श्रवणम्

1.165.12
ए॒वेदे॒ते प्रति᳚ मा॒ रोच᳚माना॒ अने᳚द्य॒ः श्रव॒ एषो॒ दधा᳚नाः ।
सं॒चक्ष्या᳚ मरुतश्च॒न्द्रव᳚र्णा॒ अच्छा᳚न्त मे छ॒दया᳚था च नू॒नम् ॥
▶ पदपाठः (Word-by-word)
ए॒व । इत् । ए॒ते । प्रति᳚ । मा॒ । रोच᳚मानाः । अने᳚द्यः । श्रवः᳚ । आ । इषः᳚ । दधा᳚नाः ।
स॒म्॑चक्ष्य᳚ । म॒रु॒तः॒ । च॒न्द्र॑व᳚र्णाः । अच्छा᳚न्त । मे॒ । छ॒दया᳚थ । च॒ । नू॒नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः एवेत् एवमेव एतेयूयंमामांप्रतिरोचमानाः मद्विषये संप्रीयमाणाः मांख्यापयन्तोवाअने- द्यः अनन्तिकस्थं श्रवः कीर्तिं इषश्च अन्नानिदधानाः आइतिचार्थे यद्वा अनेद्यइतिप्रशस्यनाम प्रशस्यं यशोस्मत्तोदधानाः अस्माभिर्वाधारयमाणाः चन्द्रवर्णाः चन्द्रमितिहिरण्यनाम सुवर्णवर्णाः यूयं मे मां संचक्ष्य सम्यक् प्रकाश्य नूनंनिश्चयं अच्छान्त यशोभिराच्छादितवन्तः छदयाथ आच्छादयथच मांप्र- तिस्र्वदारोचमानाः मय्येवकीर्तिंअन्नंचदधानाः मत्कृतैः कर्मभिः मामेवस्तुतेत्यर्थः ॥ १२ ॥