बाध᳚न्ते॒ विश्व᳚मभिमा॒तिन॒मप॒ वर्त्मा᳚न्येषा॒मनु᳚ रीयते घृ॒तम् ॥
पदपाठः (Word-by-word)
बाध᳚न्ते । विश्व᳚म् । अ॒भि॒॑मा॒तिन᳚म् । अप᳚ । वर्त्मा᳚नि । ए॒षा॒म् । अनु᳚ । री॒य॒ते॒ । घृ॒तम् ॥
सायणभाष्यम् (Sayana Commentary)
गोमातरो गोरूपा भूमिर्माता येषां ते मरुत अंजिभी रूपाभि व्यंजकैराभरणैर्यद्यदा शुभयंते स्वकीयान्यंगानि शोभायुक्तानि कुर्वंति तदानीं शुभ्रा दीप्ता मरुतस्तनूषु स्वकीयेषु शरीरेषु विरुक्मतो विशेषेण रोचमानानलंकारान्दधिरे । धारयंति । अपि च विश्वं सर्वमभिमातिनं शत्रुमप बाधंते । हिंसंति । एषां मरुतां वर्त्मानि मार्गाननुसृत्य घृतं क्षरणशीलमुदकं रीयते । स्रवति । यत्र मरतो गच्छंति वृष्व्युदकमपि तदनुसारेण तत्र गच्छतीत्यर्थः ॥ शुभयंते । संज्ञापूर्वकस्य विधेरनित्यत्वाल्लघूपधगुणाभावः । अंजिभिः । अञ्जू व्यक्तिम्रक्षणगतिषु । खनिकषिकस्यंज्यसिवसिद्वनिस्तनिवनिसनिग्रंथि चरिभ्यश्च (उ ४-१३९) इतीप्रत्ययः । शुभ्राः । शुभदीप्तौ । स्फायितंचीत्यादिना रक् । विरुक्मतः । विशिष्टा रुक् विरुक् । तद्वंतो विरुक्मंतः । मतुप्ययस्मयादित्वेन पदत्वात्कुत्वम् । भत्वात् जश्त्वाभावः । रीयते रीङ् । स्रवणे । दैवादिकः ॥ ३ ॥