इ॒मे सोमा᳚स॒ इन्द᳚वः सु॒तासो॒ अधि᳚ ब॒र्हिषि᳚ ।
ता{4} इ᳚न्द्र॒ सह᳚से पिब ॥
ता{4} इ᳚न्द्र॒ सह᳚से पिब ॥
पदपाठः (Word-by-word)
इ॒मे । सोमा᳚सः । इन्द᳚वः । सु॒तासः᳚ । अधि᳚ । ब॒र्हिषि᳚ ।
तान् । इ॒न्द्र॒ । सह᳚से । पि॒ब॒ ॥
तान् । इ॒न्द्र॒ । सह᳚से । पि॒ब॒ ॥
सायणभाष्यम् (Sayana Commentary)
इंदुशब्द उंदी क्लेदन इति धातोरुत्पन्नः । इंदवः क्लेदनयुक्ता इमे वेद्यामवस्थिताः सोमासस्तत्तत्पात्रगताः सोमा बर्हिषि यज्ञेऽध्याधिक्येन सुतासः । अभिषुताः । हे इंद्र सहसे बलार्थं तान् सोमान् पिब ॥ सोमासः । आज्जसेरसुगिति जुसोऽसुगागमः । इंदवः । उक्तम् । सुतासः । पूर्ववदसुक् । संहितायां प्रकृत्यांतःपादमव्यपर इति प्रकृतिभावात्परपूर्वत्वं न भवति । बर्हिषि । बृंहेर्नलोपश्च (उ २-११०) इतीस् । प्रत्ययस्वरः । ता इंद्रेत्यत्र दीर्घादट समानपाद इतिरुत्वम् । यत्वयलोपौ । अनुनासिकः । सहसे । षह मर्षणे । असुनंतो नित्त्वादाद्युदात्तः ॥ ६ ॥