रथो॒ न या॒तः शिक्व᳚भिः कृ॒तो द्यामङ्गे᳚भिररु॒षेभि᳚रीयते ।
आद᳚स्य॒ ते कृ॒ष्णासो᳚ दक्षि सू॒रय॒ः शूर᳚स्येव त्वे॒षथा᳚दीषते॒ वयः᳚ ॥
आद᳚स्य॒ ते कृ॒ष्णासो᳚ दक्षि सू॒रय॒ः शूर᳚स्येव त्वे॒षथा᳚दीषते॒ वयः᳚ ॥
पदपाठः (Word-by-word)
रथः᳚ । न । या॒तः । शिक्व᳚॑भिः । कृ॒तः । द्याम् । अङ्गे᳚भिः । अ॒रु॒षेभिः᳚ । ई॒य॒ते॒ ।
आत् । अ॒स्य॒ । ते । कृ॒ष्णासः᳚ । ध॒क्षि॒ । सू॒रयः᳚ । शूर᳚स्य॑इव । त्वे॒षथा᳚त् । ई॒ष॒ते॒ । वयः᳚ ॥
आत् । अ॒स्य॒ । ते । कृ॒ष्णासः᳚ । ध॒क्षि॒ । सू॒रयः᳚ । शूर᳚स्य॑इव । त्वे॒षथा᳚त् । ई॒ष॒ते॒ । वयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अयमग्निः शिक्वभीरज्जुभिः कृतः बद्धोरथोन रथइव सयथा स्वीयैश्चक्रादिभिरङ्गैरीयते तद्वत् यातःस्थापितःसन् अरुषेभिर्गमनशीलैरंगेभिः ज्वालादिरूपैरवयवैर्द्यामन्तरिक्षं आज्येन हृष्टःसन् ईयते गच्छति ईङ्गतौ आत् प्रवृद्भ्यनन्तरं अस्याग्नेस्तेसूरयः सरणयो मार्गाः कृष्णासः कृष्णवर्णा- भवन्ति यतएवंभवन्ति तदर्थं धक्षि दहतिकाष्ठान् पुरुषव्यत्ययः छान्दसः शपोलुक् किंच ज्वलित- स्याग्नेः त्वेषथात् दीप्तात्तेजसःसकाशात् वयः गमनवन्तः पक्षिमृगादयः ईषते गच्छन्ति ईषगत्यादौ बहुलंछन्दसीतिशपोलुक् पलायन्ते तत्रदृष्टान्तः—शूरस्यत्वेषथाद्वयइव कस्यचिद्विक्रान्तस्य दीप्ता- त्तेजसःसकाशात् भीत्यापलायमानाइव एवमन्तरिक्षंस्पृशन् सर्वतोदहतीति सर्वदादावाग्निरूपेण- स्तूयते ॥ ८ ॥