कस्य॒ ब्रह्मा᳚णि जुजुषु॒र्युवा᳚न॒ः को अ᳚ध्व॒रे म॒रुत॒ आ व᳚वर्त ।
श्ये॒ना{4} इ᳚व॒ ध्रज᳚तो अ॒न्तरि᳚क्षे॒ केन᳚ म॒हा मन᳚सा रीरमाम ॥
श्ये॒ना{4} इ᳚व॒ ध्रज᳚तो अ॒न्तरि᳚क्षे॒ केन᳚ म॒हा मन᳚सा रीरमाम ॥
पदपाठः (Word-by-word)
कस्य᳚ । ब्रह्मा᳚णि । जु॒जु॒षुः॒ । युवा᳚नः । कः । अ॒ध्व॒रे । म॒रुतः᳚ । आ । व॒व॒र्त॒ ।
श्ये॒नान्॑इ᳚व । ध्रज᳚तः । अ॒न्तरि᳚क्षे । केन᳚ । म॒हा । मन᳚सा । री॒र॒मा॒म॒ ॥
श्ये॒नान्॑इ᳚व । ध्रज᳚तः । अ॒न्तरि᳚क्षे । केन᳚ । म॒हा । मन᳚सा । री॒र॒मा॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
युवानोनित्यतरुणाः महानुभावामरुतः कस्यमहाभागस्य ब्रह्माणिपरिवृढानि हवींषिजुजुषुः सेव- न्ते कश्चमहानध्वरे स्वकीये यागेमरुतएतानाववर्त यागान्तरेभ्योतिवर्तयन्ति दुर्निग्रहत्वेदृष्टान्तमाह- अन्तरिक्षे ध्रजतोगच्छतः श्येनान् इव शंसनीयगमनानेतन्नामकान्पक्षिणइव केनतत्प्रीतिसाधनेन महा महतामनसा मननवता स्तोत्रेण रीरमाम रमेमहि अथमरुतइन्द्रेणोक्ताः तृतीययाऽनयाप्रतिब्रुव- ते ॥ २ ॥