अतो᳚ व॒यम᳚न्त॒मेभि᳚र्युजा॒नाः स्वक्ष᳚त्रेभिस्त॒न्व१॒᳚ः शुम्भ᳚मानाः ।
महो᳚भि॒रेता{4}॒ उप᳚ युज्महे॒ न्विन्द्र᳚ स्व॒धामनु॒ हि नो᳚ ब॒भूथ᳚ ॥
महो᳚भि॒रेता{4}॒ उप᳚ युज्महे॒ न्विन्द्र᳚ स्व॒धामनु॒ हि नो᳚ ब॒भूथ᳚ ॥
पदपाठः (Word-by-word)
अतः᳚ । व॒यम् । अ॒न्त॒मेभिः᳚ । यु॒जा॒नाः । स्व॑क्ष᳚त्रेभिः । त॒न्वः᳚ । शुम्भ᳚मानाः ।
महः᳚॑भिः । एता᳚न् । उप᳚ । यु॒ज्म॒हे॒ । नु । इन्द्र᳚ । स्व॒धाम् । अनु᳚ । हि । नः॒ । ब॒भूथ᳚ ॥
महः᳚॑भिः । एता᳚न् । उप᳚ । यु॒ज्म॒हे॒ । नु । इन्द्र᳚ । स्व॒धाम् । अनु᳚ । हि । नः॒ । ब॒भूथ᳚ ॥
सायणभाष्यम् (Sayana Commentary)
एवमुक्तामरुतस्तमेवंब्रुवते—हेइन्द्र त्वंयस्मादेवंकरोषि अतःकारणाद्वयमपिअन्तमेभिः अन्ति- कतमैरश्वैर्युजानाः युक्ताः सन्तः कीदृशैः स्वक्षत्रेभिः स्वायत्तबलैः किंच महोभिस्तेजोभिः तन्वःआत्म- शरीराणिशुंभमानाः दीपयन्तः हर्षंप्राप्नुवानाइत्यर्थः यद्वा महोभिः स्वमहत्त्वेनयुक्तावयंएतान् गम्तॄन् नु क्षिप्रमुपयुज्महे तवसाकंहविरादिस्वीकुर्मइत्यर्थः हेइन्द्र त्वमपिनोऽस्मत्संबन्धिस्वधांउदकं बलंवा अनुबभूथहि अस्मत्सृष्टोदकजन्यं हविरनुभवसिखलु हिशब्दः परस्परोपकार्योपकारिभावप्रसिद्धिद्यो- तनार्थः ॥ ५ ॥