श्रवणम्

1.165.8 समानपद
वधीं᳚ वृ॒त्रं म᳚रुत इन्द्रि॒येण॒ स्वेन॒ भामे᳚न तवि॒षो ब᳚भू॒वान् ।
अ॒हमे॒ता मन᳚वे वि॒श्वश्च᳚न्द्राः सु॒गा अ॒पश्च᳚कर॒ वज्र᳚बाहुः ॥
▶ पदपाठः (Word-by-word)
वधी᳚म् । वृ॒त्रम् । म॒रु॒तः॒ । इ॒न्द्रि॒येण᳚ । स्वेन᳚ । भामे᳚न । त॒वि॒षः । ब॒भू॒वान् ।
अ॒हम् । ए॒ताः । मन᳚वे । वि॒श्व॑च᳚न्द्राः । सु॒॑गाः । अ॒पः । च॒क॒र॒ । वज्र᳚॑बाहुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदानीमिन्द्रआह—हेमरुतः अहमिन्द्रः इन्द्रियेणवीर्येणस्वेनभामेनस्वसमानकोपेन तविषोबल- वान्बभूवान् भूतःसंपन्नःसन्वृत्रंवधीं हतवानस्मि कस्मैतदुच्यते—मनवे मनोरथायैताः विश्वश्चन्द्राः सर्वाह्ळादकाः सुगाः सुगमनाः सर्वत्रसस्यादिषुगमनशीलाः अपोवृष्ट्युदकानि चकर चकार कृत- वानस्मि यतोहंवज्रबाहुः अनेनसहायनैरपेक्ष्यमुक्तंभवति ॥ ८ ॥