तस्य॒ पत्म᳚न्द॒क्षुषः᳚ कृ॒ष्णजं᳚हस॒ः शुचि᳚जन्मनो॒ रज॒ आ व्य᳚ध्वनः ॥
पदपाठः (Word-by-word)
तस्य᳚ । पत्म᳚न् । ध॒क्षुषः᳚ । कृ॒ष्ण॑जं᳚हसः । शुचि᳚॑जन्मनः । रजः᳚ । आ । वि॑अ᳚ध्वनः ॥
सायणभाष्यम् (Sayana Commentary)
यत् यदायमग्निर्वातचोदितः वायुनाप्रेरितः तृतीयाकर्मणीतिपूर्वपदप्रकृतिस्वरत्वं यजतः सर्वैर्य- ष्टव्यः यष्टुंयोग्यःसन् व्यस्थात् वितिष्ठते सर्वतोव्याप्तोभवति तत्रदृष्टान्तः—अनाकृतःअनिवारितः अ- प्रतिहतः प्रसरः वक्वा बहुवक्ता वचेरन्येभ्योपिदृश्यन्तइतिवनिप् दृशिग्रहणात्कुत्वं ह्वारोनकुटिलइव विदूषकादिरिव ह्वरतेर्ण्यन्तात्पचाद्यच् सयथाजरणाः स्तुतीर्वितिष्ठते विविधंकुर्वन्वर्तते तद्वदयम- प्यनाकृतः प्रतिबद्धप्रसरोव्यवस्थितः तदा तस्याग्नेः पत्मन् पतने मार्गेयज्ञरूपे रजोरंजनात्मकोलोक- आस्थात् आतिष्ठति सर्वतआश्रयति अग्नौबहुधायजतीत्यर्थः कीदृशस्य तस्यधक्षुषःदहतः दहेर्लिटःक्वसुः कृष्णजंहसः कृष्णमार्गस्य पुनःपुनर्गम्यतइतिजंहामार्गः हंतेर्यङ्लुगन्तात्कर्मण्यसुन् कुत्वाभावश्छान्द- सः शुचिजन्मनः मन्त्रसहितारण्योरुत्पन्नत्वात् व्यध्वनः विविधज्वालस्य अनियतमार्गस्य ॥ ७ ॥