श्रवणम्

1.165.14
आ यद्दु᳚व॒स्याद्दु॒वसे॒ न का॒रुर॒स्माञ्च॒क्रे मा॒न्यस्य᳚ मे॒धा ।
ओ षु व᳚र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा᳚णि जरि॒ता वो᳚ अर्चत् ॥
▶ पदपाठः (Word-by-word)
आ । यत् । दु॒व॒स्यात् । दु॒वसे᳚ । न । का॒रुः । अ॒स्मान् । च॒क्रे । मा॒न्यस्य᳚ । मे॒धा ।
ओ इति᳚ । सु । व॒र्त्त॒ । म॒रु॒तः॒ । विप्र᳚म् । अच्छ᳚ । इ॒मा । ब्रह्मा᳚णि । ज॒रि॒ता । वः॒ । अ॒र्च॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः यत् दुवस्यात् युष्मत्परिचरणार्हात् स्तोत्रात् तेनस्तोत्रेणदुवसे परिचरणायपर्याप्ता कारुः कर्त्रीस्तुतिकुशलामान्यस्यमाननीयस्यविदुषोमेधाबुद्धिः अस्मान् नेतिसंप्रत्यर्थे इदानींतनानाचक्रे आ- भिमुख्येनकरोति प्राप्नोतीत्यर्थः यद्वा षष्ठीबहुवचनं इदंसूक्तंदुव्स्यानां परिचरणार्हाणां दुव्सेपरिचर- णायेत्यर्थः अतोहेमरुतोयूयंविप्रंमेधाविनंयजमानंमामगस्त्यमच्छ आभिमुख्येनप्राप्तुं सु सुष्ठु ओवर्त ओइतिनिपातद्वयसमुदायरूपएकोनिपातः आङित्याभिमुख्ये उकारोवधारणे आवर्तध्वमेव किमर्थ- मेवमिति उच्यते—इमाब्रह्माणि इमानिपरिवृढानिकर्माण्युद्दिश्य जरितागरिता स्तोतावोयुष्मान् अ- र्चत् अर्चति यस्मादेवंतस्मादावर्तध्वमित्यर्थः ॥ १४ ॥