तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
पदपाठः (Word-by-word)
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ द्युभिर्दिवसैरक्तुभी रात्रिभिश्चास्मान् स्तोतॄन्परि पातम् । परितो रक्षतम् । सर्वदास्मान् रक्षतमित्यर्थः । तथारिष्टेभिरहिंसित्वॆः सौभगेभिः सुभगत्वैः सुभगत्वापादकैर्धनैरस्मान्रक्षतम् । यदस्माभिः प्रार्थितं नोऽस्मदीयं तन्मित्रादयः षड्डेवताः ममहंताम् । पूजयंतु । उतशब्दः समुच्चये ॥ द्युभिः । दिव उदित्युत्वम् । दिवो झल् (पा ६-१-१८३) इति सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य प्रतिषेधः । अरिष्टेभिः । रिष हिंसायाम् । निष्ठेति क्तः । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । बहुलं छंदसीति भिस ऐसभावः । अश्विना । सुपां सुलुगिति विभक्तेराकारः । आमंत्रितस्य चेति सर्वानुदात्तत्वम् । सौभगेभिः । शोभनो भगः श्रीर्यस्यासौ सुभगः । तस्य भावः सौभगम् । सुभगान्मंत्र इत्युद्गात्रादिषु पाठादञ् प्रत्ययः । हृद्भगसिंध्वंते पूर्वपदस्य चेत्युभयपदवृद्धिर्न भवति तस्य सर्वे विधयश्छंदसि विकल्प्यंत इति विकल्पितत्वात् । पूर्ववदैसभावः । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वं ॥