आदिद्धोता᳚रं वृणते॒ दिवि᳚ष्टिषु॒ भग᳚मिव पपृचा॒नास᳚ ऋञ्जते ।
दे॒वान्यत्क्रत्वा᳚ म॒ज्मना᳚ पुरुष्टु॒तो मर्तं॒ शंसं᳚ वि॒श्वधा॒ वेति॒ धाय᳚से ॥
दे॒वान्यत्क्रत्वा᳚ म॒ज्मना᳚ पुरुष्टु॒तो मर्तं॒ शंसं᳚ वि॒श्वधा॒ वेति॒ धाय᳚से ॥
पदपाठः (Word-by-word)
आत् । इत् । होता᳚रम् । वृ॒ण॒ते॒ । दिवि᳚ष्टिषु । भग᳚म्॑इव । प॒पृ॒चा॒नासः᳚ । ऋ॒ञ्ज॒ते॒ ।
दे॒वान् । यत् । क्रत्वा᳚ । म॒ज्मना᳚ । पु॒रु॒॑स्तु॒तः । मर्त᳚म् । शंस᳚म् । वि॒श्वधा᳚ । वेति᳚ । धाय᳚से ॥
दे॒वान् । यत् । क्रत्वा᳚ । म॒ज्मना᳚ । पु॒रु॒॑स्तु॒तः । मर्त᳚म् । शंस᳚म् । वि॒श्वधा᳚ । वेति᳚ । धाय᳚से ॥
सायणभाष्यम् (Sayana Commentary)
होतारं होप्मनिष्पादकं आह्वातारंवादेवानां ईदृशमग्निंदिविष्टिषु दिवएषणेषुनिमित्तभूतेषुवृण- ते संभजते आदित् अनन्तरमेव अनन्तरमेव तथा पपृचानासः हविषा स्तुत्याचसंपृचानाऋत्विजोय- जमानाः पृचेश्छान्दसस्यलिटः कानच् ऋंजतेप्रसाधयन्ति किमिव भगमिव तंयथाजनाः प्रसाधयन्ति तद्वत् यद्वा महान्तं राजानमिव सूर्यदीप्तिवत्पूज्यमित्यर्थः ऋंजतिःप्रसाधनकर्मेतियास्कः । यद्यस्माद- यमग्निः पुरुष्टुतः बहुभिर्बहुधावास्तूयमानः क्रत्वाक्रतुनाकर्मणायागादिरूपेण मज्मनाशारीरेण बलेन- चयुक्तान्देवान् व्यवहर्तॄन् ऋत्विजः यज्ञभुजोदेवान्वाक्रत्वामज्मनाचयोजयितुं तथामर्तं यजमानंशंसं स्तुतिंच स्तुत्यंवातं विशधाविशधनः यद्वा विशात्मकोयंवेति पूर्वोक्तान्कामयते किमर्थं धायसे हवि- र्लक्षणान्नाय तस्मात् होतारमग्निंवृणते ऋंजतेच ॥ ६ ॥