को न्वत्र᳚ मरुतो मामहे व॒ः प्र या᳚तन॒ सखी{4}॒रच्छा᳚ सखायः ।
मन्मा᳚नि चित्रा अपिवा॒तय᳚न्त ए॒षां भू᳚त॒ नवे᳚दा म ऋ॒ताना᳚म् ॥
मन्मा᳚नि चित्रा अपिवा॒तय᳚न्त ए॒षां भू᳚त॒ नवे᳚दा म ऋ॒ताना᳚म् ॥
पदपाठः (Word-by-word)
कः । नु । अत्र᳚ । म॒रु॒तः॒ । म॒म॒हे॒ । वः॒ । प्र । या॒त॒न॒ । सखी᳚न् । अच्छ᳚ । स॒खा॒यः॒ ।
मन्मा᳚नि । चि॒त्राः॒ । अ॒पि॒॑वा॒तय᳚न्तः । ए॒षाम् । भू॒त॒ । नवे᳚दाः । मे॒ । ऋ॒ताना᳚म् ॥
मन्मा᳚नि । चि॒त्राः॒ । अ॒पि॒॑वा॒तय᳚न्तः । ए॒षाम् । भू॒त॒ । नवे᳚दाः । मे॒ । ऋ॒ताना᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतोवःयुष्मान् अत्रलोकेकोनुखलुमर्त्यःममहे पूजयति हेसखायः सर्वस्यसखिवत्प्रियकारिणः सन्तः सखीन्हविःप्रदानेन सखिभूतान् यजमानान् अच्छ आभिमुख्येनप्राप्तुं प्रयातन गच्छत हेचित्राः चायनीयाः यूयं मन्मानिमननीयानि धनानि अपि वातयन्तः संपूर्णं प्रापयन्तोभूतभवत किञ्च मे मदीयानां एषां ऋतानां अवितथानांधनानांनवेदाः भूत ज्ञातारोभवत ॥ १३ ॥