भूरि᳚ चकर्थ॒ युज्ये᳚भिर॒स्मे स᳚मा॒नेभि᳚र्वृषभ॒ पौंस्ये᳚भिः ।
भूरी᳚णि॒ हि कृ॒णवा᳚मा शवि॒ष्ठेन्द्र॒ क्रत्वा᳚ मरुतो॒ यद्वशा᳚म ॥
भूरी᳚णि॒ हि कृ॒णवा᳚मा शवि॒ष्ठेन्द्र॒ क्रत्वा᳚ मरुतो॒ यद्वशा᳚म ॥
पदपाठः (Word-by-word)
भूरि᳚ । च॒क॒र्थ॒ । युज्ये᳚भिः । अ॒स्मे इति᳚ । स॒मा॒नेभिः᳚ । वृ॒ष॒भ॒ । पौंस्ये᳚भिः ।
भूरी᳚णि । हि । कृ॒णवा᳚म । श॒वि॒ष्ठ॒ । इन्द्र᳚ । क्रत्वा᳚ । म॒रु॒तः॒ । यत् । वशा᳚म ॥
भूरी᳚णि । हि । कृ॒णवा᳚म । श॒वि॒ष्ठ॒ । इन्द्र᳚ । क्रत्वा᳚ । म॒रु॒तः॒ । यत् । वशा᳚म ॥
सायणभाष्यम् (Sayana Commentary)
अथैवमुक्तवन्तं इन्द्रंपुनराहुः हेइन्द्र वृषभ वर्षितस्त्वं भूरिचकर्थ प्रभूतं कृतवानसि सत्यमेव तथा- पि अस्मेअस्माकंसमानेभिः समानैः युज्येभिः अस्माभिर्युक्तैः पौंस्येभिः पुंसः कर्मभिः सामर्थ्यैरेवचक- र्थ नत्वंएकएवेत्यर्थः हेशविष्ठ शवइतिबलनाम हेइन्द्र बलवत्तम वयंभूरीणिहित्वत्कृतादपिप्रभूतानि- कर्माणिकृणवाम कृतवन्तःस्म हेइन्द्र क्रत्वाक्रतुनाकर्मणायद्यद्वृष्ट्यादिकंवशाम कामयामहे तानि- त्वत्तोप्यधिकानीत्यर्थः यतोवयंमरुतः छान्दसमनुदात्तत्वं एतेनस्वमहत्त्वंस्थापितंभवति स्वरोव्यस्तः अथवा इन्द्रस्येदंवाक्यं हेमरुतोयद्यस्यैवतत्तस्यैवभवतु तर्ह्यहंचयूयंचसहैवक्रत्वाकर्मणायद्वशाम यद्वृष्टिकर्मकामयामहे तस्मादुदकंसमानमेवेत्यर्थः एवंमरनइतिनिघातस्वरस्यव्याख्यानम् ॥ ७ ॥