श्रवणम्

1.165.15 समानपद
ए॒ष व॒ः स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य᳚ मा॒न्यस्य᳚ का॒रोः ।
एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । वः॒ । स्तोमः᳚ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य᳚ । मा॒न्यस्य᳚ । का॒रोः ।
आ । इ॒षा । या॒सी॒ष्ट॒ । त॒न्वे᳚ । व॒याम् । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः एषः स्तोमः इदानींक्रियमाणप्रकारंस्तोत्रं वोयुष्मदर्थंयुष्मत्प्रीणनायभवत्वित्यर्थः तथेयं- गीः स्तुतिरूपावागपिवोयुष्मदर्थाय यस्मादेवंतस्मान्मांदार्यस्य स्तुतिविशेषैः मन्दयितुः स्तुतिभिर्म- दस्यप्रेरयितुर्वा मान्यस्यवरप्रदानादिनामाननीयस्यकारोः स्तोतुः इषाइच्छया आयासीष्ट आगच्छत किमर्थं तन्वेशरीरायतत्पोषायेत्यर्थः वयां वयमपि इषं अन्नंवृजनं बलंजीरदानुं जयशीलदानं एतत्सर्वं विद्याम युष्मास्वागतेषुयज्ञसंपूर्त्येष्ट्यादिद्वारालभेमहि ॥ १५ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरविदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येण- विरचितेमाधवीयेवेदार्थप्रकाशेऋक्संहिताभाष्येद्वितीयाष्टकेतृतीयोऽध्यायः समाप्तः ॥ ३ ॥