याभि᳚र्वि॒श्पलां᳚ धन॒साम᳚थ॒र्व्यं᳚ स॒हस्र᳚मीळ्ह आ॒जावजि᳚न्वतम् ।
याभि॒र्वश᳚म॒श्व्यं प्रे॒णिमाव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
याभि॒र्वश᳚म॒श्व्यं प्रे॒णिमाव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
पदपाठः (Word-by-word)
याभिः᳚ । वि॒श्पला᳚म् । ध॒न॒॑साम् । अ॒थ॒र्व्य᳚म् । स॒हस्र᳚॑मीळ्हे । आ॒जौ । अजि᳚न्वतम् ।
याभिः᳚ । वश᳚म् । अ॒श्व्यम् । प्रे॒णिम् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
याभिः᳚ । वश᳚म् । अ॒श्व्यम् । प्रे॒णिम् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ धनसां धनं संभजमानामथर्व्यमगच्छंतीं छिन्नजंघात्वेन गंतुमसमर्थाम् । थर्वतिर्गतिकर्मा । विश्पलामेतत्संज्ञामगस्त्यपुरोहितस्य खेलस्य संबंधिनीम् । सहस्रमीळ्हे । मीळ्हमिति धननाम । बहुधनोपेत आजौ संग्रामे याभिरूतिभिरजिन्वतम् । गंतुं समर्थामकुरुतम् । एतच्च चरित्रं हि वेरिवाच्छेदि पर्णम् । ऋ १-११६-१५ । इत्यत्र विस्पष्टयिष्यते । याभिश्चाश्व्यमश्वाख्यस्य पुत्रं प्रेणिं स्तुतेः प्रेरयितारं वशमेतत्संज्ञमृषिमावतम् । अरक्षतम् । ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ प्रेणिम् । प्रेणृ गतिप्रेरणश्लेषणेषु । औणादिक इप्रत्ययः ॥ १० ॥