प्रथमं मण्डलम् - सूक्तम् 16

9 ऋचः

ऋषिः: मेधातिथिः काण्वः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 1.16 - सम्पूर्णम्

1 / 9
ऋक्: 1.16.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.16.1
आ त्वा᳚ वहन्तु॒ हर᳚यो॒ वृष᳚णं॒ सोम᳚पीतये ।
इन्द्र᳚ त्वा॒ सूर᳚चक्षसः ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । व॒ह॒न्तु॒ । हर᳚यः । वृष᳚णम् । सोम᳚॑पीतये ।
इन्द्र᳚ । त्वा॒ । सूर᳚॑चक्षसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र वृषणं कामानां वर्षितारं त्वां सोमपीतये सोमपानार्थं हरयस्त्वदीया अश्वा आ वहंतु । अस्मिन्कर्मण्यानयंतु । तथा सूरचक्षसः सूर्यसमानप्रकाशयुक्ता ऋत्विजस्त्वां मंत्रैः प्रकासयंत्विति शेषः ॥ हरंतीति हरयः । इन् सर्वधातुभ्यः (उ ४-११७) इतीन् । नित्त्वादाद्युदात्तः । वृषणम् । कनिन्युवृषितक्षीत्यादिना कनिन् । कित्त्वाल्लघूपधगुणाभावः । वाषपूर्वस्य निगमे (पा ६-४-९) इति विकल्पितमुपधादीर्घत्वम् । सोमपीतये । ऐभिरग्न इत्यत्रोक्तम् । ऋग्वे १-१४-१ सूरचक्षसः । चक्षिङ् व्यक्तायां वाचि । सर्वधातुभ्योऽसुन् । चक्षिङः ख्याञ् (पा २-४-५४) इति न भवति । अनसोः प्रतिषेधो वक्तव्य इति निषेधात् । षू प्रेरणे । सुवतीति सूरः । सुसूधागृधिभ्यः क्रन् (उ २-२४) इति क्रन् । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तः । सूरवत्ख्यानं प्रकाशो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १ ॥

1.16.2
इ॒मा धा॒ना घृ᳚त॒स्नुवो॒ हरी᳚ इ॒होप᳚ वक्षतः ।
इन्द्रं᳚ सु॒खत᳚मे॒ रथे᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒माः । धा॒नाः । घृ॒त॒॑स्नुवः᳚ । हरी॒ इति᳚ । इ॒ह । उप᳚ । व॒क्ष॒तः॒ ।
इन्द्र᳚म् । सु॒ख॑त᳚मे । रथे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हरिशब्द इंद्ररथस्य वोढारावश्वावाचष्टे । तथा च श्रुत्यंतरम् । हर्योः स्थातेति । हरिभ्यं त्वेंद्रो देवतां गमयत्विति च । एतदेवाभिप्रेत्य निघंटुकार आह । हरी इंद्रस्येति । तादृशौ हरी इमा यागार्थं वेद्यामासादितत्वेन पुरोवर्तिनीर्धाना भ्रष्टयवतंडुलानुद्दिश्य सुखतमे रथ इंद्रमवस्थाप्येहास्मिन्कर्मण्युप वक्षतः । वेदिसमीपे वहताम् । कीदृशीर्धानाः । घृतस्नुवोऽलंकरणोपस्तरणाभिघारणेन घृतस्राविणीः ॥ धीयंत इति धानाः । धापृवस्यज्यतिभ्यो नः (उ ३-६) इति नः । प्रत्ययस्वरः । घृतस्नुवः । घृतं स्नुवंतीति घृतस्नुवः । क्विपि तुगभावश्छांडसः । धातुस्वरः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । स्नोः संयोगपूर्वत्वेन यणभावादुवङादेशः । हरी । हृञ् हरणे । सर्वधातुभ्य इन् । नित्त्वादाद्युदात्तः । प्रगृह्यत्वात्संहितायां प्रकृतिभावः । वक्षतः । प्रार्थनाख्ये लिङर्थे लेट् । तस्य प्रथम पुरषद्विवचनं तस् । लेटोऽडाटावित्यडागमः । शपि प्राप्ते सिब्बहुलुं लेटेति सिप् । ढत्वकुत्वषत्वानि । तिङ्ङतिङ इति निघातः । सुखतमे । गतं ॥ २ ॥

1.16.3
इन्द्रं᳚ प्रा॒तर्ह᳚वामह॒ इन्द्रं᳚ प्रय॒त्य᳚ध्व॒रे ।
इन्द्रं॒ सोम᳚स्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । प्रा॒तः । ह॒वा॒म॒हे॒ । इन्द्र᳚म् । प्र॒॑य॒ति । अ॒ध्व॒रे ।
इन्द्र᳚म् । सोम᳚स्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातः कर्मारंभे प्रातःसवन इंद्रं हवामहे । आह्वयामः । तथैवाध्वरे सोमयागे प्रयति प्रगच्छति प्रारभ्य वर्तमाने सति माध्यंदिने सवने तमिंद्रं हवामहे । तथा यज्ञ समाप्त्यवसरे तृतीयसवने सोमस्य पीतये सोमपानार्थं हवामहे ॥ प्रातः । स्वरादिष्वंतोदात्तो निपातितः । हवामहे । ह्वेञोलट शपि परतो ह्वः । संप्रसारणमित्यनुवृत्तौ बहुलं छंदसीति संप्रसारणम् । परपूर्वत्वम् । गुणावादेशौ । प्रयति । इण् गतौ । लटः शतृ । अदिप्रभृतिभ्यः शप इति शपो लुक् । शतुर्ङित्त्वाद्गुणाभावः । प्रादिसमासः । कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् । परि २८ । इति वचनात्प्रत्ययग्रहण इति नियमाभावत् शतुरनुमो नद्यजादी इति विभक्तेरुदात्तत्वम् । अध्वरे । उक्तम् । संहितायामुदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (पा ८-२-४) इत्यकारस्य स्वरितत्वम् । पीतये । पा पाने । क्तिनिछांदसमंतोदात्तत्वं ॥ ३ ॥

1.16.4
उप᳚ नः सु॒तमा ग᳚हि॒ हरि᳚भिरिन्द्र के॒शिभि᳚ः ।
सु॒ते हि त्वा॒ हवा᳚महे ॥
▶ पदपाठः (Word-by-word)
उप᳚ । नः॒ । सु॒तम् । आ । ग॒हि॒ । हरि᳚॑भिः । इ॒न्द्र॒ । के॒शि॑भिः᳚ ।
सु॒ते । हि । त्वा॒ । हवा᳚महे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र केशिभिः केसरयुक्तैर्हरिभिरश्वैस्त्वं नोऽस्मदीयं सुतमभिषुतं सोमं प्रत्युप समीप आ गहि । आगच्छ । सुतेऽभिषुते सोमे निमित्त भूते सति यस्मा त्कारणात्त्वा हवामहे त्वामह्वयामः । तस्मादागच्छेति पूर्वत्रान्वयः ॥ गहि । गमेर्लोटः सेर्हिः । शप इत्यनुवृत्तौ बहुलं छंदसीति शपो लुक् । इषुगमियमां छः (पा ७-३-७७) इति छत्वं न भवति । न लुमतांगस्येति प्रतिषेधात् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । तस्यासिद्धवदत्राभात् (पा ६-४-२२) इत्यसिद्धत्वादतो हेरिति हेर्लुग्न भवति । केशिभिः क्लिशेरन् लो लोपश्च (उ ५-३३) इत्यन् । मत्वर्थीय इनिः । प्रत्ययस्वरः । हवामहे । ह्व इत्यनुवृत्तौ ङहुलं छंदसीति संप्रसारणम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव तिङ्ङतिङ इति न निघातो हि चेति प्रतिषेधात् ॥ ४ ॥

1.16.5
सेमं न॒ः स्तोम॒मा ग॒ह्युपे॒दं सव᳚नं सु॒तम् ।
गौ॒रो न तृ᳚षि॒तः पि᳚ब ॥
▶ पदपाठः (Word-by-word)
सः । इ॒मम् । नः॒ । स्तोम᳚म् । आ । ग॒हि॒ । उप᳚ । इ॒दम् । सव᳚नम् । सु॒तम् ।
गौ॒रः । न । तृ॒षि॒तः । पि॒ब॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र स त्वं नोऽस्मदीयमिमं स्तोमं स्तुतिं प्रत्या गहि । आगच्छ । आगमने हेतुरुच्यते । उप देवयजनसमीपे सुतमभिषुतसोमयुक्त मिदानीमनुष्ठीयमानं सवनं प्रातःसवनादिरूपं कर्म वर्तते । तस्माद्गौरो न गौरमृग इव तृषितः सन्निमं सोमं पिब ॥ सः इममित्यत्र संहितायां सोऽचि लोपे चेत्पादपूरणम् (पा ६-१-१३४) इति सुलोपः । गहि । गतम् । सवनम् । सूयतेऽस्मिन्सोम इत्यधिकरणे ल्युट् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । लुडंतात्सप्तम्याः सुपां सुपो भवंतीति वक्तव्यम् (म ७-१-३९) इति वचनाद्द्वितीया । अभिषंतसोमयुक्तमिदं सवनमिति कर्मण्येव वा द्वितीया । तदा सुतशब्दादर्शआदित्वादच् (पा ५-२-१२७) तृषितः । ञितृष पिपासायाम् । निष्ठेति क्तः । प्रत्ययस्वरेणोदात्तः । पश्चादिट आगमा अनुदात्ता इत्यनुदात्तत्वं ॥ ३० ॥ ५ ॥

1.16.6
इ॒मे सोमा᳚स॒ इन्द᳚वः सु॒तासो॒ अधि᳚ ब॒र्हिषि᳚ ।
ता{4} इ᳚न्द्र॒ सह᳚से पिब ॥
▶ पदपाठः (Word-by-word)
इ॒मे । सोमा᳚सः । इन्द᳚वः । सु॒तासः᳚ । अधि᳚ । ब॒र्हिषि᳚ ।
तान् । इ॒न्द्र॒ । सह᳚से । पि॒ब॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंदुशब्द उंदी क्लेदन इति धातोरुत्पन्नः । इंदवः क्लेदनयुक्ता इमे वेद्यामवस्थिताः सोमासस्तत्तत्पात्रगताः सोमा बर्हिषि यज्ञेऽध्याधिक्येन सुतासः । अभिषुताः । हे इंद्र सहसे बलार्थं तान् सोमान् पिब ॥ सोमासः । आज्जसेरसुगिति जुसोऽसुगागमः । इंदवः । उक्तम् । सुतासः । पूर्ववदसुक् । संहितायां प्रकृत्यांतःपादमव्यपर इति प्रकृतिभावात्परपूर्वत्वं न भवति । बर्हिषि । बृंहेर्नलोपश्च (उ २-११०) इतीस् । प्रत्ययस्वरः । ता इंद्रेत्यत्र दीर्घादट समानपाद इतिरुत्वम् । यत्वयलोपौ । अनुनासिकः । सहसे । षह मर्षणे । असुनंतो नित्त्वादाद्युदात्तः ॥ ६ ॥

1.16.7
अ॒यं ते॒ स्तोमो᳚ अग्रि॒यो हृ᳚दि॒स्पृग᳚स्तु॒ शंत᳚मः ।
अथा॒ सोमं᳚ सु॒तं पि᳚ब ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । ते॒ । स्तोमः᳚ । अ॒ग्रि॒यः । हृ॒दि॒॑स्पृक् । अ॒स्तु॒ । शम्॑त᳚मः ।
अथ᳚ । सोम᳚म् । सु॒तम् । पि॒ब॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र अयमस्माभिः क्रियमाणः स्तोमः स्तोत्रविशेषोऽग्रियः श्रेष्ठः सन् ते तव हृदिस्पृक् मनस्यंगीकृतः शंतमः सुखतमोऽस्तु । अथ स्तुतेरनंतरं सुतमभिषुतं सोमं पिब ॥ अग्रियः । अग्रादित्यनुवृत्तौ घच्छौ च (पा ४-४-११७) इति घच् । चित्त्वादंतोदात्तः । हृदि स्पृशतीति हृदिस्पृक् । स्पृशोऽनुदके क्विन् (पा ३-२-५८) तत्पुरुषे कृति बहुलम् (पा ६-३-१४) इत्यलुक् । क्विन्प्रत्ययस्य कुः (पा ८-२-६२) इति शकरास्य कुत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । शंतमः । सुखकरद्रव्यवचनोऽत्र शंशब्दः ततस्तमप् । अत्र सुखप्रकर्षस्य गुणद्वारा गुणनिष्ठद्रवे संक्रांतत्वादद्रव्यप्रकर्ष इति निषेधात् किमेत्तिङव्ययेत्यादिना (पा ५-४-११) आम् न भवति द्रव्यस्य स्वतः प्रकर्षाभावात् । ईदृगर्थ एव हि स निषेधः । अथा सोमम् । संहितायां निपातस्येति दीर्घः ॥ ७ ॥

1.16.8
विश्व॒मित्सव᳚नं सु॒तमिन्द्रो॒ मदा᳚य गच्छति ।
वृ॒त्र॒हा सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
विश्व᳚म् । इत् । सव᳚नम् । सु॒तम् । इन्द्रः᳚ । मदा᳚य । ग॒च्छ॒ति॒ ।
वृ॒त्र॒॑हा । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृत्रहा शत्रुघातक इंद्रः सोमपीतये सोमपानाय मदाय तत्पानजन्यहर्षाय च विश्वमित्सर्वमपि सुतमभिषुतसोमयुक्तं सवनं प्रातःसवनादिरूपं कर्म गच्छति ॥ विश्वम् । अशिप्रुषीत्यादिना क्वन् । नित्त्वादाद्युदात्तः । सवनं सुतम् । पूर्ववत् । मदाय । मदोऽनुपसर्गे (पा ३-३-६७) इत्यप्प्रत्ययः । पित्त्वाद्धातुस्वरः । गच्छति । इषुगमियमां छः । वृत्रहा । वृत्रं हतवान् । ब्रह्मभ्रूणवृत्रेषु क्विप् (पा ३-२-८७) इन्हन्नित्यादिना निवृत्तं दीर्घत्वं सौ च । पा ६-४-१२, १३ । इति प्रतिप्रसवाद्भवति । कृदुत्तरपदप्रकृतिस्वरत्वम् । सोमपीतये । व्यधिकरणबहुव्रीहिरित्युक्तम् । तत्पुरुषे वा दासीभारादित्वात् (पा ६-२-४२) पूर्वपदप्रकृतिस्वरत्वं ॥ ८ ॥

1.16.9
सेमं न॒ः काम॒मा पृ᳚ण॒ गोभि॒रश्वै᳚ः शतक्रतो ।
स्तवा᳚म त्वा स्वा॒ध्य᳚ः ॥
▶ पदपाठः (Word-by-word)
सः । इ॒मम् । नः॒ । काम᳚म् । आ । पृ॒ण॒ । गोभिः᳚ । अश्वैः᳚ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
स्तवा᳚म । त्वा॒ । सु॒॑आ॒ध्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो स त्वं नोऽस्मदीयमिमं कामं काम्यमानं फलं गोभिरश्वैश्च सहा पृण । सर्वतः पूरय । वयमपि स्वाध्यः सुष्ठु सर्वतो ध्यानयुक्ताः संतस्त्वात्वां स्तवाम ॥ सेमम् । संहितायां सोऽचि लोपे चेत्पादपूरणमिति सुलोपः । कामम् । कमेर्घञि कर्षात्वतो घञोंऽत उदात्तः (पा ६-१-१५९) इत्यंतोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । पृण । पृण प्रीणने । लोटः सेर्हिः । तुदादिभ्यः शः । तस्य ङित्त्वाद्गुाभावः । अतोहेरिति हेर्लुक् । गोभिः । सावेकाच इति प्राप्तं विभक्तेरुदात्तत्वं न गोश्वन्साववर्णेति प्रतिषिध्यते । अश्वैः । क्वनंत इत्युक्तम् । असामर्थ्यान्न परांगवद्भावः । स्तवाम । ष्वुञ् स्तुतौ । धात्वादेः षः सः । लोडुत्तमबहुवचनस्य लोटो लङ्वदिति लङ्वद्भावान्नित्यं ङितः (पा ३-४-९९) इति सकारस्य लोपः । आडुत्तमस्य पिच्च (पा ३-४-९२) इत्याडागमः । प्रत्ययस्य पित्त्वादनुदात्तत्वम् । धातुस्वर एव । स्वाध्यः । ध्यै चिंतायाम् । स्वाङोरुपसर्गयोः प्राक्प्रयोगः । अन्येभ्योऽपि दृश्यते (पा ३-२-१७८) इति क्विप् । दृशिग्रहणस्य विध्यंतरोपसंग्रहणार्थत्वादत्र संप्रसारणे सति परपूर्वत्वम् । हल इति दीर्घः । जस्येरनेकाचः (पा ६-४-८२) इति यणादेशः । गतिकारकोपपदात्कृदित्युत्तरपदप्रकृतिस्वरत्वम् । उदात्तयणो हल्पूर्वादिति जस उदात्तत्वं न भवति । तत्रासर्वनामस्थानमित्यनुवृत्ते । अत उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्येति स्वरितत्वमेव भवति ॥ ३१ ॥ ९ ॥