श्रवणम्

1.141.10
त्वम᳚ग्ने शशमा॒नाय᳚ सुन्व॒ते रत्नं᳚ यविष्ठ दे॒वता᳚तिमिन्वसि ।
तं त्वा॒ नु नव्यं᳚ सहसो युवन्व॒यं भगं॒ न का॒रे म᳚हिरत्न धीमहि ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । श॒श॒मा॒नाय᳚ । सु॒न्व॒ते । रत्न᳚म् । य॒वि॒ष्ठ॒ । दे॒व॑ता᳚तिम् । इ॒न्व॒सि॒ ।
त्वम् । त्वा॒ । नु । नव्य᳚म् । स॒ह॒सः॒ । यु॒व॒न् । व॒यम् । भग᳚म् । न । का॒रे । म॒हि॒॑र॒त्न॒ । धी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्नेयविष्ठ युवतम त्वं शशमानायत्वां स्तुवते शशमानःशंसमानइतियास्कः । सुन्वते तदर्थम- भिषवंकुर्वते यजमानाय तद्यागार्थं रत्नंरमणीयंहविः देवतातिं देवेषुतायमानं विस्तार्यमाणं इन्वसि- व्याप्नोषि अस्मत्प्रत्तंहविः देवान्प्रापयसीत्यर्थः इन्वतिर्व्याप्तिकर्मा इन्वतिनक्षतीति तन्नामसुपाठात् हेसहसोयुवन् युवशब्देनोत्पत्तिर्लक्षते मथनकालेबलेनोत्पन्नबलस्यमिश्रयितः वा यद्वा सहसस्पुत्र युवन् नित्यतरुण महिरत्न अस्मत्प्रदेयमहद्रमणीयधन नव्यं नवतरं स्तुत्यंवा तंतादृशं हविर्भुजं त्वा- त्वां वयं यजमानाः कारेशब्देस्तोत्रलक्षणे नुक्षिप्रंधीमहि स्थापयामः हविःप्रदानसमये क्षिप्रमेवस्तु- मइत्यर्थः तत्रदृष्टान्तः—भगंन आदित्यमिव यद्वा महान्तं राजानमिव तंयथास्तुवन्तितद्वत् ॥ १० ॥