कया᳚ म॒ती कुत॒ एता᳚स ए॒ते॑र्च᳚न्ति॒ शुष्मं॒ वृष᳚णो वसू॒या ॥
पदपाठः (Word-by-word)
कया᳚ । म॒ती । कुतः᳚ । आ॑इ᳚तासः । ए॒ते । अर्च᳚न्ति । शुष्म᳚म् । वृष᳚णः । व॒सु॒॑या ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रवाक्यं सवयसः समानवयस्काः सनीलाः समानस्थानाएतेमरुतः कयाशुभकैरपि दुर्ज्ञेययाशो- भयासमान्या सर्वेषामेकरूपयामहत्ययुक्ताः यद्वा शुबित्युदकनाम उक्तरूपयाशुभा उदकेनसंमिमिक्षुः लोकंसम्यक् सिञ्चन्ति मिहिसमानार्थोमिमिक्षतिधातुः यद्वा मांयुद्धादिषु प्रवर्तमानं संमिमिक्षुः तदर्थं एतेमरुतः कयाअनिश्चेयया मती मत्या कुतोदेशादेतासः आगताः आगत्यच एतेवृषणोवर्षितारोवसू- या वसूयया सुपांसुलुगितिपूर्वसवर्णदीर्घः धनेच्छया यद्वा वसवोवास्यितारोवा तेनैवजसोयजादेशः शुष्मं बलं वृष्टिप्रदानजनितं लोकेअर्चन्ति पूजयंति जग्तिकुर्वन्ति यद्वा ममबलंवर्धयन्तीत्यर्थः मरुतो- हैनंनाजहुरितिश्रुतेः अत्रेन्द्रमरुत्संवादरूपं सर्वत्रप्राणजीवात्मपरतयापियोजनीयम् । अत्रद्वितीयया- पीन्द्रोब्रूते ॥ १ ॥