श्रवणम्

1.16.4
उप᳚ नः सु॒तमा ग᳚हि॒ हरि᳚भिरिन्द्र के॒शिभि᳚ः ।
सु॒ते हि त्वा॒ हवा᳚महे ॥
▶ पदपाठः (Word-by-word)
उप᳚ । नः॒ । सु॒तम् । आ । ग॒हि॒ । हरि᳚॑भिः । इ॒न्द्र॒ । के॒शि॑भिः᳚ ।
सु॒ते । हि । त्वा॒ । हवा᳚महे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र केशिभिः केसरयुक्तैर्हरिभिरश्वैस्त्वं नोऽस्मदीयं सुतमभिषुतं सोमं प्रत्युप समीप आ गहि । आगच्छ । सुतेऽभिषुते सोमे निमित्त भूते सति यस्मा त्कारणात्त्वा हवामहे त्वामह्वयामः । तस्मादागच्छेति पूर्वत्रान्वयः ॥ गहि । गमेर्लोटः सेर्हिः । शप इत्यनुवृत्तौ बहुलं छंदसीति शपो लुक् । इषुगमियमां छः (पा ७-३-७७) इति छत्वं न भवति । न लुमतांगस्येति प्रतिषेधात् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । तस्यासिद्धवदत्राभात् (पा ६-४-२२) इत्यसिद्धत्वादतो हेरिति हेर्लुग्न भवति । केशिभिः क्लिशेरन् लो लोपश्च (उ ५-३३) इत्यन् । मत्वर्थीय इनिः । प्रत्ययस्वरः । हवामहे । ह्व इत्यनुवृत्तौ ङहुलं छंदसीति संप्रसारणम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव तिङ्ङतिङ इति न निघातो हि चेति प्रतिषेधात् ॥ ४ ॥