श्रवणम्

1.85.11 समानपद
जि॒ह्मं नु᳚नुद्रे॑व॒तं तया᳚ दि॒शासि᳚ञ्च॒न्नुत्सं॒ गोत᳚माय तृ॒ष्णजे᳚ ।
आ ग᳚च्छन्ती॒मव᳚सा चि॒त्रभा᳚नव॒ः कामं॒ विप्र᳚स्य तर्पयन्त॒ धाम᳚भिः ॥
▶ पदपाठः (Word-by-word)
जि॒ह्मम् । नु॒नु॒द्रे॒ । अ॒व॒तम् । तया᳚ । दि॒शा । असि᳚ञ्चन् । उत्स᳚म् । गोत᳚माय । तृ॒ष्ण॑जे᳚ ।
आ । ग॒च्छ॒न्ति॒ । ई॒म् । अव᳚सा । चि॒त्र॑भा᳚नवः । काम᳚म् । विप्र᳚स्य । त॒र्प॒य॒न्त॒ । धाम᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतोऽवतमुद्धृतं कूपं यस्यां दिशि ऋषिर्वसति तया दिशा जिह्मं वक्रंतिर्यंचं नुनुद्रे । प्रेरितवंतः । एवं कूपं नीत्वा ऋष्याश्रमेऽवस्थाप्य तृष्टजे तृषिताय गोतमाय ऋषये तदर्थमुत्सं जलप्रवाहं कूपादुद्धृत्यासिंचन् । आहावेऽवानयन् । एवं कृत्वेमेनं स्तोतारमृषिं चित्रभानवो विचित्रदीप्तयस्ते मरुतोऽवसेदृशेन रक्षणेन सहा गच्छंति । तत्समीपं प्राप्नुवंति । प्राप्य च विप्रस्य मेधाविनो गोतमस्य काममभिलाषं दामभिरायुषो धारकैरुदकैस्तप्रयंत । अतर्पयन् ॥ तया । न गोश्वन्साववर्णेति सावेकाच इति प्राप्तस्य विभक्त्युदात्तस्य प्रतिषेधः । दिशा । सावेकाच इति विभक्तेरुदात्तत्वम् । तृष्णजे ञितृषा पिपासायाम् । स्वपितृषोर्नजिङ् (पा ३-२-१७२) प्रत्ययाद्युदात्तत्वम् । पदकारस्य शाकल्यस्य त्वयमभिप्रायः । अन्येष्वपि दृश्यत इति दृशिग्रहणात्केवलादपि जनेर्डप्रत्ययः । तृष्णाजाता यस्य स तथोक्तः । ङ्यापोः संज्ञाच्छंदसोर्बहुलमिति ह्रस्वत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । धामभिः । दधातेरातो मनिन्निति मनिन् ॥ ११ ॥