याभि॒ः सूर्यं᳚ परिया॒थः प᳚रा॒वति᳚ मन्धा॒तारं॒ क्षैत्र᳚पत्ये॒ष्वाव᳚तम् ।
याभि॒र्विप्रं॒ प्र भ॒रद्वा᳚ज॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
याभि॒र्विप्रं॒ प्र भ॒रद्वा᳚ज॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
पदपाठः (Word-by-word)
याभिः᳚ । सूर्य᳚म् । प॒रि॒॑या॒थः । प॒रा॒॑वति᳚ । म॒न्धा॒तार᳚म् । क्षैत्र᳚॑पत्येषु । आव᳚तम् ।
याभिः᳚ । विप्र᳚म् । प्र । भ॒रत्॑वा᳚जम् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
याभिः᳚ । विप्र᳚म् । प्र । भ॒रत्॑वा᳚जम् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ परावति दूरदेशे स्थितं सूर्यं तमोरूपेण स्वर्भानुनावृतमादित्यं तस्मात्तमसो मोचयितुं याभिरूतिभिः परियाथः युवां परितो गच्छथः । तथा मंदातारमृषिं क्षैत्रपत्येषु । क्षेत्राणां पतिरधिपतिः क्षेत्रपतिः । तत्संबंधिषु कर्मस्वावतं अरक्षतम् । अपि च याभिरूतिभिर्विप्रं मेधाविनं भरद्वाजमृषिमन्नप्रदानेन प्रावतं प्रकर्षेणारक्षतम् । ताभिः सर्वाभिरूतिभिः सह रक्षणार्थमस्मानप्यागच्छतं ॥ क्षैत्रपत्येषु । ब्राह्मणादेराकृतिगणत्वात्कर्मण्यर्थे ष्यञ् ॥ १३ ॥