प्रथमं मण्डलम् - सूक्तम् 112

25 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: द्यावापृथिव्यौ~अग्निः;अश्विनौ छन्दः: जगती

सूक्तम् 1.112 - सम्पूर्णम्

1 / 25
ऋक्: 1.112.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (25)
1.112.1
ईळे॒ द्यावा᳚पृथि॒वी पू॒र्वचि᳚त्तये॒॑ग्निं घ॒र्मं सु॒रुचं॒ याम᳚न्नि॒ष्टये᳚ ।
याभि॒र्भरे᳚ का॒रमंशा᳚य॒ जिन्व᳚थ॒स्ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
ईळे᳚ । द्यावा᳚पृथि॒वी इति᳚ । पू॒र्व॑चि᳚त्तये । अ॒ग्निम् । घ॒र्मम् । सु॒॑रुच᳚म् । याम᳚न् । इ॒ष्टये᳚ ।
याभिः᳚ । भरे᳚ । का॒रम् । अंशा᳚य । जिन्व᳚थः । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ईळ इति पंचविंशत्यृचं सप्तमं सूक्तम् । आंगिरसस्य कुत्सस्यार्षं चतुर्विंशीपंचविंश्यौ त्रिष्टुभौ शिष्टास्त्रयोविंशतिर्जगत्यः । आद्यः पादो द्यावापृथिव्यः । द्वितीय आग्नेय । शिष्टं सूक्तमाश्विनम् । तथा चानुक्रांतम् । ईळे पंचाधिकाश्विनमाद्यौ पादौ लिंगोक्तदेवतावंत्ये त्रिष्टुभाविति ॥ प्रवर्ग्येऽभिष्टवेऽप्येतत्सूक्तम् । सूत्रितं च । ग्रावाणेवेळे द्यावापृथिवी इति (आ ४-६) इति ॥ प्रातरनुवाके चाश्वने क्रतौ जागते छंदस्येतत्सूक्तम् । सूत्रितं च । अगन्ममहातारिष्मेळे द्यावापृथिवी इति जागतम् (आ ४-१५) इति ॥ आश्विनशस्त्रेऽप्येतत् प्रातरनुवाकन्यायेन (आ ६-५) इत्यतिदेशात् । तथाप्तोर्यामे संति चत्वार्यतिरिक्तोक्थानि । तत्राच्छावाकातिरिक्तोक्थ एतत्सूक्तं यस्य पशव इति खंडे सूत्रितम् । ईळे द्यावापृथिवी उभा उ नूनम् । आ । ९-११ । इति ॥

अहं द्यावापृथिवी द्यावापृथिव्यावीळे । स्तौमि । किमर्थम् । पूर्वचित्तये । पूर्वमेवाश्विनोः प्रज्ञापनाय । ते ह्यश्विनौ प्रत्यासन्ने । यद्वा । द्यावापृथिवी अश्विनौ स्तौमि पूर्वचित्तयेऽन्यदीयात्स्तोत्रात्पूर्वमेवास्मदीयस्य स्तोत्रस्य प्रबोधनाय । तथा चोक्तम् । तत्कावश्विनौ द्यावापृथिव्यावित्येके । नि १२-१ । इति । अपि च यामन् । यामन्यश्विनोरागमने सतीष्टये तदीययागार्थमाहवनीयरूपेण स्थापितमग्निं स्तौमीति शेषः । कीदृशमग्निम् । घर्मं प्रवृंजनेन दीप्तं सुरुचं अत एव शोभनकांतियुक्तम् । हे अश्विनौ भरे । संग्रामनामैतत् । संग्रामेंऽशाय युष्मदीयभागाय जयप्राप्त्यर्थं याभिरूतिभिः पालनैः सहागत्य कारम् । कारशब्दः शंखवाचीत्यभियुक्ताः संगिरंते । तेन ह्यभियुक्ताः संगिरंते । कारं शब्दकारिणं शंखं जिन्वथः मुखेनापूरयथः । ताभिस्तादृशैरूतिभिः पालनैः सह । उ इति समुच्चये । अस्मानपि सुष्ठ्वा गतम् । आगच्छतं ॥ ईळे । ईड स्तुतौ । उत्तमैकवचनमिट् । अदादित्वाच्छपो लुक् । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । दावापृथिवी । द्यौश्च पृथिवी च । दिवो द्यावेति द्यावादेश आद्युदात्तोनिपातितः । पृथिवी शब्दो ङीषंतोऽन्तोदात्तः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । आपृथिवीति पर्युदासान्नोत्तरपदेऽनुदात्तादाविति निषेधाभावः । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । पूर्वचित्तये । चती संज्ञाने । अस्मादंतर्भावितण्यर्थाद्भावे क्तिन् । मरद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । सुरुचम् । रुच दीप्तावभिप्रीत्यां च । संपदादिलक्षणो भावे क्विप् । शोभना रुग्यस्य । नञ्सुसुभ्यामित्युत्तरपदांतोदात्तत्वम् । यामन् । या प्रापणे । आतो मनिन्निति कृत्यल्युटो बहुलमिति बहुलवचनाद्भावे मनिन् । कारम् । क्रियतेऽनेनेति कारः । करणे घञ् । कर्षात्वत इत्यंतोदात्तत्वम् । जिन्वथः । जिवि प्रीणनार्थः । अत्र प्रीणनहेतुभूतमापूरणं लक्ष्यते । धनेनापूरितो हि पुरुषः प्रीतो भवति । इदित्त्वान्नुम् । भौवादिकः । शपः पित्त्वादनुदात्तत्वम् । तिङोऽदुपदेशाल्लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । तत्र हि व्यवहितेऽपि कार्यमिष्यत इत्युक्तम् । का ८-१-६६ । ऊ षु । इकः सुञीति दीर्घत्वम् । सुञ इति षत्वम् । ईषाअक्षादित्वात्सुञ उकारस्य प्रकृतिभावः । ऊतिभिः अवतेर्भावे क्तिन् । ज्वरत्वरेत्यादिना वकारस्योपधायाश्च ऊट् । ऊतियूतीत्यादिना निपातनात् क्तिन् उदात्तत्वम् । गतम् । गमेर्लोट बहुलं छंदसीति विकरणस्य लुक् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः ॥ १ ॥

1.112.2
यु॒वोर्दा॒नाय᳚ सु॒भरा᳚ अस॒श्चतो॒ रथ॒मा त᳚स्थुर्वच॒सं न मन्त᳚वे ।
याभि॒र्धियो॑व᳚थ॒ः कर्म᳚न्नि॒ष्टये॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
यु॒वोः । दा॒नाय᳚ । सु॒॑भराः᳚ । अ॒स॒श्चतः᳚ । रथ᳚म् । आ । त॒स्थुः॒ । व॒च॒सम् । न । मन्त᳚वे ।
याभिः᳚ । धियः᳚ । अव᳚थः । कर्म᳚न् । इ॒ष्टये᳚ । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुभराः शोभनस्तोत्रभरणा असश्चतोऽन्यत्रानासक्ताः स्तोतारो हे अश्विनौ युवोर्युवयो रथमा तस्थुः । अतिष्ठंति । प्राप्नुवंति । किमर्थम् । दानाय युष्मत्कर्तृकदानार्थम् । धनलाभायेत्यर्थः । तत्र दृष्टांतः । वचसं न । यथु न्यायोपेतेन वचसा वाक्येन युक्तं विपश्चितं मंतवे बुभुत्सितार्थप्रतिपत्तये स्तोतारः प्राप्नुवंति तद्वत् । अपि च । कर्मन् कर्मणीष्टये । यागार्थं प्रवृतान्धियो ध्यातॄन्विशिष्टज्ञानोपेतान्याभिरूतिभिः पालनैरवथः युवां रक्षथः । ताभिरित्यादि पूर्ववत् ॥ वचसम् । अर्शआदित्वान्मत्वर्थीयोऽच् । मंतवे । मन ज्ञाने । कमिमनिजनीत्यादिना तुप्रत्ययः । धियः । ध्यायंतीति धियः स्तोतारः । ध्यैचिंतायाम् । क्विप्चेति क्विप् । च शब्देन दृतिग्रहणानुकर्षणात्संप्रसारणम् । कर्मन् । सुपां सुलुगिति सप्तम्या लुक् । न ङिसंबुद्ध्योरिति नलोपप्रतिषेधः ॥२ ॥

1.112.3
यु॒वं तासां᳚ दि॒व्यस्य᳚ प्र॒शास᳚ने वि॒शां क्ष᳚यथो अ॒मृत᳚स्य म॒ज्मना᳚ ।
याभि᳚र्धे॒नुम॒स्वं१॒᳚ पिन्व᳚थो नरा॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । तासा᳚म् । दि॒व्यस्य᳚ । प्र॒॑शास᳚ने । वि॒शाम् । क्ष॒य॒थः॒ । अ॒मृत᳚स्य । म॒ज्मना᳚ ।
याभिः᳚ । धे॒नुम् । अ॒स्व᳚म् । पिन्व᳚थः । न॒रा॒ । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरा नेतारावश्विनौ दिव्यस्य दिवि भवस्य स्वर्गसमुत्पन्नस्यामृतस्य सोमस्य पानेनोत्पन्नेन मज्जना बलेन युक्तौ युवं युवां तासां यास्त्रिषु लोकेषु वर्तंते तासां सर्वासां विशां प्रजानां प्रशासने प्रकृष्टानुशासने शिक्षणे क्षयथः । ऐश्वर्यकर्मायम् । ईशाथे । समर्थौ भवथः । यद्वा । मज्मनान्येषामसाधारणेन बलेन विशां प्रजानां दिविभवस्यामृतस्य वृष्ट्युदकस्य प्रशासने प्रदाने क्षयथः । ईश्वरौ भवथः । अपि च याभिरूतिभी रक्षाभिरस्वं प्रसवासमर्थां धेनुं गां शयुनाम्ने ऋषये पिन्वथः सिंचथः । पयसा पूरितवंतावित्यर्थः । ताभिरूतिभिरित्यादि पूर्ववत् ॥ अस्वम् । षूङ् प्राणिगर्भविमोचने । सवनं सूः । संपदादिलक्षणो भावे क्विप् । नास्ति सूर्यस्यामित्यसूः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अमि ओः सुपीति यणादेशः । उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरि तत्वम् । पिन्वथः । पिवि सेचने । इदित्त्वान्नुम् । भौवादिकः ॥ ३ ॥

1.112.4
याभि॒ः परि᳚ज्मा॒ तन᳚यस्य म॒ज्मना᳚ द्विमा॒ता तू॒र्षु त॒रणि᳚र्वि॒भूष᳚ति ।
याभि᳚स्त्रि॒मन्तु॒रभ᳚वद्विचक्ष॒णस्ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । परि᳚॑ज्मा । तन᳚यस्य । म॒ज्मना᳚ । द्वि॒॑मा॒ता । तू॒र्षु । त॒रणिः᳚ । वि॒॑भूष᳚ति ।
याभिः᳚ । त्रि॒॑मन्तुः᳚ । अभ᳚वत् । वि॒॑च॒क्ष॒णः । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

परिज्मा परितो गंता वायुस्तनयस्यात्मीयस्य पुत्रस्याग्नेः । अग्निर्हि व्यानवृत्त्यात्मना वर्तमानेन वायुना मथ्यमानः सन् जायते । तथा च श्रूयते । अथ यः प्राणापानयोः संधिः स व्यानः । अतो यान्यन्यानि वीर्यवंति कर्माणि यथाग्नेर्मंथनमाजेः सरणं दृढस्य धनुष अयमनमप्राणन्ननपानंस्तानि करोतीति । छा उ १-३-३, ४, ५, । यद्वा सृष्ट्यादौ वायुसकाशादुत्पन्नत्वादग्ने । पुत्रत्वम् । आम्नायते च । वायोरग्निरिति । एवं स्वपुत्रस्याग्नेर्मज्मना बलेन युक्तः सन् द्विमाता द्वयोर्लोकर्योर्निर्माता । अग्निः पृथिवीस्थानो वायुरंतरिक्षस्थानः । उभयोर्मिलितयोरुभयनिर्मातृत्वमुपपन्नम् । यद्वा । द्विमातेति तनयस्य विशेषणम् । सुपां सुलुगिति षष्ठ्याः सुः । द्विमातृकस्य द्वाभ्यामरणिभ्याः जातस्य । एवं भूतो वायुर्हे अश्विनौ याभिरूतिभिर्हेतुभूतैः पालनैस्तूर्षु तरीतृषु धावत्सु मध्ये तरणिरतिशयेन तरीता शीघ्रगामी विभूषति व्याप्तो भवति । यद्वा । विभावति विशेषेण सर्वमलंकरोति । अपि च । त्रिमंतुस्त्रयाणां मंता त्रिविधेषु पाकयज्ञहविर्यज्ञ सोमयज्ञेष्वासादितज्ञानः कक्षीवान् याभिर्युष्मदीयाभिरूतिभिर्विचक्षणो विशिष्टज्ञानयुक्तोऽभवत् । ताभिः । सर्वाभिरूतिभिरस्मानागच्छतं ॥ परिज्मा । परिपूर्वादज गतिक्षेपणयोरित्यस्मात् श्वन्नुक्षन्नित्यादौ निपात्यते । तूर्षु । तॄ प्लवनतरणयोः । बहुलं छंदसीत्युत्वम् । हलि चेति दीर्घः । यद्वा । तरतेः क्विप् । ज्वरत्वरेत्यादिना वकारोपधयोरूट् । सावेकाच इति विभक्तेरुदात्तत्वम् । विभूषति भवतेर्लेट्यडागमः । सिब्बहुलं लेटीति सिप् । यद्वा । भूष अलंकारे । भौवादिकः । विचक्षणः अनुदात्तेतश्च हलादेरिति युच् ॥ ४ ॥

1.112.5
याभी᳚ रे॒भं निवृ᳚तं सि॒तम॒द्भ्य उद्वन्द᳚न॒मैर᳚यतं॒ स्व᳚र्दृ॒शे ।
याभि॒ः कण्वं॒ प्र सिषा᳚सन्त॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । रे॒भम् । नि॑वृ᳚तम् । सि॒तम् । अ॒त्॑भ्यः । उत् । वन्द᳚नम् । ऐर᳚यतम् । स्वः᳚ । दृ॒शे ।
याभिः᳚ । कण्व᳚म् । प्र । सिसा᳚सन्तम् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ याभिरूतिभी रेभमेतत्संज्ञमृषिं निवृतमसुरैः कूपेऽप्सु निवारितं सितं तदीयैः पाशैर्बद्दमेवंभूतवृषिमद्भ्यः सकाशादुदैरयतं उदगमयतम् । तथा वंदनमेतत्संज्ञमृषिं च तथा भूतमुदैरयतम् । किमर्थ । स्वरादित्यं दृशे द्रष्टुम् । अपि च कण्वमसुरैरंधकारे प्रक्षिप्तं सिषासंतमालोकं संभक्तुमिच्छंतं याभिरूतिभिः प्रावतं प्रकर्षेणारक्षतम् । ताभिरित्यादि समानं ॥ रेभम् । रेभृ शब्दे । रेभते स्तौतीति रेभः । पचाद्यच् । निवृतम् । वृञ् वरुणे । अस्मादंतर्भावितण्यर्थात्कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । सितम् । षिञ् बंधने । अद्भ्यः ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । वंदनम् । वदि अभिवादनस्तुत्योः वंदते । स्तौतीति वंदनः । नंद्यादिलक्षणो ल्युः । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । स्वरित्येतद्दिवश्चादित्यस्य च साधारणनामधेयम् । तदुक्तं यास्केन । स्वरादित्यो भवति सु अरणः सु ईरणः । दि २-१४ । इति । स्वरादिनिपातम् (पा १-१-३७) इत्यव्ययत्वात्सुपो लुक् । दृशे । दृशे विख्ये चेति दृशेस्तुमर्थे केप्रत्ययांतो निपात्यते । सिषासंतम् । वन षण संभक्तौ । सनि सनीवंतर्धेत्यादिना विकल्पनादिडभावः । जनसनखनां सन्झलोरित्यात्वम् । द्विर्भावेऽभ्यासस्य ह्रस्वत्यम् । सन्यत इतीत्वं ॥ ५ ॥

1.112.6
याभि॒रन्त᳚कं॒ जस᳚मान॒मार᳚णे भु॒ज्युं याभि᳚रव्य॒थिभि᳚र्जिजि॒न्वथु᳚ः ।
याभि᳚ः क॒र्कन्धुं᳚ व॒य्यं᳚ च॒ जिन्व᳚थ॒स्ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । अन्त᳚कम् । जस᳚मानम् । आ॒॑अर᳚णे । भु॒ज्युम् । याभिः᳚ । अ॒व्य॒थि॑भिः᳚ । जि॒जि॒न्वथुः᳚ ।
याभिः᳚ । क॒र्कन्धु᳚म् । व॒य्य᳚म् । च॒ । जिन्व᳚थः । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आरणमगाधं कूपादि । तत्रासुरैः प्रक्षिप्तं जसमानं तैर्हिंस्यमानमंतकं शत्रूणामंतकरमेतत्संज्ञं राजर्षिं हे अश्विनौ याभिरूतिभिरवथः रक्षथः । तथा भुज्युं सर्वस्य पालकमेतत्संज्ञं समुद्रमध्ये निमग्नं तुग्र्यं तुग्रस्य पुत्रं राजर्षिं याभिरूतिभी रक्षणहेतुभूताभिरव्यथिभिर्व्यथारहिताभिर्नौभिर्जिजिन्वथुः । युवामतर्पयतम् । एतच्च मंत्रांतरे । तुग्रो ह भुज्युमश्विनोदमेघे । ऋ १-११६-३ । इत्यादिके विस्पष्टयिष्यते । अपि च कर्कंधुं वय्यं चैतत्संज्ञकौ चासुरैः पीड्यमानौ याभिरूतिभिर्जिन्वर्थः प्रीणयथः । गतमन्यत् ॥ जसमानम् । जस हिंसायाम् । यकि प्राप्ते व्यत्ययेन शप् । आरणे । आङ् पूर्वादर्तेर्ल्युट् । जिजिन्वथुः । जिविः प्रीणनार्थः । लिट्यथुसि रूपं ॥ ६ ॥

1.112.7
याभि᳚ः शुच॒न्तिं ध᳚न॒सां सु᳚षं॒सदं᳚ त॒प्तं घ॒र्ममो॒म्याव᳚न्त॒मत्र᳚ये ।
याभि॒ः पृश्नि᳚गुं पुरु॒कुत्स॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । शु॒च॒न्ति । ध॒न॒॑साम् । सु॒॑सं॒सद᳚म् । त॒प्तम् । घ॒र्मम् । ओ॒म्या॑व᳚न्तम् । अत्र᳚ये ।
याभिः᳚ । पृश्नि᳚॑गुम् । पु॒रु॒॑कुत्स᳚म् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ धनसां धनस्य संभक्तारं शुचंशिमेतन्नामानं सुषंसदम् । संसीदंत्यस्मिन्निति संसद्गृहम् । शोभनसंसदं याभिरूतिभिरकुरुतम् । तथाश्रये याभिश्चोतिभिस्तप्तं प्रवृंजनेन संतप्तं घर्मं महावीरमोम्यावंतं सुखयुक्तं सुखेन स्प्रष्टुं शक्यमकुरुतम् । यद्वा । शतद्वारे यंत्रगृहेऽसुरैः पीड्यमानाय घर्मं दीप्तं पीडासादनमग्निं तप्तं तापकारिणमोम्यावंतं सुखवंतमकुरुतम् । यथास्मै सुखं भवति तथा हिमेनोदकेन तमग्निमवारयेथाम् । यास्कपक्षे त्वत्रये हविषामत्त्रेऽग्नये हविरुत्पत्त्यर्थं सूर्यकिरणसंतप्तं घर्मं नैदाघमहरोम्यावंतं तृप्तिहेतुवृष्ट्युदकोपेतं कृतवंताविति योज्यम् । आपि च याभिरूतिभिः पृश्निगुं पुरुकुत्सं चावतं अरक्षतम् । ताभिः सर्वाभिरूतिभिरस्मानागच्छतं ॥ शुचंतिम् । शुच दीप्तौ । औणादिको झिच् । धनसाम् । जनसनखनक्रमगमो विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । सुषंसदम् । शोभना संसद्यस्य । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । ओम्यावंतम् । अवतेरन्येभ्योऽपि दृश्यंत इति मनिन् । ज्वरत्वरेत्यादिना वकारस्योपधायाश्च ऊट् । गुणः । छंदसि चेत्यर्हार्थे यप्रत्ययः । नस्तद्धित इति टलोपः । ये चाभावकर्मणोरिति प्रकृतिभावस्तु व्यत्ययेन न प्रवर्तते । पृश्निगुम् । पृश्नयो नानावर्ण गावो यस्य स तथोक्तः । गोस्त्रियोरुपसर्जनस्य (पा १-२-४८) इति गोशब्दस्य ह्रस्वत्वं ॥ ७ ॥

1.112.8
याभि॒ः शची᳚भिर्वृषणा परा॒वृजं॒ प्रान्धं श्रो॒णं चक्ष᳚स॒ एत᳚वे कृ॒थः ।
याभि॒र्वर्ति᳚कां ग्रसि॒ताममु᳚ञ्चतं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । शची᳚भिः । वृ॒ष॒णा॒ । प॒रा॒॑वृज᳚म् । प्र । अ॒न्धम् । श्रो॒णम् । चक्ष᳚से । एत᳚वे । कृ॒थः ।
याभिः᳚ । वर्ति᳚काम् । ग्र॒सि॒ताम् । अमु᳚ञ्चतम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृषणा कामानां वर्षितारावश्विनौ याभिः शचीभिः कर्मभिः प्रज्ञाभिर्वापरावृजमेतन्नामकमृषिं पंगुं संतमपंगुमकुरुतम् । तथांधं दृष्टिरहितं संतमृतज्राश्वमृषिं चक्षसे प्रकाशाय सम्यक् चक्षुषा दर्शनाय याभिरूतिभिः प्र कृथः प्रकर्षेण कुरुथः । याभिश्च श्रोणं विगुणजानुकमेव संतमृषिमेतवे गंतुं प्र कृथः । प्रकर्षेण कृतवंतौ । अपि च याभिरूतिभिर्वर्तिकां चटकसदृशस्य पक्षिणः स्त्रियं ग्रसितां वृकेण ग्रस्ताममुंचतम् । वृतास्यान्निर्मुक्तामकुरुतम् । यास्कपक्षे तु वृकेण विवृतज्योतिष्केण सूर्येण याभिर्ग्रस्तां वर्तिकां प्रत्यहमावर्तमानामुषसं तस्मादमोचयतमिति योज्यम् । ताभिः सर्वाभिरूतिभिरस्मानप्यागच्छतं ॥ वृषणा । वृष सेचने । कनिन्युवृषीत्यादिना कनिन् । परावृजम् । वृजी वर्जने । परावृणक्ति तपसा पापं विनाशयतीति परावृक् । क्विप्चेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । एतवे । तुमर्थे सेसेनित्येतेस्तवेन्प्रत्ययः । कृथः । डुकृञ् करणे । बहुलं छंदसीति विकरणस्य लुक् ॥ ८ ॥

1.112.9
याभि॒ः सिन्धुं॒ मधु᳚मन्त॒मस᳚श्चतं॒ वसि᳚ष्ठं॒ याभि᳚रजरा॒वजि᳚न्वतम् ।
याभि॒ः कुत्सं᳚ श्रु॒तर्यं॒ नर्य॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । सिन्धु᳚म् । मधु᳚॑मन्तम् । अस᳚श्चतम् । वसि᳚ष्ठम् । याभिः᳚ । अ॒ज॒रौ॒ । अजि᳚न्वतम् ।
याभिः᳚ । कुत्स᳚म् । श्रु॒तर्य᳚म् । नर्य᳚म् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ सिंधु स्यंदनशीलां नदीं मधुमंतं मधुसदृशेनोदकेन पूर्णां याभिरूतिभिरसश्चतं अगमयतम् । प्रावाहयतमित्यर्थः । हे अजरौ जरारहितावश्विनौ वसिष्ठमृषिं याभिरूतिभिरजिन्वतम् । अप्रीणयतम् । याभिश्च कुत्सादींस्त्रीनृषीनावतम् । अरक्षतम् । ताभिः सर्वाभिरूतिभिरस्मानपि सुष्ठ्वागच्छतं ॥ मधुमंतम् । मधुशब्दाद्भूम्नि मतुप् । लिंगव्यत्ययः । असश्चतम् । सश्चतिर्गतिकर्मा । अस्मादंतर्भावित ण्यर्थाल्लुङ् ॥ ९ ॥

1.112.10
याभि᳚र्वि॒श्पलां᳚ धन॒साम᳚थ॒र्व्यं᳚ स॒हस्र᳚मीळ्ह आ॒जावजि᳚न्वतम् ।
याभि॒र्वश᳚म॒श्व्यं प्रे॒णिमाव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । वि॒श्पला᳚म् । ध॒न॒॑साम् । अ॒थ॒र्व्य᳚म् । स॒हस्र᳚॑मीळ्हे । आ॒जौ । अजि᳚न्वतम् ।
याभिः᳚ । वश᳚म् । अ॒श्व्यम् । प्रे॒णिम् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ धनसां धनं संभजमानामथर्व्यमगच्छंतीं छिन्नजंघात्वेन गंतुमसमर्थाम् । थर्वतिर्गतिकर्मा । विश्पलामेतत्संज्ञामगस्त्यपुरोहितस्य खेलस्य संबंधिनीम् । सहस्रमीळ्हे । मीळ्हमिति धननाम । बहुधनोपेत आजौ संग्रामे याभिरूतिभिरजिन्वतम् । गंतुं समर्थामकुरुतम् । एतच्च चरित्रं हि वेरिवाच्छेदि पर्णम् । ऋ १-११६-१५ । इत्यत्र विस्पष्टयिष्यते । याभिश्चाश्व्यमश्वाख्यस्य पुत्रं प्रेणिं स्तुतेः प्रेरयितारं वशमेतत्संज्ञमृषिमावतम् । अरक्षतम् । ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ प्रेणिम् । प्रेणृ गतिप्रेरणश्लेषणेषु । औणादिक इप्रत्ययः ॥ १० ॥

1.112.11
याभि᳚ः सुदानू औशि॒जाय᳚ व॒णिजे᳚ दी॒र्घश्र᳚वसे॒ मधु॒ कोशो॒ अक्ष᳚रत् ।
क॒क्षीव᳚न्तं स्तो॒तारं॒ याभि॒राव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । सु॒दा॒नू॒ इति᳚ सु॑दानू । औ॒शि॒जाय᳚ । व॒णिजे᳚ । दी॒र्घ॑श्र᳚वसे । मधु᳚ । कोशः᳚ । अक्ष᳚रत् ।
क॒क्षीव᳚न्तम् । स्तो॒तार᳚म् । याभिः᳚ । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उशिक् संज्ञा दीर्घतमसः पत्नी । तस्याः पुत्रो दीर्घश्रवा नाम कश्चिदृषिरनावृष्ट्यां जीवनार्थमकरोद्वाणिज्यम् । स च वर्षणार्थमश्विनौ तुष्टाव । तौ चाश्विनौ मेघं प्रेरितवंतौ । अयमर्थः पूर्वार्धे प्रतिपाद्यते । हे सुदानू शोभनदानावश्विनौ । औशिजायोशिक् पुत्राय वणिजे वाणिज्यं कुर्वते दीर्घश्रवस एतत्संज्ञाय ऋषये याभिर्युष्मदीयाभिरूतिभिर्हेतुभूताभिः कोशो मेघो मधु माधुर्योपेतं वृष्टिजलमक्षरत् असिंचत् । युष्मत्प्रसादादपेक्षिता वृष्टि र्जातेत्यर्थः । अपि चोशिजः पुत्रं स्तोतारं कक्षीवंतमेतत्संज्ञमृषिं याभिरूतिभिरावतम् । अक्षरतं ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ कक्षीवंतम् । कक्ष्यारज्जुरश्वस्य तया युक्तः कक्षीवान् । आसंदीवदष्ठीवच्चक्रीवत्कक्षीवदिति निपातनान्मतुपो वत्वम् । संप्रसारणं ॥ ११ ॥

1.112.12
याभी᳚ र॒सां क्षोद᳚सो॒द्नः पि᳚पि॒न्वथु᳚रन॒श्वं याभी॒ रथ॒माव᳚तं जि॒षे ।
याभि᳚स्त्रि॒शोक᳚ उ॒स्रिया᳚ उ॒दाज᳚त॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । र॒साम् । क्षोद᳚सा । उ॒द्नः । पि॒पि॒न्वथुः᳚ । अ॒न॒श्वम् । याभिः᳚ । रथ᳚म् । आव᳚तम् । जि॒षे ।
याभिः᳚ । त्रि॒॑शोकः᳚ । उ॒स्रियाः᳚ । उ॒त्॑आज᳚त । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रसा नदी भवति रसतेः शब्दकर्मण इति यास्कः । नि ११-२५ । हे अश्विनौ याभिरूतिभिर्हेतुभूताभी रसां नदीमनावृष्ट्या जलरहितां क्षोदसा कूलानि संपिंषतोद्न उदकेन पिपिन्वथुः युवां पूरितवंतौ । तथानश्वमश्वैर्विर्युक्तमात्मीयं रथं जिषे जेतुं याभिरूतिभिरावतं अगमयतम् । अपि च याभिरूतिभिः कण्वपुत्रस्त्रिशोक ऋषिरुस्रिया अपहृता गा उदाजत उदगमयत् । असुरसकाशाल्लेभे । ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ क्षोदसा । क्षुदिर् संपेषणे । औणादिकोऽसुन् । उद्नः । तृतीयैकवचनस्य सुपां सुपो भवंतीति । शसादेशः । पद्दन्नित्यादिनोदकशब्दस्योदन् भावः । भसंज्ञायामल्लोपोऽन इत्यकारलोपः । पिपिन्वथुः । पिवि सेचने । इदित्त्वान्नुम् । जिषे । जि जये । तुमर्थे सेसेनिति क्सेप्रत्ययः । उदाजत । अज गतिक्षेपणयोः ॥ १२ ॥

1.112.13
याभि॒ः सूर्यं᳚ परिया॒थः प᳚रा॒वति᳚ मन्धा॒तारं॒ क्षैत्र᳚पत्ये॒ष्वाव᳚तम् ।
याभि॒र्विप्रं॒ प्र भ॒रद्वा᳚ज॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । सूर्य᳚म् । प॒रि॒॑या॒थः । प॒रा॒॑वति᳚ । म॒न्धा॒तार᳚म् । क्षैत्र᳚॑पत्येषु । आव᳚तम् ।
याभिः᳚ । विप्र᳚म् । प्र । भ॒रत्॑वा᳚जम् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ परावति दूरदेशे स्थितं सूर्यं तमोरूपेण स्वर्भानुनावृतमादित्यं तस्मात्तमसो मोचयितुं याभिरूतिभिः परियाथः युवां परितो गच्छथः । तथा मंदातारमृषिं क्षैत्रपत्येषु । क्षेत्राणां पतिरधिपतिः क्षेत्रपतिः । तत्संबंधिषु कर्मस्वावतं अरक्षतम् । अपि च याभिरूतिभिर्विप्रं मेधाविनं भरद्वाजमृषिमन्नप्रदानेन प्रावतं प्रकर्षेणारक्षतम् । ताभिः सर्वाभिरूतिभिः सह रक्षणार्थमस्मानप्यागच्छतं ॥ क्षैत्रपत्येषु । ब्राह्मणादेराकृतिगणत्वात्कर्मण्यर्थे ष्यञ् ॥ १३ ॥

1.112.14
याभि᳚र्म॒हाम᳚तिथि॒ग्वं क᳚शो॒जुवं॒ दिवो᳚दासं शम्बर॒हत्य॒ आव᳚तम् ।
याभि᳚ः पू॒र्भिद्ये᳚ त्र॒सद᳚स्यु॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । म॒हाम् । अ॒ति॒थि॒॑ग्वम् । क॒शः॒॑जुव᳚म् । दिवः᳚॑दासम् । श॒म्ब॒र॒॑हत्ये᳚ । आव᳚तम् ।
याभिः᳚ । पूः॒॑भिद्ये᳚ । त्र॒सद᳚स्युम् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ महां महांतमतिथिग्वमतिथिग्वमतिथिभिर्गंतव्यं कशोजुवमसुरभीत्योदकं प्रवेष्टुं गंतारं एवंभूतं दिवोदासमेतत्संज्ञकं राजर्षिं शंबरहत्ये । शंब आआयुधम् । तद्युक्तः शंबरोऽसुरः । तस्य हनने विषयभूते सति याभिरूतिभिरावतं अरक्षतम् । अपि च याभिरूतिभिः पूर्भिद्ये । पुराणि नगराणि भिद्यंतेऽस्मिन्निति पूर्भिद्यः संग्रामः । तस्मिन् त्रसदस्युमेतत्संज्ञकमृषिं पुरुकुत्सपुत्रमावतं अरक्षतम् । ताभिरित्यादिपूर्ववत् ॥ महाम् । महांतमित्यस्य छांदसो वर्णलोपः । कशोजुवम् । कश इत्युदकनाम । कश गतिशातनयोः । असुन् । कशांस्युदकानि जवतीति कशोजूः । जु इति सौत्रो धातुर्गत्यर्थः । क्विब्वचीत्यादिना (उ २-५७) क्विब्दीर्घौ । दिवोदासम् । दिवश्च दासे षष्ठ्या अलुग्वक्तव्यः का । ६-३-२१-५ । इत्यलुक् । दिवोदासादीनां छंदस्युपसंख्यानम् । पा ६-२-९१-१ । इति पूर्वपदाद्युदात्तत्वम् । शंबरहत्ये । हनस्त चेति हंतेर्भावे क्यप् । तत्सन्नि योगेन तकारांतादेशश्च । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १४ ॥

1.112.15
याभि᳚र्व॒म्रं वि᳚पिपा॒नमु᳚पस्तु॒तं क॒लिं याभि᳚र्वि॒त्तजा᳚निं दुव॒स्यथः᳚ ।
याभि॒र्व्य᳚श्वमु॒त पृथि॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । व॒म्रम् । वि॒॑पि॒पा॒नम् । उ॒प॒॑स्तु॒तम् । क॒लिम् । याभिः᳚ । वि॒त्त॑जा᳚निम् । दु॒व॒स्यथः᳚ ।
याभिः᳚ । वि॑अ᳚श्वम् । उ॒त । पृथि᳚म् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वम्रं विखनसः पुत्रमेतत्संज्ञमृषिं विपिपानं विशेषेण पार्थिवं रसं पिबंतं याभिरूतिभिररक्षतम् । कीदृशम् । उपस्तुतं समीपस्थैः सम्यक् स्तुतमिति स्तूयमानम् । तथा वित्तजानिं लब्धभार्यं कलिमेतत्संज्ञमृषिं याभिरूतिभिर्दुवस्यथः रक्षथः । उतापि च व्यश्वं विगताश्वं पृथिमेतत्संज्ञं वैनं राजर्षिं याभिरूतिभिरावतं अरक्षतम् । अन्यत्पूर्ववत् ॥ विपिपानम् । पा पाने । ताच्छीलिकश्चानश् । बहुलं छंदसीति शपः श्लुः । बहुलं छंदसीत्यभ्यासस्येत्वम् । उपस्तुतम् । स्तौतेः कर्मणि निष्ठा । प्रवृद्धादित्वादुत्तरपदांतोदात्तत्वम् (पा ६-२-१४७) वित्तजानिम् । वित्ता लब्धा जाया येन स तथोक्तः । जायाया निङ् (पा ५-४-१३४) इति समासांतो निङादेशः । लोपो व्योर्वलीति वलि लोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । व्यश्वम् । विगतोऽश्वो यस्मात्स तथोक्तः । बहुव्रीहिस्वरेण पूर्वपदस्योदात्तत्व उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वं ॥ १५ ॥

1.112.16
याभि᳚र्नरा श॒यवे॒ याभि॒रत्र᳚ये॒ याभि᳚ः पु॒रा मन᳚वे गा॒तुमी॒षथु᳚ः ।
याभि॒ः शारी॒राज᳚तं॒ स्यूम᳚रश्मये॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । न॒रा॒ । श॒यवे᳚ । याभिः᳚ । अत्र᳚ये । याभिः᳚ । पु॒रा । मन᳚वे । गा॒तुम् । ई॒षथुः᳚ ।
याभिः᳚ । शारीः᳚ । आज᳚तम् । स्यूम᳚॑रश्मये । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरा नेतारावश्विनौ पुरा पूर्वस्मिन्काले शयव एतत्संज्ञकाय ऋषये गातुं दुःखान्नि र्गमनलक्षणं मार्गं याभिरूतिभिरीषथुः युवां वांछितवंतौ । कृतवंतावित्यर्थः । किं तत् । सामर्थ्यात् शयवे चिन्ना सत्या शचीभिः । ऋ १-११६-२२ । इत्यस्यामृचि प्रतिपादितम् । तथात्रये ऋषये शतद्वारे यंत्रगृहेऽसुरैः पीड्यमानाय संतापकारिणोऽग्नेः शीतेनोदकेन शीतकरणलक्षणं गातुं दारिद्र्यनिर्गमनहेतुं मार्गं युवां कृतवंतौ । तथा च मंत्रांतरम् । यवं वृकेणाश्विना वपंता । ऋ १-११७-२१ इति । अपि च स्यमरश्मये स्यूतः संबद्धो रश्मिर्दीप्तिर्यस्य तस्मै एतत्संज्ञकाय ऋषये याभिरूतिभिः शारीः । शरो नाम वेणुविशेषः । तद्विकारभूता इषूराजतं शत्रून्प्रतिप्रैरयतम् । ताभिरूतिभिरित्यादि पूर्ववत् ॥ नरा । नृ नये ऋूदोरप् । सुपां सुलुगिति विभक्तेराकारः । शयवे । शीङ् स्वप्ने । भृमृशीतॄचरीत्यादिना (उ १-७) उप्रत्ययः । ईषथुः । इषु इच्छायाम् । लिट्यथुस्यसवर्ण इति पर्युदासादत् (पा ६-४-७८) अभ्यासस्येयङादेशाभावे सवर्णदीर्घः । शारीः विकारार्थे शरशब्दादनुदात्तादेश्चेत्यञ् । टिड्ढाणञिति ङीप् । स्यूमरश्मये । षिवु तंतुसंताने । सिवेरौणादिको मन्प्रत्ययः । छ्वोः शूडित्यूट् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १६ ॥

1.112.17
याभि॒ः पठ᳚र्वा॒ जठ᳚रस्य म॒ज्मना॒ग्निर्नादी᳚देच्चि॒त इ॒द्धो अज्म॒न्ना ।
याभि॒ः शर्या᳚त॒मव᳚थो महाध॒ने ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । पठ᳚र्वा । जठ᳚रस्य । म॒ज्मना᳚ । अ॒ग्निः । न । अदी᳚देत् । चि॒तः । इ॒द्धः । अज्म᳚न् । आ ।
याभिः᳚ । शर्या᳚तम् । अव᳚थः । म॒हा॒॑ध॒ने । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ जठरस्य । जठरमुदरं भवति जग्धमस्मिन्ध्रियत इति यास्कः (नि ४-७) जठरोपलक्षितस्य शरीरस्य मज्मना बलेन युक्तः सन् पठर्वैतत्संज्ञो राजर्षिरज्मन् । संग्रामनामैतत् । अज्मनि संग्रामे युष्मदीयाभिर्याभिररूतिभिरा समंताददीदेत् । अदीप्यत । तत्र दृष्टांतः । चितः काष्ठैरभिचित इद्धो यज्ञगृह ऋत्विग्भिः प्रज्वालितोऽग्निर्न । यथाग्निः प्रकाशते तद्वदित्यर्थः । अपि च शर्यातं मानवमिंद्रेण सह स्पर्धमानं महाधने । संग्रामनामैतत् । महता धनेनोपेते संग्रामे याभिरूतिभिरवथः रक्षथः ताभिरित्यादि गतं ॥ अदीदेत् । दीदेतिश्छांदसो दीप्तिकर्मा । अज्मन् । अज गतिक्षेपणयोः । अजंति क्षिपंत्यस्मिन्बाणानित्यधिकरण औणादिको मनिन् । वलादावार्धधातुके विकल्प इष्यते । का २-४-५६-२ । इति वचनाद्वीभावाभावः । सुपां सुलुगिति सप्तम्या लुक् । महाधने । आन्महत इत्यात्वं ॥ १७ ॥

1.112.18
याभि᳚रङ्गिरो॒ मन᳚सा निर॒ण्यथो॑ग्रं॒ गच्छ᳚थो विव॒रे गोअ᳚र्णसः ।
याभि॒र्मनुं॒ शूर᳚मि॒षा स॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । अ॒ङ्गि॒रः॒ । मन᳚सा । नि॒॑र॒ण्यथः᳚ । अग्र᳚म् । गच्छ᳚थः । वि॒॑व॒रे । गो॑अ᳚र्णसः ।
याभिः᳚ । मनु᳚म् । शूर᳚म् । इ॒षा । स॒म्॑आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अंगिर इत्येतदामंत्रितं वाक्याद्बहिर्भूतम् । तेन चात्मानं संबोध्य स्तुतावृषिं प्रेरयति । हे अंगिरोऽअंगिरसां गोत्रज त्वमश्विनौ स्तुहि । हे अश्विनौ मनसा मननीयेन स्तोत्रेण प्रीतौ संतौ युवां याभिरूतिभिर्निरण्यथः । स्तोतॄन् नितरां रमयथः । यद्वा । मनसैव करणभूतेन रमयथः । तथा गोअर्णसो गोरूपस्यारणीयस्य धनस्य पणिभिर्गुहायां निहितस्य विवरे विवरणे गुहाद्वारस्योद्घाटनेन प्रकाशने विषयभूते सति याभिरूतिभिः । सह युवामग्रं सर्वेभ्यो देवेभ्यः पुरस्ताद्गच्छथः । अपि च शूरं वीर्यवंतं मनुमिषा पृथिव्यामुप्तेन यवादिधान्यरूपेणान्नेन याभिरूतिभिः समावतम् । सम्यगरक्षतं ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ निरण्यथः । निरमयथ इत्यस्य वर्णव्यापत्त्यैतद्रूपम् । विवरे । ग्रहवृदृनिश्चिगमश्चेति भावेऽप् । थाथादिनोत्तरपदांतोदात्तत्वं ॥ १८ ॥

1.112.19
याभि॒ः पत्नी᳚र्विम॒दाय᳚ न्यू॒हथु॒रा घ᳚ वा॒ याभि᳚ररु॒णीरशि᳚क्षतम् ।
याभि᳚ः सु॒दास᳚ ऊ॒हथु᳚ः सुदे॒व्यं१॒᳚ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । पत्नीः᳚ । वि॒॑म॒दाय᳚ । नि॒॑ऊ॒हथुः᳚ । आ । घ॒ । वा॒ । याभिः᳚ । अ॒रु॒णीः । अशि᳚क्षतम् ।
याभिः᳚ । सु॒॑दासे᳚ । ऊ॒हथुः᳚ । सु॒॑दे॒व्य᳚म् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ विमदायैतन्नाम्न ऋषये याभिर्युष्मदीयाभिरूतिभिः पत्नीर्भार्याः पुरुमित्रस्य दुहितरं न्यूहथुः । नितरां युवां प्रापितवंतौ । घेति पादपूरणः । तथा याभिरूतिभिररुणीररुणवर्णा आरोचमाना गा आभिमुख्येनाशिक्षतम् । अदत्तम् । तथा पिजनवपुत्राय सुदासे कल्याणदानाय राज्ञे सुदेव्यं प्रशस्तं धनं याभिरूतिभिरूहथुः प्रापितवंतौ । ताभिरित्यादि गतं ॥ पत्नीः । अमो व्यत्ययेन शसादेशः । न्यूहथुः । वह प्रापणे । अथुसि यजादित्वात्संप्रसारणम् । द्विर्वचनादि । सुदासे । शोभनं ददातीति सुदाः । असुन् । सुदेव्यं दिगादित्वाद्यत् (पा ४-३-५४) तित्स्वरित इति स्वरितत्वं ॥ १९ ॥

1.112.20
याभि॒ः शंता᳚ती॒ भव᳚थो ददा॒शुषे᳚ भु॒ज्युं याभि॒रव᳚थो॒ याभि॒रध्रि᳚गुम् ।
ओ॒म्याव᳚तीं सु॒भरा᳚मृत॒स्तुभं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । शन्ता᳚ती॒ इति॒ शम्॑ता᳚ती । भव᳚थः । द॒दा॒शुषे᳚ । भु॒ज्युम् । याभिः᳚ । अव᳚थः । याभिः᳚ । अध्रि᳚॑गुम् ।
ओ॒म्या॑व᳚तीम् । सु॒॑भरा᳚म् । ऋ॒त॒॑स्तुभ᳚म् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ ददाशुषे हवींषि दत्तवते यजमानाय याभिरूतिभिः शंताती सुखस्य कर्तारौ भवथः । याभिश्चोतिभिर्भुज्युं तुग्रस्य पुत्रमवथः । याभिश्चाद्रिगुम् । अध्रिगुर्देवानां शमिता । अध्रिगुश्चापापश्च उभौ देवानां शमितारौ । तै । ब्रा ३-६-६-४ । इति श्रुतेः । अपि च ऋतस्तुभम् । ऋतं सत्यं स्तोभत्युच्छारयतीत्यृतस्तुप् । एतत्संज्ञमृषिं ओम्यावतीम् । ओम्येति सुखनाम । तद्युक्तां सुभरां सुखेन भरणीयामिषं याभिरूतिभिः प्रापयथः । ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ शंताती । शिवशमरिष्टस्य करे (पा ४-४-१४३) इति तातिल् प्रत्ययः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । ददाशुषे । दाशृ दाने लिटः क्वसुः । वसो संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ २० ॥

1.112.21
याभि᳚ः कृ॒शानु॒मस᳚ने दुव॒स्यथो᳚ ज॒वे याभि॒र्यूनो॒ अर्व᳚न्त॒माव᳚तम् ।
मधु᳚ प्रि॒यं भ᳚रथो॒ यत्स॒रड्भ्य॒स्ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । कृ॒शानु᳚म् । अस᳚ने । दु॒व॒स्यथः᳚ । ज॒वे । याभिः᳚ । यूनः᳚ । अर्व᳚न्तम् । आव᳚तम् ।
मधु᳚ । प्रि॒यम् । भ॒र॒थः॒ । यत् । स॒रट्॑भ्यः᳚ । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वानादिषु सोमपालेषु मध्ये कृशानुरेकः सोमपालः । तथा च तैत्तिरीयकम् । हस्त सुहस्त कृशानवेते वः सोमक्रयाणाः । तै सं १-२-७ । इति । तं कृशानुमसने । इषवोऽस्यंतेऽस्मिन्नित्यसनः संग्रामः । तस्मिन्संग्रामे हे अश्विनौ याभिरूतिभिर्दुवस्यथः । रक्षथः । तथा याभिश्च जवे वेगे प्रवृत्तं यूनस्तरुणस्य पुरुकुत्सस्यार्वंतमश्वमावतं अरक्षतम् । अपि च यन्मधु क्षौद्रं प्रियं सर्वेषामनुकूलवेद्यं तत्सरड् भ्यो मधुमक्षिकाभ्यो याभिश्चोतिभिर्भरथः । संपादयथः ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ असने । असु क्षेपणे । करणाधिकरणयो श्चेत्यधिकरणे ल्युट् । सरड् भ्यः । सृ गतौ । सर्तेरटः ॥ २१ ॥

1.112.22
याभि॒र्नरं᳚ गोषु॒युधं᳚ नृ॒षाह्ये॒ क्षेत्र᳚स्य सा॒ता तन᳚यस्य॒ जिन्व᳚थः ।
याभी॒ रथा{4}॒ अव᳚थो॒ याभि॒रर्व᳚त॒स्ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । नर᳚म् । गो॒षु॒॑युध᳚म् । नृ॒॑सह्ये᳚ । क्षेत्र᳚स्य । सा॒ता । तन᳚यस्य । जिन्व᳚थः ।
याभिः᳚ । रथा᳚न् । अव᳚थः । याभिः᳚ । अर्व᳚तः । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ गोषु युधं गोविषयं युद्धं कुर्वंतं नरं यज्ञस्य नेतारं यजमानं याभिरूतिभिर्नृषाह्ये नृभिः सोढव्ये संग्रामे जिन्वथः प्रीणयथः । रक्षथ इत्यर्थः । तथा क्षेत्रस्य गृहादिरूपस्य । तनयशब्दो धनवाची । तनयस्य धनस्य च साता सातये संभजनार्थं याभिरूतिभिर्यजमानं रक्षथः । याभिश्च यजमानाना रथान्रक्षथः । तदीयानर्वतोऽश्वांश्च याभिरवथः । ताभिः सर्वाभिरूतिभिऽ सहास्मानप्यागच्छतं ॥ गोषु युधम् । युध संप्रहारे । गोषु युध्यत इति गोषुयुत् । तत्पुरुषे कृति बहुलमित्यलुक् । नृषाह्ये । षह मर्षणे । शकिसहोश्चेति यत् अन्येषामपि दृश्यत इति सांहितिको दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । साता वन षण संभक्तौ । भावे क्तिन् । जनसनखनां सन् झलोरित्यात्वम् । ऊतियूतीत्यादिना क्तिन उदात्तत्वं निपातितम् । सुपां सुलुगिति चतुर्थ्या डादेशः । जिन्वथः । जिवि प्रीणनार्थः । भौवादिकः । इदित्त्वान्नुम् । रथान् । दीर्घादट समानपाद इति नकारस्य रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः ॥ २२ ॥

1.112.23
याभि॒ः कुत्स᳚मार्जुने॒यं श᳚तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च᳚ द॒भीति॒माव᳚तम् ।
याभि᳚र्ध्व॒सन्तिं᳚ पुरु॒षन्ति॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । कुत्स᳚म् । आ॒र्जु॒ने॒यम् । श॒त॒क्र॒तू॒ इति᳚ शत॑क्रतू । प्र । तु॒र्वीति᳚म् । प्र । च॒ । द॒भीति᳚म् । आव᳚तम् ।
याभिः᳚ । ध्व॒सन्ति᳚म् । पु॒रु॒॑सन्ति᳚म् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतू बहुविधकर्माणावश्विनौ । आर्जुनेयं अर्जुन इतींद्रस्य नाम । तथा च वाजसनेयकम् । एतद्वा इंद्रस्य गुह्यं नाम यदर्जुन इति । तस्य पुत्रं कुत्सं याभिरूतिभिः प्रावतम् । प्रकर्षेणारक्षतम् । तथा तुर्वीतिं दभीतिं च याभिरूतिभिः प्रावतम् । अपि च । याभिर्ध्वसंतिमेतत्संज्ञं पुरुषंतिमेतन्नामानं च ऋषिमावतम् । अरक्षतम् । ताभिः सर्वाभिरूतिभिः सहास्मानपि सुष्ठ्वागच्छतं ॥ आर्जुनेयम् । शुभ्रादिभ्यश्च (पा ४-१-१२३) इति चशब्दोऽनुक्तसमुच्चयार्थः इत्युक्तत्वात् ढक् । तुर्वीतिम् । तुर्वी हिंसार्थः । शत्रूंस्तुर्वतीति तुर्वीतिः । औणादिक ईतिप्रत्ययः । दभीतिम् । दन्भु दंभे औणादिकः कीतिप्रत्ययः । ध्वसंतिम् । ध्वंसु गतौ च । औणादिको झिङ् प्रत्ययः । अनिदितामिति नलोपः झोंऽतः । पुरुषंतिम् । पुरु सनोति ददातीति पुरुषंतिः । क्तिच् क्तौ च संज्ञायामिति क्तिच् । न क्तिचि दीर्घश्चेत्यनुनासिकलोपोपधादीर्घयोर्निषेधः ॥ २३ ॥

1.112.24
अप्न᳚स्वतीमश्विना॒ वाच᳚म॒स्मे कृ॒तं नो᳚ दस्रा वृषणा मनी॒षाम् ।
अ॒द्यू॒त्ये॑व᳚से॒ नि ह्व᳚ये वां वृ॒धे च᳚ नो भवतं॒ वाज᳚सातौ ॥
▶ पदपाठः (Word-by-word)
अप्न᳚स्वतीम् । अ॒श्वि॒ना॒ । वाच᳚म् । अ॒स्मे इति᳚ । कृ॒तम् । नः॒ । द॒स्रा॒ । वृ॒ष॒णा॒ । म॒नी॒षाम् ।
अ॒द्यू॒त्ये᳚ । अव᳚से । नि । ह्व॒ये॒ । वा॒म् । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज᳚॑सातौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ । अस्मे अस्माकं वाचमप्नस्वतीम् । अप्न इति कर्मनाम । विहितैः कर्मभिः संयुक्तां कृतम् । कुरुतम् । तथा नोऽस्माकं मनीषां बुद्धिं हे वृषणा कामानां वर्षकौ दस्रा शत्रूणामुपक्षपयितारावश्विनौ वेदार्थज्ञानसमर्थां कुरुतम् । अपि च यस्माद्युवामेवंगुणविशिष्टौ तस्माद्वां युवामवसे रक्षणाय नि ह्वये । नितरामाह्वये । कदा । अद्यूत्ये द्योतनरहिते प्रकाशनरहिते रात्रेः पश्चिमे यामे । तस्मिन्काले हि प्रातरनुवाकाश्विनशस्त्रयोरिदं सूक्तं पठ्यते । आहूतौ च युवां वाजसातौ वाजस्यान्नस्य संभजने । यद्वा । संग्रामनामैतत् । संग्रामे नोऽस्माकं वृधे वर्धनाय भवतं ॥ अप्नस्वतीम् । आपः कर्माख्यायां ह्रस्वो नुट्च । वेत्यसुन् । नुडागमश्च । तदस्यास्तीति मतुप् । मादुपधाया इति मतुपो वत्वम् । तसौ मत्वर्थः इति भत्वेन पदत्वाभावाद्रुत्वाद्यभावः । अस्मे । सुपां सुलुगिति षष्ठ्याः शे आदेशः । कृतम् । करोतेर्लोट बहुलं छंदसीति विकरणस्य लुक् । अद्यूत्ये । द्युत दीप्तौ । ऋहलोर्ण्यदिति भावे ण्यत् । वर्णव्यापत्त्या ऊकारः । द्यूत्यं प्रकाशनमस्मिन्नास्तीति बहुव्रीहौ व्यत्ययेनांतस्वरितत्वम् । नि ह्वये । नि समुपविभ्यो ह्व इत्यात्मनेपदम् । वृधे । वृधु वृद्धौ । संपदादिलक्षणो भावे क्विप् । सावेकाच इति विभक्तेरुदात्तत्वं ॥ २४ ॥

1.112.25
द्युभि᳚र॒क्तुभि॒ः परि᳚ पातम॒स्मानरि᳚ष्टेभिरश्विना॒ सौभ᳚गेभिः ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
द्यु॑भिः᳚ । अ॒क्तु॑भिः᳚ । परि᳚ । पा॒त॒म् । अ॒स्मान् । अरि᳚ष्टेभिः । अ॒श्वि॒ना॒ । सौभ᳚गेभिः ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ द्युभिर्दिवसैरक्तुभी रात्रिभिश्चास्मान् स्तोतॄन्परि पातम् । परितो रक्षतम् । सर्वदास्मान् रक्षतमित्यर्थः । तथारिष्टेभिरहिंसित्वॆः सौभगेभिः सुभगत्वैः सुभगत्वापादकैर्धनैरस्मान्रक्षतम् । यदस्माभिः प्रार्थितं नोऽस्मदीयं तन्मित्रादयः षड्डेवताः ममहंताम् । पूजयंतु । उतशब्दः समुच्चये ॥ द्युभिः । दिव उदित्युत्वम् । दिवो झल् (पा ६-१-१८३) इति सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य प्रतिषेधः । अरिष्टेभिः । रिष हिंसायाम् । निष्ठेति क्तः । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । बहुलं छंदसीति भिस ऐसभावः । अश्विना । सुपां सुलुगिति विभक्तेराकारः । आमंत्रितस्य चेति सर्वानुदात्तत्वम् । सौभगेभिः । शोभनो भगः श्रीर्यस्यासौ सुभगः । तस्य भावः सौभगम् । सुभगान्मंत्र इत्युद्गात्रादिषु पाठादञ् प्रत्ययः । हृद्भगसिंध्वंते पूर्वपदस्य चेत्युभयपदवृद्धिर्न भवति तस्य सर्वे विधयश्छंदसि विकल्प्यंत इति विकल्पितत्वात् । पूर्ववदैसभावः । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वं ॥