अनु᳚त्त॒मा ते᳚ मघव॒न्नकि॒र्नु न त्वावा{4}᳚ अस्ति दे॒वता॒ विदा᳚नः ।
न जाय᳚मानो॒ नश᳚ते॒ न जा॒तो यानि᳚ करि॒ष्या कृ᳚णु॒हि प्र᳚वृद्ध ॥
न जाय᳚मानो॒ नश᳚ते॒ न जा॒तो यानि᳚ करि॒ष्या कृ᳚णु॒हि प्र᳚वृद्ध ॥
पदपाठः (Word-by-word)
अनु᳚त्तम् । आ । ते॒ । म॒घ॒॑व॒न् । नकिः᳚ । नु । न । त्वा॑वा᳚न् । अ॒स्ति॒ । दे॒वता᳚ । विदा᳚नः ।
न । जाय᳚मानः । नश᳚ते । न । जा॒तः । यानि᳚ । क॒रि॒ष्या । कृ॒णु॒हि । प्र॒॑वृ॒द्ध॒ ॥
न । जाय᳚मानः । नश᳚ते । न । जा॒तः । यानि᳚ । क॒रि॒ष्या । कृ॒णु॒हि । प्र॒॑वृ॒द्ध॒ ॥
सायणभाष्यम् (Sayana Commentary)
इदानींतेमरुतोहर्षेण प्रत्याहुः आइतिस्मरणे स्मृतवन्तोव्यमिदानीं हेमघवर तेत्वया अनुत्तंअप्रेरि- तं नकिर्नु नैवास्ति नुनिश्चये त्वयायदुक्तं तत्सत्यमित्यर्थः हेदेवत्वावान् त्वत्सद्रुशोविदानः विद्वान् व्यत्ययेनशानच् जयोपायवेदितादेवतादेवोनास्ति किञ्च हेप्रवृद्ध अतिबल जायमानोजातोवाकश्चिद्दे- वोमर्त्योवानास्ति त्वंयानि वृत्रवधादीनिकरिष्या कर्तव्यानि कृणुहि कुरुषे तानि न नशते नव्याप्नोति नशतिर्व्याप्तिकर्मा नान्यस्त्वच्चेष्टितानुकार्येवेत्यर्थः ॥ ९ ॥