श्रवणम्

1.165.3 समानपद
कुत॒स्त्वमि᳚न्द्र॒ माहि᳚न॒ः सन्नेको᳚ यासि सत्पते॒ किं त᳚ इ॒त्था ।
सं पृ᳚च्छसे समरा॒णः शु᳚भा॒नैर्वो॒चेस्तन्नो᳚ हरिवो॒ यत्ते᳚ अ॒स्मे ॥
▶ पदपाठः (Word-by-word)
कुतः᳚ । त्वम् । इ॒न्द्र॒ । माहि᳚नः । सन् । एकः᳚ । या॒सि॒ । स॒त्॑प॒ते॒ । किम् । ते॒ । इ॒त्था ।
सम् । पृ॒च्छ॒से॒ । स॒म्॑अ॒रा॒णः । शु॒भा॒नैः । वो॒चेः । तत् । नः॒ । ह॒रि॒॑वः॒ । यत् । ते॒ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्रसत्पते सतांपालक त्वं माहिनोमहनीयः पूजनीयः अनुचरैरनुगन्तव्यइत्यर्थः तथाभूतः सन्न- पि एकोऽसहायः सन् कुतोयासि कुतःकारणाद्यासि यद्वा कुत्रयासि तेतव इत्थाइत्थं किंत्वं एवमेव- किंनकोऽप्यनुचरोऽस्ति किंच त्वंसमराणः अस्माभिः संगच्छमानः संपृच्छसे समीचीनंपृच्छसि हेह- रिवः हरिभ्यांतद्वन्निन्द्र तेतव अस्मे अस्मासु यद्वक्तुमिष्टतममस्तितन्नोस्मभ्यं शुभानैः शोभमानैर्वचनैः वोचेः ब्रूहि ॥ ३ ॥