श्रवणम्

1.16.2
इ॒मा धा॒ना घृ᳚त॒स्नुवो॒ हरी᳚ इ॒होप᳚ वक्षतः ।
इन्द्रं᳚ सु॒खत᳚मे॒ रथे᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒माः । धा॒नाः । घृ॒त॒॑स्नुवः᳚ । हरी॒ इति᳚ । इ॒ह । उप᳚ । व॒क्ष॒तः॒ ।
इन्द्र᳚म् । सु॒ख॑त᳚मे । रथे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हरिशब्द इंद्ररथस्य वोढारावश्वावाचष्टे । तथा च श्रुत्यंतरम् । हर्योः स्थातेति । हरिभ्यं त्वेंद्रो देवतां गमयत्विति च । एतदेवाभिप्रेत्य निघंटुकार आह । हरी इंद्रस्येति । तादृशौ हरी इमा यागार्थं वेद्यामासादितत्वेन पुरोवर्तिनीर्धाना भ्रष्टयवतंडुलानुद्दिश्य सुखतमे रथ इंद्रमवस्थाप्येहास्मिन्कर्मण्युप वक्षतः । वेदिसमीपे वहताम् । कीदृशीर्धानाः । घृतस्नुवोऽलंकरणोपस्तरणाभिघारणेन घृतस्राविणीः ॥ धीयंत इति धानाः । धापृवस्यज्यतिभ्यो नः (उ ३-६) इति नः । प्रत्ययस्वरः । घृतस्नुवः । घृतं स्नुवंतीति घृतस्नुवः । क्विपि तुगभावश्छांडसः । धातुस्वरः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । स्नोः संयोगपूर्वत्वेन यणभावादुवङादेशः । हरी । हृञ् हरणे । सर्वधातुभ्य इन् । नित्त्वादाद्युदात्तः । प्रगृह्यत्वात्संहितायां प्रकृतिभावः । वक्षतः । प्रार्थनाख्ये लिङर्थे लेट् । तस्य प्रथम पुरषद्विवचनं तस् । लेटोऽडाटावित्यडागमः । शपि प्राप्ते सिब्बहुलुं लेटेति सिप् । ढत्वकुत्वषत्वानि । तिङ्ङतिङ इति निघातः । सुखतमे । गतं ॥ २ ॥