अ॒मी च॒ ये म॒घवा᳚नो व॒यं च॒ मिहं॒ न सूरो॒ अति॒ निष्ट᳚तन्युः ॥
पदपाठः (Word-by-word)
अ॒मी इति᳚ । च॒ । ये । म॒घ॑वा᳚नः । व॒यम् । च॒ । मिह᳚म् । न । सूरः᳚ । अति᳚ । निः । त॒त॒न्युः॒ ॥
सायणभाष्यम् (Sayana Commentary)
अयमग्निः शिमीवद्भिः हविःप्रदानादिकर्मवद्भिरर्कैरर्चनसाधनैर्मन्त्रैः अस्तावि स्तुतोस्माभिर्यज- मानैः शिमीतिकर्मनाम शिमीशक्तिरितितन्नामसुपाठात् कीदृशोयं साम्राज्याय साम्राज्यस्येतिकर्म- णिषष्ठीस्थानेचतुर्थी सम्यग्राजमानत्वं प्रतरंप्रकृष्टतरं अत्यर्थंदधानः अमुचच्छन्दसीत्यमुप्रत्ययः किंचे- ममग्निंअमीचपुरोवर्तमानाऋत्विजः पुत्रादयोवा येवयंचपूर्वंरतोतृत्वेन प्रसिद्धावयमपि अतिअत्यर्थं निष्टतन्युः शब्दयन्तु निष्पूर्वस्तनतिःशब्दकर्मा इतःपरमप्यस्मत् पुत्रपौत्रादयोवयंचाग्निंस्तुमइत्यर्थः तत्रदृष्टान्तः—मिहंनसूरः मिहं मेहनशीलं मेघं यथासूरः सूर्योवृष्ट्यर्थं शब्दयति तद्वत् लिङिछान्दसो- विकरणस्यश्लुः अभिनिसस्तनःशाब्दसंज्ञायामितिषत्वम् ॥ १३ ॥
समिद्धइतित्रयोदशर्चंतृतीयंसूक्तम् आनुष्टुभं प्रथमायाःसमिन्नामकोऽग्निर्देवता समिद्धोग्निः द्विती- यादीनांतनूनपान्नराशंसइलोबर्हिर्देवीर्द्वारउषासानक्तादैव्यौहोतारौप्रचेतसौतिस्रोदेव्यः सरस्वतीला- भारत्यःत्वष्टावनस्पतिः स्वाहाकृतिरित्येताः क्रमेणदेवताः अंत्यायाइन्द्रः तिस्रोदेव्यइत्यस्यविवरणं- सरस्वतीलाभारत्यइति अत्रानुक्रमणिका—समिद्धआनुष्टुभमन्त्यैन्द्रीति अत्रेध्मतनूनपादादिभिर्यज्ञा- वयववाचिभिर्यज्ञएवोच्यते अतः सएवदेवतेतिकात्थक्यस्यमतं अग्निरेवसमिदादिभिरुच्यते अतःसए- वदेवतेतिशाकपूणेर्मतं निरुक्तेकिंदेवताःप्रयाजानुयाजाइति छन्दोदेवताइत्यादिपक्षान्तरंबहुधाप्रदर्श्य तदर्थेब्राह्मणादिचोदाहृत्यइतरेपक्षाअर्थवादाः आग्नेयाएवेतिसिद्धान्तितम् । अथकिंदेवताःप्रयाजानुया- जाइत्यादिनापशावंगिरोगोत्रोत्पन्नानांएतदाप्रीसूक्तं एकादशप्रयाजाइतिखण्डेसूत्रितम्—समिद्धोअ- द्येति सर्वेषांयथरृषिवेत्यत्रयथरृषिग्रहणात् आप्रीसूक्तानित्रिविधानि तत्रवासिष्ठात्रेयवाध्र्यश्वगार्त्सम- दानिचत्वारिनराशंसवन्ति मैधातिथंदैर्घतमसंप्रैषिकानिनराशंसतनूनपादुभयवन्ति इतराणितनून- पात्वंतीति तत्रैतत्सूक्तंदैर्घतमसत्वात् उभयवत् ।