श्रवणम्

1.112.8
याभि॒ः शची᳚भिर्वृषणा परा॒वृजं॒ प्रान्धं श्रो॒णं चक्ष᳚स॒ एत᳚वे कृ॒थः ।
याभि॒र्वर्ति᳚कां ग्रसि॒ताममु᳚ञ्चतं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । शची᳚भिः । वृ॒ष॒णा॒ । प॒रा॒॑वृज᳚म् । प्र । अ॒न्धम् । श्रो॒णम् । चक्ष᳚से । एत᳚वे । कृ॒थः ।
याभिः᳚ । वर्ति᳚काम् । ग्र॒सि॒ताम् । अमु᳚ञ्चतम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृषणा कामानां वर्षितारावश्विनौ याभिः शचीभिः कर्मभिः प्रज्ञाभिर्वापरावृजमेतन्नामकमृषिं पंगुं संतमपंगुमकुरुतम् । तथांधं दृष्टिरहितं संतमृतज्राश्वमृषिं चक्षसे प्रकाशाय सम्यक् चक्षुषा दर्शनाय याभिरूतिभिः प्र कृथः प्रकर्षेण कुरुथः । याभिश्च श्रोणं विगुणजानुकमेव संतमृषिमेतवे गंतुं प्र कृथः । प्रकर्षेण कृतवंतौ । अपि च याभिरूतिभिर्वर्तिकां चटकसदृशस्य पक्षिणः स्त्रियं ग्रसितां वृकेण ग्रस्ताममुंचतम् । वृतास्यान्निर्मुक्तामकुरुतम् । यास्कपक्षे तु वृकेण विवृतज्योतिष्केण सूर्येण याभिर्ग्रस्तां वर्तिकां प्रत्यहमावर्तमानामुषसं तस्मादमोचयतमिति योज्यम् । ताभिः सर्वाभिरूतिभिरस्मानप्यागच्छतं ॥ वृषणा । वृष सेचने । कनिन्युवृषीत्यादिना कनिन् । परावृजम् । वृजी वर्जने । परावृणक्ति तपसा पापं विनाशयतीति परावृक् । क्विप्चेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । एतवे । तुमर्थे सेसेनित्येतेस्तवेन्प्रत्ययः । कृथः । डुकृञ् करणे । बहुलं छंदसीति विकरणस्य लुक् ॥ ८ ॥