क्व१॒᳚ स्या वो᳚ मरुतः स्व॒धासी॒द्यन्मामेकं᳚ स॒मध᳚त्ताहि॒हत्ये᳚ ।
अ॒हं ह्यु१॒᳚ग्रस्त᳚वि॒षस्तुवि᳚ष्मा॒न्विश्व᳚स्य॒ शत्रो॒रन᳚मं वध॒स्नैः ॥
अ॒हं ह्यु१॒᳚ग्रस्त᳚वि॒षस्तुवि᳚ष्मा॒न्विश्व᳚स्य॒ शत्रो॒रन᳚मं वध॒स्नैः ॥
पदपाठः (Word-by-word)
क्व᳚ । स्या । वः॒ । म॒रु॒तः॒ । स्व॒धा । आ॒सी॒त् । यत् । माम् । एक᳚म् । स॒म्॑अध᳚त्त । अ॒हि॒॑हत्ये᳚ ।
अ॒हम् । हि । उ॒ग्रः । त॒वि॒षः । तुवि᳚ष्मान् । विश्व᳚स्य । शत्रोः᳚ । अन᳚मम् । व॒ध॒॑स्नैः ॥
अ॒हम् । हि । उ॒ग्रः । त॒वि॒षः । तुवि᳚ष्मान् । विश्व᳚स्य । शत्रोः᳚ । अन᳚मम् । व॒ध॒॑स्नैः ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतः स्या सा स्वधा तदुदकंबलंवा वोयुष्माकंसंबन्धि क्वासीत् नैवासीदित्यर्थः अस्माकमुदकं- त्वमनुभवसीतिब्रूथ यत् या स्वधा एकमसहायंमांअहिहत्ये वृष्ट्यर्थंमेघहननकर्मणिवृत्रवधेवा समध- त्त सहितमभूत् समासीदितिसंबन्धः असहायस्यकथमेतत्सेत्स्यतीत्यतआह—अहंहि अहं खलु उग्रः उद्गूर्णबलस्त विषोबलवान् तुविष्मान्महत्त्वोपेतोऽस्मि यस्मादतिबलोहं तस्माद्विश्वस्य कृत्स्नस्य शत्रोर्मेघस्य शत्रोरितीयंकर्मणिषष्ठी सर्वंशत्रुसंघं वधस्नैः वधरूपैःशोधनैः वधकुशलैरित्यर्थः यद्वा व- धइतिवज्रनाम वधस्नैर्वज्रस्यासनैः क्षेपणप्रकारैरनमं अनमयं अन्तर्भावितण्यर्थोयं वशीकरोमीत्यर्थः ॥ ६ ॥