायाइन्द्रः तिस्रोदेव्यइत्यस्यविवरणं- सरस्वतीलाभारत्यइति अत्रानुक्रमणिका—समिद्धआनुष्टुभमन्त्यैन्द्रीति अत्रेध्मतनूनपादादिभिर्यज्ञा- वयववाचिभिर्यज्ञएवोच्यते अतः सएवदेवतेतिकात्थक्यस्यमतं अग्निरेवसमिदादिभिरुच्यते अतःसए- वदेवतेतिशाकपूणेर्मतं निरुक्तेकिंदेवताःप्रयाजानुयाजाइति छन्दोदेवताइत्यादिपक्षान्तरंबहुधाप्रदर्श्य तदर्थेब्राह्मणादिचोदाहृत्यइतरेपक्षाअर्थवादाः आग्नेयाएवेतिसिद्धान्तितम् । अथकिंदेवताःप्रयाजानुया- जाइत्यादिनापशावंगिरोगोत्रोत्पन्नानांएतदाप्रीसूक्तं एकादशप्रयाजाइतिखण्डेसूत्रितम्—समिद्धोअ- द्येति सर्वेषांयथरृषिवेत्यत्रयथरृषिग्रहणात् आप्रीसूक्तानित्रिविधानि तत्रवासिष्ठात्रेयवाध्र्यश्वगार्त्सम- दानिचत्वारिनराशंसवन्ति मैधातिथंदैर्घतमसंप्रैषिकानिनराशंसतनूनपादुभयवन्ति इतराणितनून- पात्वंतीति तत्रैतत्सूक्तंदैर्घतमसत्वात् उभयवत् ।