श्रवणम्

1.112.6
याभि॒रन्त᳚कं॒ जस᳚मान॒मार᳚णे भु॒ज्युं याभि᳚रव्य॒थिभि᳚र्जिजि॒न्वथु᳚ः ।
याभि᳚ः क॒र्कन्धुं᳚ व॒य्यं᳚ च॒ जिन्व᳚थ॒स्ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । अन्त᳚कम् । जस᳚मानम् । आ॒॑अर᳚णे । भु॒ज्युम् । याभिः᳚ । अ॒व्य॒थि॑भिः᳚ । जि॒जि॒न्वथुः᳚ ।
याभिः᳚ । क॒र्कन्धु᳚म् । व॒य्य᳚म् । च॒ । जिन्व᳚थः । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आरणमगाधं कूपादि । तत्रासुरैः प्रक्षिप्तं जसमानं तैर्हिंस्यमानमंतकं शत्रूणामंतकरमेतत्संज्ञं राजर्षिं हे अश्विनौ याभिरूतिभिरवथः रक्षथः । तथा भुज्युं सर्वस्य पालकमेतत्संज्ञं समुद्रमध्ये निमग्नं तुग्र्यं तुग्रस्य पुत्रं राजर्षिं याभिरूतिभी रक्षणहेतुभूताभिरव्यथिभिर्व्यथारहिताभिर्नौभिर्जिजिन्वथुः । युवामतर्पयतम् । एतच्च मंत्रांतरे । तुग्रो ह भुज्युमश्विनोदमेघे । ऋ १-११६-३ । इत्यादिके विस्पष्टयिष्यते । अपि च कर्कंधुं वय्यं चैतत्संज्ञकौ चासुरैः पीड्यमानौ याभिरूतिभिर्जिन्वर्थः प्रीणयथः । गतमन्यत् ॥ जसमानम् । जस हिंसायाम् । यकि प्राप्ते व्यत्ययेन शप् । आरणे । आङ् पूर्वादर्तेर्ल्युट् । जिजिन्वथुः । जिविः प्रीणनार्थः । लिट्यथुसि रूपं ॥ ६ ॥