प्रथमं मण्डलम् - सूक्तम् 85

12 ऋचः

ऋषिः: गोतमो राहूगणः देवता: मरुतः छन्दः: जगती

सूक्तम् 1.85 - सम्पूर्णम्

1 / 12
ऋक्: 1.85.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
1.85.1
प्र ये शुम्भ᳚न्ते॒ जन᳚यो॒ न सप्त᳚यो॒ याम᳚न्रु॒द्रस्य᳚ सू॒नवः᳚ सु॒दंस᳚सः ।
रोद᳚सी॒ हि म॒रुत᳚श्चक्रि॒रे वृ॒धे मद᳚न्ति वी॒रा वि॒दथे᳚षु॒ घृष्व᳚यः ॥
▶ पदपाठः (Word-by-word)
प्र । ये । शुम्भ᳚न्ते । जन᳚यः । न । सप्त᳚यः । याम᳚न् । रु॒द्रस्य᳚ । सू॒नवः᳚ । सु॒॑दंस᳚सः ।
रोद᳚सी॒ इति᳚ । हि । म॒रुतः᳚ । च॒क्रि॒रे । वृ॒धे । मद᳚न्ति । वी॒राः । वि॒दथे᳚षु । घृष्व᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

चतुर्दशेऽनुवाके नव सूक्तानि । तत्र प्र य इति द्वादशर्चं प्रथमं सूक्तं गोतमस्यार्षम् । पंचमीद्वादश्यौ त्रिष्टुभौ । शिष्टा जगत्यः । मरुतो देवता । तथा चानुक्रांतम् । प्र ये द्वादश मारुतं ह पंचम्यंत्ये त्रिष्टुभाविति । हशब्दप्रयोगादिदमादीनि चत्वारि सूक्तानि मरुद्देवत्यानि ॥ अभिप्लवषडहस्य चतुर्थेऽहन्याग्निमारुत एतत्सूक्तं मारुतनिविद्धानीयम् । सूत्रितं च । प्र ये शुंभंते जनस्य गोपा इत्याग्निमारुतं ॥ आ ७-७ । इति ॥

हे मरुतो यामन् यामनि गमने निमित्तभूते सति प्र शुंभंते प्रकर्षेण स्वकीयान्यंगान्यलंकुर्वंति जनयो न जाया इव । यथा योषितः स्वकीयान्यंगान्यलंकुर्वंति तद्वत् । कीदृशा मरुतः । सप्तयः सपर्णशीलाः रुद्रस्य सूनवः । रोदयति सर्वमंतकाल इति रुद्रः परमेश्वरः । तस्य पुत्राः । सुदंससः । शोभनकर्माणः । एतदेवोपपादयति । हि यस्मान्मरुतो रोदसी द्यावापृथिव्यौ वृधे वृष्टिप्रदानादिना वर्धनाय चक्रिरे कृतवंतः । अतः सुदंसस इत्यर्थः । वीरा विशेषेण शत्रुक्षेपणशीलाः घृष्वयो घर्षणशीलाः । महीरुहशिलोच्चयादेर्भंजका इत्यर्थः एवंभूतास्ते मरुतो विदथेषु । विदंत्येषु यष्वव्यतया देवानिति विदथा यज्ञाः । तेषु मदंति । सोमपानेन हृष्यंति ॥ शुंभंते । शुभ शुन्भ दीप्तौ । भौवादिकः । जनयः । जायंत आस्वपत्यानीति जनयो जायाः । इन्सर्वधातुभ्य इतीन्प्रत्ययः । यामन् । या प्रापणे । कृत्यल्युटो बहुलमिति बहुलवचनादातो मनिन्निति भावे मनिन् । सुपां सुलुगिति सप्तम्या लुक् । सुदंससः । दंस इति कर्मनाम । शोभनं दंसो येषाम् । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । चक्रिरे । हि चेति निघातप्रतिषेधः । वृधे । वृधु वृद्धौ । संपदादिलक्षणो भावे क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । मदंति । मदी हर्षे । श्यनि प्राप्ते व्यत्ययेन शप् । पादादित्वान्निघाताभावः । विदथेषु विद ज्ञाने रुविदिभ्यां किदित्यथ प्रत्ययः । घृष्वयः । घृषुसंघर्षे । कृविघृष्वीत्यादिना विन्प्रत्ययांतो निपात्यते ॥ १ ॥

1.85.2
त उ᳚क्षि॒तासो᳚ महि॒मान᳚माशत दि॒वि रु॒द्रासो॒ अधि᳚ चक्रिरे॒ सदः᳚ ।
अर्च᳚न्तो अ॒र्कं ज॒नय᳚न्त इन्द्रि॒यमधि॒ श्रियो᳚ दधिरे॒ पृश्नि᳚मातरः ॥
▶ पदपाठः (Word-by-word)
ते । उ॒क्षि॒तासः᳚ । म॒हि॒मान᳚म् । आ॒श॒त॒ । दि॒वि । रु॒द्रासः᳚ । अधि᳚ । च॒क्रि॒रे॒ । सदः᳚ ।
अर्च᳚न्तः । अ॒र्कम् । ज॒नय᳚न्तः । इ॒न्द्रि॒यम् । अधि᳚ । श्रियः᳚ । द॒धि॒रे॒ । पृश्नि᳚॑मातरः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये पूर्वोक्तगुणविशिष्टास्ते मरुत उक्षितासो देवैरभिषिक्ताः संतो महिमानं महत्त्वमातत । आप्नुवन् । रुद्रासो रुद्रस्य पुत्राः । उपचाराज्जस्ये जनकशब्दः । ते रुद्रपुत्रा मरुतो दिवि द्योतमाने नभसि सदः सदनं स्थानमधि चक्रिरे । आधिकं सर्वोत्पष्टं कृतवंतः । अर्कमर्चनीयमिंद्रमर्चंतः पूजयंत इंद्रियमिंद्रस्य लिंगं वीर्यं जनयंतः । प्रहर भगवो जहि वीरयस्व । ऐ ब्रा ३-२० । इत्येवंरूपेण वाक्येनोत्पादयंतः । पृश्निमातरः पृश्नेर्नानारूपाया भूमेः पुत्रा मरुतः श्रिय ऐश्वर्याण्यधि दधिरे । आधिक्ये नाधारयन् ॥ उक्षितासः । उक्ष सेचने । कर्मणि निष्ठा । आज्ज सेरुसुक् । महिमानम् । महच्चब्दात् पृथ्वादिलक्षण इमनिच् । टीरिति टलोपः । आतत । अतू व्याप्तौ । लङि बहुलं छंदसीति विकरणस्य लुक् । इंद्रियम् । इंद्रियमिंद्रलिंगमिंद्रवृष्टम् (पा ५-२-९३) इति घच् प्रत्ययांतो निपात्यते । पृश्निमातरः । प्राश्नुते सर्वाणि रूपाणीति पृश्निर्भूमिः । श्रूयते च । इयं वै पृश्निः । तै ब्रा १-४-१-५ । घृणिः पृश्निरित्यादौ निपातनादभिमतरूपसिद्धिः । पृश्निर्माता येषां ते तथोक्ताः । ऋतश्छंदसि (पा ५-४-१५८) इति समासांतस्य कपः प्रतिषेधः ॥ २ ॥

1.85.3
गोमा᳚तरो॒ यच्छु॒भय᳚न्ते अ॒ञ्जिभि᳚स्त॒नूषु᳚ शु॒भ्रा द᳚धिरे वि॒रुक्म᳚तः ।
बाध᳚न्ते॒ विश्व᳚मभिमा॒तिन॒मप॒ वर्त्मा᳚न्येषा॒मनु᳚ रीयते घृ॒तम् ॥
▶ पदपाठः (Word-by-word)
गो॑मा᳚तरः᳚ । यत् । शु॒भय᳚न्ते । अ॒ञ्जि॑भिः᳚ । त॒नूषु᳚ । शु॒भ्राः । द॒धि॒रे॒ । वि॒रुक्म᳚तः ।
बाध᳚न्ते । विश्व᳚म् । अ॒भि॒॑मा॒तिन᳚म् । अप᳚ । वर्त्मा᳚नि । ए॒षा॒म् । अनु᳚ । री॒य॒ते॒ । घृ॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गोमातरो गोरूपा भूमिर्माता येषां ते मरुत अंजिभी रूपाभि व्यंजकैराभरणैर्यद्यदा शुभयंते स्वकीयान्यंगानि शोभायुक्तानि कुर्वंति तदानीं शुभ्रा दीप्ता मरुतस्तनूषु स्वकीयेषु शरीरेषु विरुक्मतो विशेषेण रोचमानानलंकारान्दधिरे । धारयंति । अपि च विश्वं सर्वमभिमातिनं शत्रुमप बाधंते । हिंसंति । एषां मरुतां वर्त्मानि मार्गाननुसृत्य घृतं क्षरणशीलमुदकं रीयते । स्रवति । यत्र मरतो गच्छंति वृष्व्युदकमपि तदनुसारेण तत्र गच्छतीत्यर्थः ॥ शुभयंते । संज्ञापूर्वकस्य विधेरनित्यत्वाल्लघूपधगुणाभावः । अंजिभिः । अञ्जू व्यक्तिम्रक्षणगतिषु । खनिकषिकस्यंज्यसिवसिद्वनिस्तनिवनिसनिग्रंथि चरिभ्यश्च (उ ४-१३९) इतीप्रत्ययः । शुभ्राः । शुभदीप्तौ । स्फायितंचीत्यादिना रक् । विरुक्मतः । विशिष्टा रुक् विरुक् । तद्वंतो विरुक्मंतः । मतुप्ययस्मयादित्वेन पदत्वात्कुत्वम् । भत्वात् जश्त्वाभावः । रीयते रीङ् । स्रवणे । दैवादिकः ॥ ३ ॥

1.85.4
वि ये भ्राज᳚न्ते॒ सुम᳚खास ऋ॒ष्टिभि᳚ः प्रच्या॒वय᳚न्तो॒ अच्यु᳚ता चि॒दोज᳚सा ।
म॒नो॒जुवो॒ यन्म᳚रुतो॒ रथे॒ष्वा वृष᳚व्रातास॒ः पृष᳚ती॒रयु᳚ग्ध्वम् ॥
▶ पदपाठः (Word-by-word)
वि । ये । भ्राज᳚न्ते । सु॑म᳚खासः । ऋ॒ष्टि॑भिः᳚ । प्र॒॑च्य॒वय᳚न्तः । अच्यु᳚ता । चि॒त् । ओज᳚सा ।
म॒नः॒॑जुवः᳚ । यत् । म॒रु॒तः॒ । रथे᳚षु । आ । वृष᳚॑व्रातासः । पृष᳚तीः । अयु᳚ग्ध्वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुमखासः शोभनयज्ञा ये मरुत ऋष्टिभिरायुधैर्वि भ्राजंते विशेषेण दीप्यंते ते मरुतोऽच्युता चित् च्यावयितुमशक्यानि दृढानि पर्वतादीन्यप्योजसा स्वकीयेन बलेन प्रच्यावयंतः प्रकर्षेण च्यावयितारः प्रेरयितारो भवंति । उत्तरार्धः प्रत्यक्षकृतः । हे मरुतो मनोजुवो मनोवद्वेगगतयो वृषव्रातासो वृष्ट्युदकसेचनसमर्थसप्तसंघात्मका यूयं रथेष्वात्मीयेषु पृषतीः । पृषत्य इति मरुद्वाहनानां संज्ञा पृषत्यो मरुतामित्युक्तत्वात् । पृषद्भिःश्वेतबिंदुभिर्युक्ता मृगीर्यद्यदायुग्ध्वं आभिमुख्येन नियुक्ता अकृढ्वम् । तदानीं पर्वतादिकं प्रच्यवत इत्यर्थः ॥ सुमखासः । सर्वे विधयश्छंदसि विकल्प्यंत इति नञ्सिभ्यामित्यस्य प्रवृत्त्यभावे बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अच्युता । शेश्छंदसि बहुलमिति शेर्लॊपेः । मनोजुवः । जु इति सौत्रो धातुर्गत्यर्थः क्विब्वचीत्यादिना क्विब्दीर्घौ । अयुग्ध्वम् । युजिर् योगे । लुङि धि च (पा ८-२-२५) इति सकारलोपः ॥ ४ ॥

1.85.5
प्र यद्रथे᳚षु॒ पृष᳚ती॒रयु᳚ग्ध्वं॒ वाजे॒ अद्रिं᳚ मरुतो रं॒हय᳚न्तः ।
उ॒तारु॒षस्य॒ वि ष्य᳚न्ति॒ धारा॒श्चर्मे᳚वो॒दभि॒र्व्यु᳚न्दन्ति॒ भूम᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । यत् । रथे᳚षु । पृष᳚तीः । अयु᳚ग्ध्वम् । वाजे᳚ । अद्रि᳚म् । म॒रु॒तः॒ । रं॒हय᳚न्तः ।
उ॒त । अ॒रु॒षस्य᳚ । वि । स्य॒न्ति॒ । धाराः᳚ । चर्म᳚॑इव । उ॒द॑भिः᳚ । वि । उ॒न्द॒न्ति॒ । भूम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः पृषतीर्यद्यदा रथेषु प्रायुग्ध्वं प्रायूयुजत । किं कुर्वंतः । नाचेऽन्ने निमित्त भूते सत्यद्रिं मेघं रंहयंतो वर्षणार्थं प्रेरयंतः । उत तदानीमरुषस्यारोचमानस्य सूर्यस्य वैद्युताग्नेर्वा सकाशाद्वृष्ट्युदकधारा भवंतो वि ष्यंति । विमुंचंति । विमुक्तास्ताश्च धारा उदभिरुदकैश्चर्मेव परिमितमल्पं चर्म यथा प्रयत्नेन क्लेद्यते एवं भूम सर्वां भूमिं व्युंदंति । विशेषेणार्द्रां कुर्वंति ॥ रंहयंतः । रहि गतौ । वि ष्यंति । षो अंतकर्मणि दैवादिकः । ओतः श्यनि (पा ७-३-७१) इत्योकारलोपः । उपसर्गात्सुनोतीति षत्वम् । उदभिः । पद्दन्नित्यादिनोदकशब्दस्योदन्नादेशः । व्युंदंति । उन्दी क्लेदने । भूम । सुपां सुलुगिति भूमिशब्दादुत्तरस्यामो डादेशः । छांदसं ह्रस्वत्वं ॥ ५ ॥

1.85.6
आ वो᳚ वहन्तु॒ सप्त᳚यो रघु॒ष्यदो᳚ रघु॒पत्वा᳚न॒ः प्र जि᳚गात बा॒हुभि᳚ः ।
सीद॒ता ब॒र्हिरु॒रु व॒ः सद᳚स्कृ॒तं मा॒दय᳚ध्वं मरुतो॒ मध्वो॒ अन्ध᳚सः ॥
▶ पदपाठः (Word-by-word)
आ । वः॒ । व॒ह॒न्तु॒ । सप्त᳚यः । र॒घु॒॑स्यदः᳚ । र॒घु॒॑पत्वा᳚नः । प्र । जि॒गा॒त॒ । बा॒हु॑भिः᳚ ।
सीद᳚त । आ । ब॒र्हिः । उ॒रु । वः॒ । सदः᳚ । कृ॒तम् । मा॒दय᳚ध्वम् । म॒रु॒तः॒ । मध्वः᳚ । अन्ध᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तृतीयसवन आ वो वहंत्विति पोतुः प्रस्थितयाज्या । सूत्रितं च । आ वो वहंतु सप्तयो रघुष्यदोऽमेव नः सुहवा आ हि गंतन (आ ५-५) इति ॥

हे मरुतो वो युष्मान् सप्तयः सर्पणशीला अत्मा आ वहंतु । अस्मद्यज्ञं प्रापयंतु । कीदृशाः सप्तयः । रघुष्यदो लघु शीघ्रं स्यंदमानाः । वेगेन गच्छंत इत्यर्थः । रघुपत्वानो लघु शीघ्रं पतंतो गच्छंतो यूयं बाहुभिः स्वकीयैर्हस्तैरस्मभ्यं दातव्यं धनमाहृत्य प्र जिगात । प्रकर्षेण गच्छत । हे मरुतो वो युष्माकं सदः सदनं वेदिलक्षणं स्थानमुरु विस्तीर्णं कृतम् । तत्र यदास्तीर्णं बर्हिस्तदा सीदत । तस्मिन्बर्हिष्युपविशत । उपविश्य च मध्वो मधुरस्यांधसः सोमलक्षणस्यान्नस्य पानेन मादयध्वम् । तृप्ता भवत ॥ रघुष्यदः । रघु स्यंदंत इति रघुष्यदः । स्यंदू प्रस्रवणे । क्विप्चेति क्विप् । अनिदितामिति नलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् । रघुपत्वानः । पत्लृ गतौ । अन्येभ्योऽपि दृश्यंत इति वनिप् । जिगात । गा स्तुतौ । जौहोत्यादिकः । जिगातीति गतिकर्मसु पाठादत्र गत्यर्थः । लोण्मध्यमबहुवचनस्य तप्तनप्तनथनाश्चेति तबादेशः । तस्य पित्त्वेन ङित्त्वा भावादी हल्यघोरितीत्वाभावः । सदः । अतः कृकमीति (पा ८-३-४६) विजर्सनीयस्य सत्वम् । मादयध्वं मद तृप्तियोगे । चुरादिरात्मनेपदी ॥ ६ ॥

1.85.7
ते᳚॑वर्धन्त॒ स्वत᳚वसो महित्व॒ना नाकं᳚ त॒स्थुरु॒रु च᳚क्रिरे॒ सदः᳚ ।
विष्णु॒र्यद्धाव॒द्वृष᳚णं मद॒च्युतं॒ वयो॒ न सी᳚द॒न्नधि᳚ ब॒र्हिषि᳚ प्रि॒ये ॥
▶ पदपाठः (Word-by-word)
ते । अ॒व॒र्ध॒न्त॒ । स्व॑त᳚वसः । म॒हि॒॑त्व॒ना । आ । नाक᳚म् । त॒स्थुः । उ॒रु । च॒क्रि॒रे॒ । सदः᳚ ।
विष्णुः᳚ । यत् । ह॒ । आव᳚त् । वृष᳚णम् । म॒द॒॑च्युत᳚म् । वयः᳚ । न । सीद॒न् । अधि᳚ । ब॒र्हिषि᳚ । प्रि॒ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते मरुतोऽवर्धंत । वृद्धिं गताः । कीदृशाः स्वतवसः स्वाश्रयबलाः । नान्यस्य कस्यचिद्बलमपेक्षंते । वृद्धिं प्राप्य च महित्वना महिम्ना महत्त्वेन नाकं स्वर्गमा तस्थुः आस्थि तवंतः । सदः सदनं नभो लक्षणं स्थानं च स्वकीयनिवासायोरु विस्तीर्णं चक्रिरे । यद्येभ्यो मरुद्भ्यो यदर्थं वृषणं कामाभिवर्षकं मदच्युतं मदस्य हर्षस्यासेक्तारं यज्ञं विष्णुर्हावत् विष्णुरेवागत्य रक्षति ते मरुतो वयो न पक्षिणो यथा शीघ्रमागच्छंति एवं शीघ्रमागत्य बर्हिष्यध्यस्मदीये यज्ञे प्रिये प्रीतिकरे सीदन् । सीदंतु । उपविशंतु ॥ तेऽवर्धंत । स्वरितो वानुदात्ते पदादौ (पा ८-२-६) इत्येकादेशस्य स्वरितत्वम् । महित्वना । भावप्रत्ययादुत्तरस्याङो व्यत्ययेन नाभाव उदात्तत्वं च । यद्वा । सुपां सुलुगित्याजादेशो नकालोप जनश्च । तस्थुः । नाकमातस्थुश्च सदश्च विस्तीर्णं चक्रिर इति चार्थप्रतीतेश्चादिलोपे विभाषेति प्रथमायास्तिङ् विभक्तेर्निघातप्रतिषेधः । यत् । सुपां सुलुगिति चतुर्थ्यालुक् । आवत् । छांदसो वर्तमाने लङ् । वृषणम् । वा षपूर्वस्य निगम इत्युपदादीर्घाभावः । मदच्युतम् । मदं च्योततीति मदच्युत् । च्युतिर् आसेचने । क्विप्चेति क्विप् । सीदन् । लिङर्थे लेट्यडागमः ॥ ७ ॥

1.85.8
शूरा᳚ इ॒वेद्युयु᳚धयो॒ न जग्म᳚यः श्रव॒स्यवो॒ न पृत᳚नासु येतिरे ।
भय᳚न्ते॒ विश्वा॒ भुव᳚ना म॒रुद्भ्यो॒ राजा᳚न इव त्वे॒षसं᳚दृशो॒ नरः᳚ ॥
▶ पदपाठः (Word-by-word)
शूराः᳚॑इव । इत् । युयु᳚धयः । न । जग्म᳚यः । श्र॒व॒स्यवः᳚ । न । पृत᳚नासु । ये॒ति॒रे॒ ।
भय᳚न्ते । विश्वा᳚ । भुव᳚ना । म॒रुत्॑भ्यः᳚ । राजा᳚नः॑इव । त्वे॒ष॑स᳚न्दृशः । नरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदित्येतत्समुच्चये । शूरा इवेत् शौर्येपेता युयुत्सवः पुरुषा इव च युयुधयः शत्रुभिर्युध्यमानाः पुरुषा इव च जग्मयः शीघ्रं गच्छंतो मरुतः श्रवस्यवो न श्रवोऽन्नमात्मन इच्छंतः पुरुषा इव पृतनासु संग्रामेषु येतिरे । प्रयतंते । पुत्रादिभिर्युद्धे व्याप्रियंते । तादृशेभ्यो मरुद्भ्यो विश्वा भुवना सर्वाणि भूतजातानि भयंते । बिभ्यति । ये नरो वृष्ट्यादेर्नेतारो मरुतो राजान इव राजमाना नृपतय इव त्वेषसंदृशो दीप्त संदर्शना उग्ररूपतया द्रष्टुमशक्या भवंति । तेभ्य इत्यर्थः ॥ युयुधयः । युध संप्रहारे । आदृरगमहनजन इत्यत्रोत्सर्गश्छंदसि । पा ३-२-१७१-२ । इति वचनात्किन्प्रत्ययः । लिड्वद्छावाद्द्विर्भावादि । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तत्वम् । जग्मयः । तेनैव सूत्रेण किन्प्रतैयः । गमहनेत्यादिनोपधालोपः । स्थानिवद्भावाद्द्विर्भावादि । श्रवस्यवः । श्रव इच्छति श्रवस्यति क्याच्छंदसीत्युप्रत्ययः । येतिरे । यती प्रयत्ने । छंदसि लुङ् लङ् लिट इति वर्तमाने लिट् । भयंते । ञिभी भये । बहुलं छंदसीति शपः श्लोरभावः । त्वेषसंदृशः । त्विष दीप्तौ । पचाद्यच् । दृशिरो प्रेक्षणे संपूर्वादस्मात्संपदादिलक्षणो भावे क्विप् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ८ ॥

1.85.9
त्वष्टा॒ यद्वज्रं॒ सुकृ᳚तं हिर॒ण्ययं᳚ स॒हस्र᳚भृष्टिं॒ स्वपा॒ अव᳚र्तयत् ।
ध॒त्त इन्द्रो॒ नर्यपां᳚सि॒ कर्त॒वे॑ह᳚न्वृ॒त्रं निर॒पामौ᳚ब्जदर्ण॒वम् ॥
▶ पदपाठः (Word-by-word)
त्वष्टा᳚ । यत् । वज्र᳚म् । सु॑कृ᳚तम् । हि॒र॒ण्यय᳚म् । स॒हस्र᳚॑भृष्टिम् । सु॒॑अपाः᳚ । अव᳚र्तयत् ।
ध॒त्ते । इन्द्रः᳚ । नरि᳚ । अपां᳚सि । कर्त᳚वे । अह᳚न् । वृ॒त्रम् । निः । अ॒पाम् । औ॒ब्ज॒त् । अ॒र्ण॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वपाः शोभनकर्मा त्वष्टा विश्वनिर्माता यद्वज्रमवर्तयत् इंद्रं प्रत्यगमयत् । दत्तवानित्यर्थः । कीदृशम् । सुकृतं सम्यङ्निष्पादितं हिरण्ययं सुवर्णमयं सहस्रभृष्टिमनेकाभिर्धाराभिर्युक्तम् । तद्वज्रमिंद्रो धत्ते । धारयति । किमर्थम् । नरि । अत्र नृ संबंधान्नृ शब्देन संग्रामोऽभिधीयते । संग्रामेऽपांसि शत्रुहननादिलक्षणानि कर्माणि कर्तवे कर्तुम् । एवं वज्रं धृत्वा तेन वज्रेण वृत्रं वृष्ट्युदकस्यावरकमर्णवमर्णसोदकेन युक्तं मेघमहन् । अवधीत् । अपां तेन निरुद्धा आपश्च स निरौब्जत् । निःशेषेणाधोमुखमपातयत् । प्रवृष्टा अकरोदित्यर्थः ॥ सुकृतम् । सुपूर्वात्करोतेः कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । हिरण्ययम् । हिरण्यशब्दादुत्तरस्य मयटो मकारस्य लोप ऋत्व्यवास्त्व्यवा स्त्वेत्यादौ निपात्यते । स्वपाः । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । कर्तवे । तमर्थे सेसेनिति करोतेस्तवेन्रत्ययः । अपाम् । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वच्चतुर्थ्यर्थे षष्ठी । ऊडिदमिति विभक्तेरुदात्तत्वम् । औब्जत् । उब्ज आर्जवे । अर्णवम् । अर्णसो लोपश्च । का ५-२-१०९-३ । इति मत्वर्थीयो वः सलोपश्च ॥ ९ ॥

1.85.10
ऊ॒र्ध्वं नु᳚नुद्रे॑व॒तं त ओज᳚सा दादृहा॒णं चि᳚द्बिभिदु॒र्वि पर्व᳚तम् ।
धम᳚न्तो वा॒णं म॒रुतः᳚ सु॒दान᳚वो॒ मदे॒ सोम᳚स्य॒ रण्या᳚नि चक्रिरे ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वम् । नु॒नु॒द्रे॒ । अ॒व॒तम् । ते । ओज᳚सा । द॒दृ॒हा॒णम् । चि॒त् । बि॒भि॒दुः॒ । वि । पर्व᳚तम् ।
धम᳚न्तः । वा॒णम् । म॒रुतः᳚ । सु॒॑दान᳚वः । मदे᳚ । सोम᳚स्य । रण्या᳚नि । च॒क्रि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रेयमाख्यायिका । गोतम ऋषिः पिपासया पीडितः सन् मरुत उदकं ययाचे । तदनंतरं मरुतोऽदूरस्थं कूपमुद्धृत्य यत्र स गोतम ऋषिस्तिष्ठति तां दिशं नीत्वा ऋषिसमीपे कूपमवस्थाप्य तत्पार्श्व आहावं च कृत्वा तस्मिन्नाहावे कुपमुत्सिच्य तमृषिं तेनोदकेन तर्पयां चक्रुः । अयमर्थोऽनयोत्तरया च प्रतिपाद्यते ॥ ते मरुतोऽवतम् । अवस्तात्ततो भवतीत्यवतः कूपः । कूपनामसु चावतोऽवट इति पठितम् । तमूर्ध्वमुपरि यथा भवति तथौजसा स्वकीयेन बलेन नुनुद्रे । प्रेरितवंतः । उत्बातवंत इत्यर्थः । एवं कूपमुत्खाय ऋषेराश्रमं प्रति नयंतो मरुतो मार्गमध्ये ददृहाणं प्रवृद्धं गतिनिरोधकं पर्वतं चित् पर्ववंतं शिलोच्चयमपि वि बिभिदुः । विशेषेण बभंजुः । सुदानवः सोभनदानास्ते मरुतो वाणं शतसंख्याभिस्तंत्रीभिर्युक्तं वीणाविशेषं धमंतो वादयंत स्तोतृभ्यः कुर्वंति ॥ नुनुद्रॆ । णुद प्रेरणे । लिटरयो र इति रेआदेशः । ददृहा णम् । दृह दृहि वृद्धौ । लिटः कानच् । धमंतः । ध्मा शब्दाग्नि संयोगयोः । पाघ्रेत्यादिना धमादेशः । वाणम् । अण रण वण शब्दार्थाः । कमणि घञ् । कर्षातृत इत्यप् । ततो भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वं ॥ १० ॥

1.85.11 समानपद
जि॒ह्मं नु᳚नुद्रे॑व॒तं तया᳚ दि॒शासि᳚ञ्च॒न्नुत्सं॒ गोत᳚माय तृ॒ष्णजे᳚ ।
आ ग᳚च्छन्ती॒मव᳚सा चि॒त्रभा᳚नव॒ः कामं॒ विप्र᳚स्य तर्पयन्त॒ धाम᳚भिः ॥
▶ पदपाठः (Word-by-word)
जि॒ह्मम् । नु॒नु॒द्रे॒ । अ॒व॒तम् । तया᳚ । दि॒शा । असि᳚ञ्चन् । उत्स᳚म् । गोत᳚माय । तृ॒ष्ण॑जे᳚ ।
आ । ग॒च्छ॒न्ति॒ । ई॒म् । अव᳚सा । चि॒त्र॑भा᳚नवः । काम᳚म् । विप्र᳚स्य । त॒र्प॒य॒न्त॒ । धाम᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतोऽवतमुद्धृतं कूपं यस्यां दिशि ऋषिर्वसति तया दिशा जिह्मं वक्रंतिर्यंचं नुनुद्रे । प्रेरितवंतः । एवं कूपं नीत्वा ऋष्याश्रमेऽवस्थाप्य तृष्टजे तृषिताय गोतमाय ऋषये तदर्थमुत्सं जलप्रवाहं कूपादुद्धृत्यासिंचन् । आहावेऽवानयन् । एवं कृत्वेमेनं स्तोतारमृषिं चित्रभानवो विचित्रदीप्तयस्ते मरुतोऽवसेदृशेन रक्षणेन सहा गच्छंति । तत्समीपं प्राप्नुवंति । प्राप्य च विप्रस्य मेधाविनो गोतमस्य काममभिलाषं दामभिरायुषो धारकैरुदकैस्तप्रयंत । अतर्पयन् ॥ तया । न गोश्वन्साववर्णेति सावेकाच इति प्राप्तस्य विभक्त्युदात्तस्य प्रतिषेधः । दिशा । सावेकाच इति विभक्तेरुदात्तत्वम् । तृष्णजे ञितृषा पिपासायाम् । स्वपितृषोर्नजिङ् (पा ३-२-१७२) प्रत्ययाद्युदात्तत्वम् । पदकारस्य शाकल्यस्य त्वयमभिप्रायः । अन्येष्वपि दृश्यत इति दृशिग्रहणात्केवलादपि जनेर्डप्रत्ययः । तृष्णाजाता यस्य स तथोक्तः । ङ्यापोः संज्ञाच्छंदसोर्बहुलमिति ह्रस्वत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । धामभिः । दधातेरातो मनिन्निति मनिन् ॥ ११ ॥

1.85.12
या व॒ः शर्म᳚ शशमा॒नाय॒ सन्ति᳚ त्रि॒धातू᳚नि दा॒शुषे᳚ यच्छ॒ताधि᳚ ।
अ॒स्मभ्यं॒ तानि᳚ मरुतो॒ वि य᳚न्त र॒यिं नो᳚ धत्त वृषणः सु॒वीर᳚म् ॥
▶ पदपाठः (Word-by-word)
या । वः॒ । शर्म᳚ । श॒श॒मा॒नाय᳚ । सन्ति᳚ । त्रि॒॑धातू᳚नि । दा॒शुषे᳚ । य॒च्छ॒त॒ । अधि᳚ ।
अ॒स्मभ्य᳚म् । तानि᳚ । म॒रु॒तः॒ । वि । य॒न्त॒ । र॒यिम् । नः॒ । ध॒त्त॒ । वृ॒ष॒णः॒ । सु॒॑वीर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मारुते पशौ या वः शर्मेति हविषो याज्या । प्रदानानामिति खंडे सूत्रितम् । अरा इवेदचरमा अहेव या वः शर्म शशमानाय संति । अ ३-७ । इति ॥

हे मरुतो वो युष्माकं संबंधीनि या यानि शर्म शर्माणि सुखानि गृहाणि वा । कीदृशानि । त्रिधातूनि पृथिव्यादिषु त्रिषु स्थानेष्ववस्थितानि शशमानाय युष्मान्स्तुभिर्भजमानाय दातुं संपादितानि । पूर्वोक्त लक्षणानि शर्माणि यानि संति यानि च दाशुषे हविर्दत्तवते यजमानायाधि यच्छत अधिकं प्रयच्छथ हे मरुतस्तानि सर्वाणि शर्माण्यस्मभ्यं वि यंत । विशेषेण प्रयच्छत । किंच हे वृषणः कामानां वर्षितारो मरुतो नोऽस्मभ्यं सुवीरं शोभनैर्वीरैः पुत्रादिभिर्युक्तं रयिं धनं धत्त । दत्त ॥ या । शेश्छंदसि बहुलमिति शेर्लोपः । शर्म । सुपां सुलुगिति जसो लुक् । शशमानाय । शश प्लुतगतौ । ताच्छीलिकश्चानश् । यच्छत । छांदसे लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । यंत । यमेर्लोट बहुलं छंदसीति शपो लुक् । तप्तनप्तनथनाश्चेति तस्य तबादेश । अतस्तस्य पित्त्वेन ङुत्त्वाभावादनुदात्तोपदेशेत्यादिनानुनासिकलोपो न भवति । वृषणः । वा षपूर्वस्य निगव इत्युपधादीर्घाभावः । सुवीरम् । बहुव्रीहौ वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वं ॥ १२ ॥