श्रवणम्

1.85.4
वि ये भ्राज᳚न्ते॒ सुम᳚खास ऋ॒ष्टिभि᳚ः प्रच्या॒वय᳚न्तो॒ अच्यु᳚ता चि॒दोज᳚सा ।
म॒नो॒जुवो॒ यन्म᳚रुतो॒ रथे॒ष्वा वृष᳚व्रातास॒ः पृष᳚ती॒रयु᳚ग्ध्वम् ॥
▶ पदपाठः (Word-by-word)
वि । ये । भ्राज᳚न्ते । सु॑म᳚खासः । ऋ॒ष्टि॑भिः᳚ । प्र॒॑च्य॒वय᳚न्तः । अच्यु᳚ता । चि॒त् । ओज᳚सा ।
म॒नः॒॑जुवः᳚ । यत् । म॒रु॒तः॒ । रथे᳚षु । आ । वृष᳚॑व्रातासः । पृष᳚तीः । अयु᳚ग्ध्वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुमखासः शोभनयज्ञा ये मरुत ऋष्टिभिरायुधैर्वि भ्राजंते विशेषेण दीप्यंते ते मरुतोऽच्युता चित् च्यावयितुमशक्यानि दृढानि पर्वतादीन्यप्योजसा स्वकीयेन बलेन प्रच्यावयंतः प्रकर्षेण च्यावयितारः प्रेरयितारो भवंति । उत्तरार्धः प्रत्यक्षकृतः । हे मरुतो मनोजुवो मनोवद्वेगगतयो वृषव्रातासो वृष्ट्युदकसेचनसमर्थसप्तसंघात्मका यूयं रथेष्वात्मीयेषु पृषतीः । पृषत्य इति मरुद्वाहनानां संज्ञा पृषत्यो मरुतामित्युक्तत्वात् । पृषद्भिःश्वेतबिंदुभिर्युक्ता मृगीर्यद्यदायुग्ध्वं आभिमुख्येन नियुक्ता अकृढ्वम् । तदानीं पर्वतादिकं प्रच्यवत इत्यर्थः ॥ सुमखासः । सर्वे विधयश्छंदसि विकल्प्यंत इति नञ्सिभ्यामित्यस्य प्रवृत्त्यभावे बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अच्युता । शेश्छंदसि बहुलमिति शेर्लॊपेः । मनोजुवः । जु इति सौत्रो धातुर्गत्यर्थः क्विब्वचीत्यादिना क्विब्दीर्घौ । अयुग्ध्वम् । युजिर् योगे । लुङि धि च (पा ८-२-२५) इति सकारलोपः ॥ ४ ॥