श्रवणम्

1.141.12
उ॒त नः᳚ सु॒द्योत्मा᳚ जी॒राश्वो॒ होता᳚ म॒न्द्रः शृ᳚णवच्च॒न्द्रर᳚थः ।
स नो᳚ नेष॒न्नेष᳚तमै॒रमू᳚रो॒॑ग्निर्वा॒मं सु᳚वि॒तं वस्यो॒ अच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । सु॒॑द्योत्मा᳚ । जी॒र॑अ᳚श्वः । होता᳚ । म॒न्द्रः । शृ॒ण॒व॒त् । च॒न्द्र॑र᳚थः ।
सः । नः॒ । ने॒ष॒त् । नेष᳚॑तमैः । अमू᳚रः । अ॒ग्निः । वा॒मम् । सु॒॑वि॒तम् । वस्यः᳚ । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतशब्दोप्यर्थः सचसंभावनायां सोऽग्निः नोऽस्मदीयमाह्वानंउतशृणवत् अपिनामश्रृणुयात् यद्वा नोऽस्मान् श्रावयेत् देवेषुमध्येप्रख्यापयेत् श्रृणोतेर्लेट्यडागमः कीदृशोऽयं सुद्योत्मा सुद्योतमानः द्युत- दीप्तौ अन्येभ्योऽपिदृश्यन्तइतिमनिन् जीराश्वः शीघ्रगमनाश्वः होतादेवानामाह्वाता मन्द्रः मदनशी- लः चन्द्ररथः सुवर्णमयरथोपेतः किंचायं अमूरःअमूढवलः वस्यः वसनीयः सप्रसिद्धोऽग्निर्नेषतमैः अ- त्यर्थंनेतृभिःकर्मभिःस्तोत्रैर्वानोऽस्मान् उतनेषत् अपिनामनयेत् यज्ञस्थपारंप्रापयेत् नयतेर्लेट्यडागमः सिब्बहुलमितिसिप् किमर्थं वामंननीयं सुवितं सुष्ठुप्राप्यं सर्वैःकांक्षणीयं स्वर्गंअच्छआभिमुख्येनप्राप्तुं- नेषत् ॥ १२ ॥